41120: स्त्रीभ्यो ढक्¶
Padacheda: स्त्रीभ्यः | S | 5 | 3 |
ढक् | S | 1 | 1 |
Sutrartha¶
‘तस्य अपत्यम्’ अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते ।
षष्ठीसमर्थेभ्यः स्त्रीप्रत्ययान्तशब्देभ्यः अपत्यार्थम् ढक्-प्रत्ययः भवति । प्रत्ययाधिकारे आहत्य अष्ट स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन्, ऊङ्, ति । एतेषां सर्वेषामुदाहरणानि अधः दत्तानि सन्ति । अत्र आदौ एकः विशेषः स्मर्तव्यः - अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4.1.113) एतत् सूत्रम् वर्तमानसूत्रस्य अपवादत्वेन आगच्छति । अतः ये स्त्री-प्रत्ययान्तशब्दाः वृद्धसंज्ञकाः न सन्ति, तथा नद्याः मानुष्याः वा नामरूपेण प्रयुज्यन्ते, तेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अधः दत्तेषु उदाहरणेषु प्रयुक्ताः अवृद्धाः स्त्री-प्रत्ययान्तशब्दाः नद्याः मानुष्याः नामरूपेण न प्रयुक्ताः सन्तीति स्मर्तव्यम् । 1. [टाप्-प्रत्ययान्तः] - विनतायाः अपत्यम् = विनता + ढक् → वैनतेय । 2. [चाप्-प्रत्ययान्तः] - कौसल्यायाः अपत्यम् = कौसल्या + ढक् → कौसल्येय । 3. [डाप्-प्रत्ययान्तः] - बहुराजायाः अपत्यम् = बहुराजा + ढक् → बाहुराजेय । 4. [ङीप्-प्रत्ययान्तः] - प्रमात्र्याः अपत्यम् = प्रमात्री + ढक् → प्रामात्रेय । 5. [ङीष्-प्रत्ययान्तः] - पावन्याः अपत्यम् = पावनी + ढक् → पावनेय । 6. [ङीन्-प्रत्ययान्तः] - शार्ङ्गरव्याः अपत्यम् = शार्ङ्गरवी + ढक् → शार्ङ्गरवेय । 7. [ऊङ्-प्रत्ययान्तः] - मद्रबाह्वाः अपत्यम् = मद्रबाहू + ढक् → माद्रबाहेय । 8. [ति-प्रत्ययान्तः] - युवतेः अपत्यम् = युवति + ढक् → यौवतेय । प्रक्रियाः - 1. टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन् - एतेषां सर्वेषाम् विषये प्रक्रिया समाना एव अस्ति । यथा, विनतायाः अपत्यम् इत्यस्मिन् अर्थे ‘विनतायाः’ इति षष्ठीसमर्थात् ढक्-प्रत्ययः भवति - विनतायाः + ढक् → विनता + ढक् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लुक्] → विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → वैनता + एय [किति च (7.2.118) इति आदिवृद्धिः] → वैनत् + एय [यस्येति च (6.4.148) इति आकारलोपः] → वैनतेय 2. ‘ऊङ्’ प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते - मद्रबाहू + ढक् → मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः । यचि भम् (1.4.18) इति अङ्गस्य भसंज्ञा] → माद्रबाहू + एय [किति च (7.2.118) इति आदिवृद्धिः] → माद्रबाहू + एय [ओर्गुणः (6.4.146) इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः (6.4.147) इति अङ्गस्य अन्तिमवर्णस्य लोपः] → माद्रबाहेय 3. ‘ति’ प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते - युवतेः + ढक् → युवति + ढक् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लुक्] → युवति + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ढकारस्य एय्-आदेशः] → यौवति + एय [किति च (7.2.118) इति आदिवृद्धिः] → यौवत् + एय [यस्येति च (6.4.148) इति आकारलोपः] → यौवतेय ज्ञातव्यम् - 1. सर्वे स्त्रीप्रत्ययान्तशब्दाः प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापिग्रहणम् अनया परिभाषया प्रातिपदिकसंज्ञां प्राप्नुवन्ति । अतएव प्रातिपदिकाधिकारे पाठिताः तद्धितप्रत्ययाः तेभ्यः भवितुमर्हन्ति । 