41118: पीलाया वा

Padacheda: पीलायाः | S | 5 | 1 |

वा | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘पीला’ शब्दात् अण्-प्रत्ययः विकल्पेन भवति ।

‘पीला’ शब्दात् अपत्यार्थम् विकल्पेन अण्-प्रत्ययः भवति । पक्षे द्व्यचः (4.1.121) इत्यनेन ढक्-प्रत्ययः अपि विधीयते - 1) पीला + अण् → पैला + अण् [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पैल् + अण् [यस्येति च (6.4.148) इति आकारलोपः] → पैल 2) पीला + ढक् → पीला + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → पैला + एय [किति च (7.2.118) इति आदिवृद्धिः] → पैल् + एय [यस्येति च (6.4.148) इति आकारलोपः] → पैलेय ज्ञातव्यम् - समर्थानां प्रथमात् वा (4.1.82) अनेन अधिकारेण अपि ‘वा’ ग्रहणं क्रियते परन्तु तत् भिन्नमस्ति । तत्र तद्धितप्रत्यययोजनस्य विषये विकल्पः उच्यते । वर्तमानसूत्रे विद्यमानः ‘वा’ शब्दः तु अण्-प्रत्ययस्य वैकल्प्यम् दर्शयति ।

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the word पीला gets the अण्-प्रत्यय optionally.

Vasu English Summary

The affix अण् comes optionally after the word पीला in denoting a descendant.

Vasu English Translation

The affix अण् comes optionally after the word पीला in denoting a descendant. The word पीला being the name of a female would have taken अण् by (4.1.113); but this अण् would have been prohibited by (4.1.121) as it is a dissyllabic feminine word. Hence the necessity of the present sutra. Thus पैलः or पैलेयः ‘son of Pila.’

Kashika

तन्नामिकाणो बाधके द्व्यचः (४.१.१२१) इति ढकि प्राप्तेऽण् प्रत्ययः पक्षे विधीयते। पीलाया अपत्ये वाण् प्रत्ययो भवति। पीलाया अपत्यं पैलः, पैलेयः॥

Siddhanta Kaumudi

तन्नामिकाणां बाधित्वाद्व्यच-(SK1124) इति ढकि प्राप्ते पक्षेण्विधीयते । पीलाया अपत्यं पैलः-पैलेयः ॥

Balamanorama

कुलटाया वा - कुलटाया वा । इनङ्मात्रमिति । व्याख्यानादिति भावः । पूर्वेणैवेति ।स्त्रीभ्यो ढ॑गित्यनेनेत्यर्थः । कुलानि गृहाणि अटतीति रुलटा । शकन्ध्वादित्वात्पररूपम् । अत्रेति ।कुलटाया वे॑ति सूत्रे इत्यर्थः । पक्षे ढ्रगिति । ढ्रगपि कदाचिद्भवतीत्यर्थः । कौलटेर इति । कुलटाया ढ्रकि ढकारस्य एयादेशेलोपो व्यो॑रिति यकारलोप इति भावः ।

Tattvabodhini

कुलटाया वा - कुलटाया वा.शकन्धवादित्वात्पररूपपमत एव निपातनाद्वा । सती भिक्षुक्यवेति । अत्र=अनङ्विधौ । तथा चोक्तममरेण -॒अथ बान्धकिनेयः स्याद्बन्धुलश्चाऽसतीसुतः । कौलटेरः कौलटीयो भिक्षुकी तु सती यदि । तदा कोलटीनेयोऽस्याः कौलटेयोऽपि चात्मजः॑इति । केचित्तु क्षुद्राया अपि इनङा तृतीयं रूपं कौलटिनेय इतीच्छन्ति । पक्षे ढ्रगिति । ढगपि पक्षे भवत्येवेति भावः ।

Prakriyasarvasvam

पीलाख्यायाः स्त्रियां ढकि प्राप्ते अण् वा स्यात् । पैलः । पैलेयः । साल्वायाश्च वेष्यते । साल्वा क्षत्रियस्त्री । तत्पुत्रः साल्वः साल्वेयः ॥