41119: ढक् च मण्डूकात्

Padacheda: ढक् | S | 1 | 1 |

च | S | 0 | 0 |

मण्डूकात् | S | 5 | 1 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘मण्डूक ‘ शब्दात् अपत्यार्थम् विकल्पेन ढक् तथा अण्-प्रत्ययौ विधीयेते ।

षष्ठीसमर्थात् ‘मण्डूक ‘ शब्दात् अपत्यार्थे वर्तमानसूत्रेण ‘अण्’ तथा ‘ढक्’ - द्वयोः प्रत्यययोः वैकल्पिकविधानम् क्रियते । यदि द्वयोः प्रयोगः न भवति तर्हि पक्षे अत इञ् (4.1.95) इत्यनेन इञ्-प्रत्ययः अपि विधीयते - 1. मण्डूक + अण् → माण्डूक + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → माण्डूक् + अ [यस्येति च (6.4.148) इति अकारलोपः] → माण्डूक 2. मण्डूक + ढक् → मण्डूक + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → माण्डूक + एय [किति च (7.2.118) इति आदिवृद्धिः] → माण्डूक् + एय [यस्येति च (6.4.148) इति अकारलोपः] → माण्डूकेय 3. मण्डूक + इञ् → माण्डूक + इ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → माण्डूक् + इ [यस्येति च (6.4.148) इति अकारलोपः] → माण्डूकि ज्ञातव्यम् - अस्मिन् सूत्रे ‘वा’ शब्दः द्विवारमागच्छति । प्रथमः ‘वा’ शब्दः समर्थानां प्रथमात् वा (4.1.82) इत्यस्मात् स्वीक्रियते, येन तद्धितविधानमेव विकल्पेन भवति (अतः ‘मण्डूकापत्यम्’ उत ‘मण्डूकस्य अपत्यम्’ एतौ प्रयोगौ अपि साधु स्तः) । द्वितीयः ‘वा’ शब्दः अस्मिन् सूत्रे एव अस्ति, येन ‘अण्’ तथा ‘ढक्’ - द्वावपि प्रत्ययौ विकल्पेन भवतः, अतः तदभावे अत इञ् (4.1.95) इत्यनेन इञ्-प्रत्ययः विधीयते ।

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the word मण्डूक gets the अण् as well as ढक् प्रत्यय optionally.

Vasu English Summary

The affix ढक् comes optionally in the sense of a descendant after the word मण्डूक as well as the affix अण्।

Vasu English Translation

The affix ढक् comes optionally in the sense of a descendant after the word मण्डूक as well as the affix अण्। Thus we get three forms, मण्डुक + ढक् = मांडूकेयः; मंडूक + अण् = मांण्डूकः; मण्डूक + इञ् = माण्डुकिः ॥

Kashika

मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः॥

Siddhanta Kaumudi

चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥

Balamanorama

ढक् च मण्डूकात् - अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च । मण्डूको नाम ऋषिः पक्षे इञिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः ।

Prakriyasarvasvam

अस्माढ्ढक् अण् च वा स्यात् । माण्डूकेयः । माण्डूकः । वेत्यत इञि माण्डूकिः । मण्डूकोऽत्र मुनिः भेकोऽपीति शङ्करः ॥

Sutra Prayogas

  • कूप-माण्डूकि (भट्टिकाव्यम्): ढक् च मण्डूकात् इति चकारादण् वापत्ये।