2. अनेन सूत्रेण केवलं ‘स्त्रीप्रत्ययान्त’शब्दानां विषये एव ढक्-प्रत्ययः भवति, ‘स्त्रीलिङ्ग’शब्दानां न । अतः ये स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययान्ताः न सन्ति, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - मातृ, दुहितृ, मति, भक्ति, गति, श्री - आदयः । उदाहरणानि एतानि - अ). मातुः अपत्यम् = मातृ + अण् → मात्र । आ) भक्तेः अपत्यम् = भक्ति + ढक् → भाक्तेय । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, परन्तु इतश्चानिञः (4.1.122) इत्यनेन ढक्-प्रत्ययः एव विधीयते । इ) श्रियः अपत्यम् = श्री + अण् → श्रैयः । प्रक्रिया इयम् - श्री + अण् → श् र् इयङ् + अण् [श्री-शब्दः धातुजः अस्ति, अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङ्-उवङौ (6.4.77) इति इयङ्-आदेशः] → श्रैय् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → श्रैय 3. शिवादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - ककुभा, जटिलिका , सपत्नी - आदयः) - तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन शिवादिभ्योऽण् (4.1.112) इत्यनेन अण्-प्रत्ययः एव विधीयते । तथा च, अयं अण्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4.1.113) अस्यापि अपवादरूपेण आगच्छति । 4. बाह्वादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - वृषली, सुमित्रा, चुडा - आदयः) तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन बाह्वादिभ्यश्च (4.1.96) इत्यनेन इञ्-प्रत्ययः एव विधीयते । तथा च, अयं इञ्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4.1.113) अस्यापि अपवादरूपेण आगच्छति । 5. शुभ्रादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - किशोरिका, अम्बिका - आदयः) तेषां विषये अपत्यार्थे शुभ्रादिभ्यः ढक् (4.1.123) इत्यनेन ढक्-प्रत्ययः विधीयते । अयं ढक्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः (4.1.113) अस्यापि अपवादरूपेण आगच्छति । अत्र वार्त्तिकद्वयं ज्ञातव्यम् - 1. <!वडवायाः वृषे वाच्ये!> - ‘वृषभ’ अर्थे अभिधेये ‘वडवा’ शब्दात् ढक्-प्रत्ययः भवति । इत्युक्ते, ‘वडवा + ढक् → वाडवेय’ अयं शब्दः ‘वृषः’ अस्मिन् अर्थे प्रयुज्यते । अस्य वार्त्तिकस्य विषये काशिकाकारः वदति - ‘अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति भवति’ । इत्युक्ते, अपत्यार्थे ‘वडवा’शब्दात् अण् प्रत्ययः भवति । वडवायाः अपत्यं वाडवः । 2. <!अण् क्रुञ्चा-कोकिलात् स्मृतः!> - ‘क्रुञ्चा’ तथा ‘कोकिला’ शब्दाभ्यामपत्यार्थे अण्-प्रत्ययः भवति । क्रुञ्चायाः अपत्यम् = क्रुञ्चा + अण् → क्रौञ्च । कोकिलायाः अपत्यम् = कोकिल + अण् → कौकिल ।
Sutrartha (English)¶
To indicate the meaning of ‘his/her offspring’, the स्त्रीप्रत्ययान्त words get the ‘ढक्’ प्रत्यय.
Vasu English Summary¶
Words ending in the feminine affixes take the affix ढक् in forming their गोत्र (Patronymic).
Vasu English Translation¶
Words ending in the feminine affixes take the affix ढक् in forming their गोत्र (Patronymic). The word स्त्री in the aphorism means ‘words ending in the feminine affixes टाप् &c.’ That is, words ending in long आ and ई of the feminine. Thus विनता + ढक् = वैनतेयः (4.1.2). So also सौपर्णेयः “Son of Vinata or Suparni”. But ऐडविडः and दारदः formed by अण् meaning sons of इडविड and दरद, for though these words are feminine. they do not end in feminine affixes.
