41123: शुभ्रादिभ्यश्च¶
Padacheda: शुभ्रा-आदिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे शुभ्रादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति ।
Vasu English Summary¶
The affix ढक् comes in the sense of a descendant after the stems शुभ्र etc.
Vasu English Translation¶
The affix ढक् comes in the sense of a descendant after the stems शुभ्र etc. This debars इञ् and other affixes. The word च in the sutra shows that some words not occuring in the list of शुभ्रादि may take the ढक्, as it is an आकृतिगणः ॥ For though the words गंगा, पांडव are not in the list, we find still forms like गांगेयः, पाण्डवेयः &c.
Thus शुभ्रस्यापत्यं = शौभ्रेयः ॥
1 शुभ्र 2 विष्ट पुर (विष्टपुर), 3 ब्रह्मकृत 4 शतद्वार, शलाथल, (शलाचल) 6 शलाकाभ्रू, 7 लेखाभ्रु, (लेखाभ्र), 8 विकंसा, (विकास), 9 रोहिणी, 10 रुक्मिणी, 11 धर्मिणी, 12 दिश्, 13 शालूक, 14 अजवस्ति, 15 शकंधि, 16 विमातृ, 17 विधवा, 18 शुक, 19 विश, 20 देवतर 21 शकुनि, 22 शुक्र, 23 उग्र, 24 ज्ञातल (शतल) 25 बन्धकी, 26 सृकण्डु, 27 विस्रि, 28 अतिथि, 29 गोदन्त, 30 कुशाम्ब, 31 मकष्टु, 32 शाताहर, 33 पवष्टुरिक, 34 सुनामन्, 35 लक्ष्मणश्यामयोर्वासिष्ठे । 36 गोधा, 37 कृकलास, 38 अणीब, 39 प्रवाहण, 40 भरत (भारत) 41 भरम; 42 मृकण्डु, 43 कर्पूर, 44 इतर, 45 अन्यतर, 46 आलीढ, 47 सुदन्त, 48 सुदक्ष, 49 सुवक्षस्, 50 सुदामन्, 51 कद्रु, 52 तुद, 53 अकशाय, 54 कुमारिका, 55 कुठारिका, 56 किशोरिका, 57 अम्बिका, 58 जिह्माशिन्, 59 परिधि, 60 वायुदत्त; 61 शकल, 62 शलाका, 63 खडूर, 64 कुबेरिका, 65 अशोका, 66 गन्धपिङ्गला, 67 खडोन्मत्ता, 68 अनुदष्टिन्, (अनुद्रष्टि) 69 जरतिन्, 70 बलीवर्दिन्, 71 विग्र, 72 वीज, 73 जीव, 74 श्वन्, 75 अश्मन्, 76 अश्व, 77 अजिर 78 शतावर, 79 शलाका, 80 कृकसा, 81 भरत, 82 मद्यष्टु, 83 ककल, 84 स्थूल, 85 मकथु, 86 यमष्टु, 87 कष्टु, 88 मृकण्ड, 89 गुद, 90 रुद, 91 कुशेरिका, 92 शवल, 93 अजिन ॥
Kashika¶
शुभ्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक् प्रत्ययो भवति। यथायोगमिञादीनामपवादः। शौभे्रयः। वैष्टपुरेयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। तेन गाङ्गेयः पाण्डवेय इत्येवमादि सिद्धं भवति॥ शुभ्र। विष्टपुर। ब्रह्मकृत। शतद्वार। शतावर। शलाका। शालाचल। शलाकाभ्रू। लेखाभ्रू। विमातृ। विधवा। किंकसा। रोहिणी। रुक्मिणी। दिशा। शालूक। अजबस्ति। शकन्धि। लक्षणश्यामयोर्वासिष्ठे (ग०सू० ७४)। गोधा। कृकलास। अणीव। प्रवाहण। भरत। भारम। मृकण्डु। मघष्टु। मकष्टु। कर्पूर। इतर। अन्यतर। आलीढ। सुदत्त। सुचक्षस्। सुनामन्। कद्रु। तुद। अकशाप। कुमारिका। किशोरिका। कुवेणिका। जिह्माशिन्। परिधि। वायुदत्त। ककल। खट्वा। अम्बिका। अशोका। शुद्धपिङ्गला। खडोन्मत्ता। अनुदृष्टि। जरतिन्। बलिवर्दिन्। विग्रज। बीज। श्वन्। अश्मन्। अश्व। अजिर॥
Siddhanta Kaumudi¶
ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥
Balamanorama¶
शुभ्रादिभ्यश्च - शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इञाद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः ।
Tattvabodhini¶
शुभ्रादिभ्यश्च - शुभ्रादिभ्यश्च । चकारस्त्वाकृतिगणत्वत्वद्योतनार्थ इत्याहुः । मृकण्डशब्दोऽत्र पठते । मार्कण्डेयः । शुभ्र, मृकण्ड, अआ, विमातृ । विधवा, गोधा, प्रवाहणेत्यादि । आकृतिगणोऽयम् । तेनपाण्डवेय॑इत्यादि सिद्धम् । इहाऽदन्तेषु इञ् प्राप्तः, विधवाशब्दात्क्षुद्रालक्षणो ढक्, चतुष्पाज्जातिवाचिषु ढञ्, गोधाशब्दाड्ढ्रग्वनात्सोऽपि भवति, क्वचिदौत्सर्गिकोऽणं प्राप्त इति बोध्यम् ।
Padamanjari¶
यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दातु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति ।’ढेअलोपो’ कद्रवाऽ इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्, पाण्डवशब्दाद्वा प्रत्ययः । लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ् ॥
Nyaas¶
यथायोगम् इत्यादि। ये तावदकारान्तास्तेभ्य इञोऽपवादः। शलाका, कुरेका,अम्बिका, अशोका, खट्वा, पिङ्गला, खण्डोन्मत्ता - इत्येतेम्पस्तन्नामिकाणः। विधवाशब्दात् क्षुद्रालक्षणस्य ढ्रकः। किंकसा, रोहिणी, अजवस्ति, शकन्धि, कृकलास, सुदत्त, परिधि - एतेभ्यश्चतुष्पाल्लक्षणस्य ढञः। गोधाशब्दाद् गोधाया ढ्रकः, वचनसामर्थ्यात् सोऽपि भवत्येव। शेषेभ्य औत्सर्गिकोऽण इत्येष यथायोगार्थः। लक्षणश्यामयोर्वासिष्ठे इति। लक्षण, श्याम - इत्येतयोर्वासिष्ठेऽपत्यविशेषे ढग्भवति। लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः। श्यामेयो वासिष्ठः, श्यामायनोऽन्यः। अआआदित्वात् फञ्॥