41125: भ्रुवो वुक् च¶
Padacheda: भ्रुवः | S | 6 | 1 |
वुक् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘भ्रू’शब्दात् ढक् प्रत्ययः भवति, भ्रूशब्दस्य च ‘वुक्’ आगमः अपि भवति ।
Vasu English Summary¶
The affix ढक् comes in the sense of a descendant after the word भ्रू and the augment वुक् is added when this affix is to be applied.
Vasu English Translation¶
The affix ढक् comes in the sense of a descendant after the word भ्रू and the augment वुक् is added when this affix is to be applied. Thus भ्रू + ढक् = भ्रू + वुक् + ढक् (1.1.46) = भ्रूव् + ढक् = भ्रौवेयः (7.1.2)
Kashika¶
भ्रूशब्दादपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः। भ्रौवेयः॥
Siddhanta Kaumudi¶
चाड्ढक् । भ्रौवेयः ॥
Balamanorama¶
भ्रुवो वुक् च - भ्रुवो वुक् च । चाड्ढगिति । भ्रूशब्दादपत्ये ढक् स्यात्प्रकृतेर्वुगागमश्च । वुकि ककार इत् । उकार उच्चारणार्थछः । कित्त्वादन्तावयवः । भ्रौवेय इति । भ्रूर्नाम काचित्, तस्या अपत्यमिति विग्रहः । ढकि एयादेसे प्रकृतेर्वुकि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धौ आवादेसे ‘भ्रावेय’ इति स्यात् ।