Vart:- The affix ढक् comes after वडवा when meaning वृष ॥ Thus वाडवेयः = वृषः “bull.” Here ‘dhak’ has not the patronymic force. The patronymic will be वाडवः ‘the son of a mare’.
Vart:- The feminine words क्रुञ्चा and कोकिला take the affix अण् in forming the patronymic. Thus क्रौञ्चः “the son of a curlew.” कौकिलाः “the son of a cuckoo.”
Bhashya¶
स्त्रीभ्यो ढक् (1366) (ढगधिकरणम्) (स्त्रीशब्दार्थप्रत्यायकभाष्यम्) इदं सर्वेष्वेव स्त्रीग्रहणेषु विचार्यते -स्त्रीग्रहणे स्त्रीप्रत्ययग्रहणं वा स्यात्, स्त्रीशब्दग्रहणं वा, स्त्र्यर्थग्रहणं वा॥ किं चातः? यदि स्त्रीशब्दग्रहणमर्थग्रहणं वा -ःइडबिड् -ऐडबिडः। पृथ् -पार्थः। उशिक् -औशिज। दरद् -दारदः। अत्रापि प्राप्नोति। अथ प्रत्ययग्रहणम् -लैखाभ्रेयः, वैमात्रेयः, इति न सिध्यति॥ अस्तु प्रत्ययग्रहणम्। कथं लैखाभ्रेयः, वैमात्रेय इति? शुभ्रादिषु पाठः करिष्यते॥ (अर्थविशेषे प्रत्ययबोधकभाष्यवार्तिकम्) वडवाया वृषे वाच्ये। वडवाया वृषे वाच्ये ढग् वक्तव्यः -वडवाया वृषो वाडवेयः॥ (ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्) अण् क्रुञ्ञ्चाकोकिलात्स्मृतः। क्रौञ्ञ्चः, कौकिल इति॥ (ढक्बाधकप्रत्ययबोधकभाष्यवार्तिकम्) आरक् पुंसि ततोऽन्यत्र। ततोऽन्यत्र आरक्पुंसि वक्तव्यः। मूषिकाया अपत्यं पुमान् मौषिकारः, मृग्याः पुमान्मार्गारः॥ (ढ्रकि पुमर्थविधायकभाष्यवार्तिकम्) गोधाया ढ्रक्विधौ स्मृतः॥ गोधायाः पुमान् गौधेरः॥
Kashika¶
इह स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्योऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहण इह न भवति — इडबिडोऽपत्यं दरदोऽपत्यम्, ऐडबिडः, दारद इति॥ वडवाया वृषे वाच्ये॥ वाडवेयो वृषः स्मृतः॥ अपत्ये प्राप्तस्ततोऽपकृष्य विधीयते, तेनापत्ये वाडव इति भवति॥ अण् क्रुञ्चाकोकिलात् स्मृतः॥ क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः॥
Siddhanta Kaumudi¶
स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥
Laghu Siddhanta Kaumudi¶
स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥
Balamanorama¶
स्त्रीभ्यो ढक् - स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह — स्त्रीप्रत्ययान्तेभ्य इति । विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत् ।द्व्यञ्मगधे॑त्यण् ।अतश्चे॑ति तस्य लुक् । तस्या अपत्यं-दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह — बाह्वादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् ।
Tattvabodhini¶
