41119: ढक् च मण्डूकात् ====================== **Padacheda:** ढक् | S | 1 | 1 | च | S | 0 | 0 | मण्डूकात् | S | 5 | 1 | Sutrartha --------- **'तस्य अपत्यम्' अस्मिन् अर्थे 'मण्डूक ' शब्दात् अपत्यार्थम् विकल्पेन ढक् तथा अण्-प्रत्ययौ विधीयेते ।** षष्ठीसमर्थात् 'मण्डूक ' शब्दात् अपत्यार्थे वर्तमानसूत्रेण 'अण्' तथा 'ढक्' - द्वयोः प्रत्यययोः वैकल्पिकविधानम् क्रियते । यदि द्वयोः प्रयोगः न भवति तर्हि पक्षे **अत इञ्** (4.1.95) इत्यनेन इञ्-प्रत्ययः अपि विधीयते - 1. मण्डूक + अण् → माण्डूक + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → माण्डूक् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → माण्डूक 2. मण्डूक + ढक् → मण्डूक + एय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति ढकारस्य एय्-आदेशः] → माण्डूक + एय [**किति च** (7.2.118) इति आदिवृद्धिः] → माण्डूक् + एय [**यस्येति च** (6.4.148) इति अकारलोपः] → माण्डूकेय 3. मण्डूक + इञ् → माण्डूक + इ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → माण्डूक् + इ [**यस्येति च** (6.4.148) इति अकारलोपः] → माण्डूकि ज्ञातव्यम् - अस्मिन् सूत्रे 'वा' शब्दः द्विवारमागच्छति । प्रथमः 'वा' शब्दः **समर्थानां प्रथमात् वा** (4.1.82) इत्यस्मात् स्वीक्रियते, येन तद्धितविधानमेव विकल्पेन भवति (अतः 'मण्डूकापत्यम्' उत 'मण्डूकस्य अपत्यम्' एतौ प्रयोगौ अपि साधु स्तः) । द्वितीयः 'वा' शब्दः अस्मिन् सूत्रे एव अस्ति, येन 'अण्' तथा 'ढक्' - द्वावपि प्रत्ययौ विकल्पेन भवतः, अतः तदभावे **अत इञ्** (4.1.95) इत्यनेन इञ्-प्रत्ययः विधीयते । Sutrartha (English) ------------------- To indicate the meaning of 'his/her offspring', the word मण्डूक gets the अण् as well as ढक् प्रत्यय optionally. Vasu English Summary -------------------- The affix ढक् comes optionally in the sense of a descendant after the word मण्डूक as well as the affix अण्। Vasu English Translation ------------------------ The affix ढक् comes optionally in the sense of a descendant after the word मण्डूक as well as the affix अण्। Thus we get three forms, मण्डुक + ढक् = मांडूकेयः; मंडूक + अण् = मांण्डूकः; मण्डूक + इञ् = माण्डुकिः ॥ Kashika ------- मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन त्रैरूप्यं भवति। माण्डूकेयः, माण्डूकः, माण्डूकिः॥ Siddhanta Kaumudi ----------------- चादण् । पक्षे इञ् । माण्डूकेयः । माण्डूकः । माण्डूकिः ॥ Balamanorama ------------ **ढक् च मण्डूकात्** - अन्यथा शैवः शैविरित्यादिः स्यात्, ढक् च । मण्डूको नाम ऋषिः पक्षे इञिति । पूर्वसूत्राद्वाग्रहणानुवृत्तेरिति भावः । Prakriyasarvasvam ----------------- अस्माढ्ढक् अण् च वा स्यात् । माण्डूकेयः । माण्डूकः । वेत्यत इञि माण्डूकिः । मण्डूकोऽत्र मुनिः भेकोऽपीति शङ्करः ॥ Sutra Prayogas -------------- * **कूप-माण्डूकि** (भट्टिकाव्यम्): `ढक् च मण्डूकात्` इति चकारादण् वापत्ये।