41124: विकर्णकुषीतकात् काश्यपे ============================== **Padacheda:** विकर्ण-कुषीतकात् | S | 5 | 1 | काश्यपे | S | 7 | 1 | Sutrartha --------- **काश्यपकुलस्य निर्देशे 'तस्य अपत्यम्' अस्मिन् अर्थे विकर्णशब्दात् कुषीतकशब्दात् च ढक् प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix ढक् comes after the words 1. विकर्ण and 2. कुषीत when they mean the descendants of काश्यप। Vasu English Translation ------------------------ The affix ढक् comes after the words 1. विकर्ण and 2. कुषीत when they mean the descendants of काश्यप। Thus वैकर्णेयः and कौषीतकेयः = काश्यपः; otherwise we have वैकर्णिः and कौषीतकिः formed by (4.1.95). Kashika ------- विकर्णशब्दात् कुषीतकशब्दात् च काश्यपेऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यप इति किम् ? वैकर्णिः। कौषीतकिः॥ Siddhanta Kaumudi ----------------- अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥ Balamanorama ------------ **विकर्णकुषीतकात् काश्यपे** - विकर्णकुषीत । अपत्ये ढगिति । शेषपूरणम् ।काश्यप एवे॑ति नियमार्थं शुभ्रादिभ्यः पृथक् पाठः । Prakriyasarvasvam ----------------- काश्यपे दत्तपुत्रे वैकर्णेयः । कौषीतकेयः । स्वपुत्रे वैकर्णिः । कौषीतकिः ॥