स्त्रीभ्यो ढक् - स्त्रीभ्यो ढक् । बहुवचननिर्देशान्न स्वरूपस्य ग्रहणं, नाप्यर्थस्य, ढगर्थतया शुभ्रादिषु विमातृशब्दपाठात् । किं तु स्त्र्यधिकारोक्तटाबादेग्र्रहणं, न तु विप्रकृतिक्तिन्नादेरित्याशयेनाह -स्त्रीप्रत्ययान्तेभ्य इत्यादिना । तेनदरदोऽपत्यं दारदः॑इत्यत्र ढक् न भवति । स्त्र्यर्थग्रहणे तु स्यादेवाऽत्र ढक् । दरच्छब्दो हि जनपदक्षत्रियवाचीति ततोऽपत्यार्थेद्यञ्मगधे॑त्यणि तस्य स्त्रियाम् ।अतश्चे॑ति लुकि दरच्छब्दस्य स्त्र्यर्थवाचित्वात् ।ढक् चे॑ति वर्तमाने पुनरिह ढग्ग्रहणमण्संबद्धस्य ढको निवृत्त्यर्थम् । यद्यपिचानुकृष्टं नोत्तरत्रे॑ति परिभाषया अणिह न प्रवर्तते तथापि तस्या अनित्यत्वज्ञापनाय ढग्ग्रहणमित्याहुः ।तस्येदमिति । शिवादित्वादपत्य एवाऽणित्यन्ये ।
Padamanjari¶
स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च - स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात्’जनपदशब्दात्क्षत्रियादञ्’ , दरच्छब्दाद्’द्व्यञ्मगध’ इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥
Nyaas¶
इह स्त्रीग्रहणेन टाबादिस्त्रीप्रत्ययान्ताः शब्दाः गृह्यन्ते इति। अथ स्वरूपग्रहणं कस्मान्न भवति? बहुवचननिर्देशात्। स्वरूपग्रहणे हि तस्यैकत्वादेकवचनेनैव निर्देशं कुर्यात्। स्त्र्यर्थमात्रस्य ग्रहणं कस्मान्न भवति? विमातृशब्दस्य स्त्र्यर्थस्य शुभ्रादिषु पाठात्। यद्यत्र स्त्र्यर्थमात्रस्य स्त्रीशब्दस्य ग्रहणं स्यात्, तस्य शुभ्रादिषु पाठोऽनर्थकः स्यात्, अनेनैव ढकः सिद्धत्वात्। ऐडविडः दारदः इति। इडविडोऽपत्यं वरदोऽपत्यमित्यणेव भवति। ढगिति वर्तमाने ढकः पुनग्र्रहणं नित्यार्थम्। वडवाया वृष वाच्ये इति। यस्तस्या गर्भे बीजं प्रक्षिपति स वृषो वाडवेय इत्युच्यते।अण्क्रुञ्चाकोकिलात् स्मृतः इति। वृष इति नापेक्ष्यते। अपत्ये विधिरेवायम्। ढकोऽपवादः॥
Prakriyasarvasvam¶
स्त्रीप्रत्ययान्तेभ्योऽपत्ये ढक् स्यात् । वैनतेयः । यौवतेयः ॥
Sutra Prayogas¶
मैथिलेयौ (रघुवंशम्): स्त्रीभ्यो ढक् इति ढक्-प्रत्ययः।
शैलेयनद्धेषु (कुमारसम्भवम्): स्त्रीभ्यो ढक् इति भवार्थे ढक्।
राधेयम् (किरातार्जुनीयम्): स्त्रीभ्यो ढक् इति ढक्-प्रत्ययः।
सैंहिकेयो (शिशुपालवधम्): स्त्रीभ्यो ढक् इति ढक्।
पार्थ (शिशुपालवधम्): स्त्रीभ्यो ढक् इति ढक् स्यात् ।
सैंहिकेयानुकारात् (शिशुपालवधम्): स्त्रीभ्यो ढक् (पा.4.1.120) इति ढक्-प्रत्ययः।
काद्रवेयैः (शिशुपालवधम्): स्त्रीभ्यो ढक् इति ढक् प्रत्ययः।
सौभागिनेयस्य (भट्टिकाव्यम्): स्त्रीभ्यो ढक् कल्या- प्यादीनामिनङ् ।
कानिष्ठिनेयस्य (भट्टिकाव्यम्): स्त्रीभ्यो ढक् इति कनिष्ठाया अपत्यं ज्येष्ठाया अपत्यमिति ढक्।