41115: मातुरुत् संख्यासम्भद्रपूर्वायाः

Padacheda: मातुः | S | 6 | 1 |

उत् | S | 1 | 1 |

संख्या-सम्-भद्र-पूर्वायाः | S | 6 | 1 |

Sutrartha

यः मातृ-शब्दः संख्यावाचीशब्दात् / ‘सम्’ शब्दात् / ‘भद्र’ शब्दात् परः आगच्छति, तस्मात् ‘तस्य अपत्यम्’ अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा ‘मातृ’ शब्दस्य उकारादेशः अपि भवति ।

यदि मातृ-शब्दः संख्यावाचीशब्दात् / ‘सम्’ शब्दात् / ‘भद्र’ शब्दात् अनन्तरम् (‘उत्तरपद’रूपेण) आगच्छति, तर्हि तादृशात् मातृ-शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा मातृ-शब्दस्य उकारादेशः अपि भवति । अलोऽन्त्यस्य (1.1.52) इत्यनेन अयमादेशः ऋकारस्य स्थाने विधीयते, अतः उरण् रपरः (1.1.51) इत्यनेन अस्मात् उकारात् अनन्तरम् रेफः आगच्छति । उदाहरणानि एतानि - 1) षण्णाम् मातॄणामपत्यम् = षण्मातृ + अण् → षण्मातुर् + अण् [मातुरुत् संख्यासम्भद्रपूर्वायाः (4.1.115) इति ऋकारस्य उकारादेशः । उरण् रपरः (1.1.51) इति सः रपरः] → षाण्मातुर् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → षाण्मातुर तथैव - द्वयोः मात्रोः अपत्यम् = द्विमातृ + अण् → द्वैमातुर । 2) सम्मातुः अपत्यम् = सम्मातृ + अण् = साम्मातुर । 3) भद्रमातुः अपत्यम् = भद्रमातृ + अण् = भाद्रमातुर । ज्ञातव्यम् - 1. वस्तुतः मातृ-शब्दात् अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् (4.1.83) इत्यनेनैव भवितुमर्हति । वर्तमानसूत्रस्य प्रयोजनं तु ‘मातृ-शब्दस्य अण्-प्रत्यये परे उकारादेशः’ - इत्येव अस्ति । 2. यदि मातृ-शब्दः सङ्ख्या/सम्/भद्र - एतेभ्यः परः न आगच्छति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः ऋकारस्य उकारादेशः अपि न भवति । अण्-प्रत्ययविधानम् तु प्राग्दीव्यतोऽण् (4.1.83) इत्यनेनैव भवितुमर्हति - सुमातुः अपत्यम् पुमान् = सौमात्रः । 3. वर्तमानसूत्रेण निर्दिष्टः मातृ-शब्दः ‘अम्बा’ अस्मिन् अर्थे प्रयुज्यमानः ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति । संस्कृते अन्यः अपि एकः मातृ-शब्दः उपयुज्यते - जुहोत्यादिगणस्य ‘मा’ धातोः तृच्-प्रत्यये कृते अपि ‘मातृ’ इति प्रातिपदिकं सिद्ध्यति - ‘यः मिमेति सः माता’ । अस्य शब्दस्य रूपाणि तु कर्तृ-शब्दवत् भवन्ति । तस्य अत्र ग्रहणं न करणीयम् । अतः ‘मिमेति सः माता, तस्य अपत्यम्’ इत्यस्मिन् अर्थे मातृ-शब्दात् औत्सर्गिकरूपेण अण्-प्रत्यये कृते ‘मात्र’ इत्येव प्रातिपदिकं सिद्ध्यति । तत्र ऋकारस्य उकारादेशः न विधीयते ।

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the words that contain either a संख्या , or ‘सम्’ or ‘भद्र’ as a पूर्वपद and ‘मातृ’ as the उत्तरपद get the अण् प्रत्यय. Also, for such words, the उत्तरपद मातृ gets उकारादेश.

Vasu English Summary

The affix अण् comes in the sense of descendant after the word मातृ when it is preceded by a Numeral or by the words सम् or भद्र and the letter उ is substituted for the final ऋ of मातृ।

Vasu English Translation

The affix अण् comes in the sense of descendant after the word मातृ when it is preceded by a Numeral or by the words सम् or भद्र and the letter उ is substituted for the final ऋ of मातृ। Thus from द्विमातृ we have द्वैमातुरः “son of two mothers i.e. son of one and adopted by another.” द्विमातृ + अण् = द्वैमात् + उ + अ = द्वैमात् + उ + र् + अ (I.I.51.) Similarly षाण्मातुरः, सांमातुरः, and भाद्रमातुरः ॥

This sutra is made in order to teach the substitution of short उ for ऋ of मातृ; for the word मातृ would have taken the affix अण् by the general rule (4.1.83). The sutra contains the word पूर्वायाः in the feminine gender, showing by implication that the rule applies where the word मातृ denotes female. Thus संमिमीते = संमातृ ‘he who measures together’. Its patronymic will be सांमात्रः ‘son of a fellow-measurer’; because here the word मातृ does not mean ‘mother’, but a ‘measure’. Nor the word धान्यमातृ ‘barley measurer’ will be affected by this rule. Why do we say “when preceded by a Numeral &c.” Observe सौमात्रः ‘son of Sumatri’. The word वैमात्रेयः is formed by (4.1.123) as belonging to Subhradi class.

Bhashya

मातुरुत्संख्यासम्भद्रपूर्वायाः (1361) (स्त्रीलिंगनिर्देशसमर्थकभाष्यम्) किमर्थं स्त्रीलिङ्गेन निर्देशः क्रियते, न संख्यासंभद्रपूर्वस्येत्येवमुच्यते? स्त्रीलिङ्गो यो मातृशब्दस्तस्माद्यथा स्यात्। इह मा भूत् -संमिमीते संमाता -संमातुरपत्यं सांमात्र इति॥

Kashika

मातृशब्दात् संख्यापूर्वात् संपूर्वाद् भद्रपूर्वात् चापत्येऽण् प्रत्ययो भवति, उकारश्चान्तादेशः। द्वयोर्मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनम्, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति। संख्यासंभद्रपूर्वाया इति किम्? सौमात्रः॥

Siddhanta Kaumudi

संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥

Laghu Siddhanta Kaumudi

संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥

Balamanorama

मातुरुत् संख्यासम्भद्रपूर्वायाः - मातुरुत् । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । ‘तद्धितार्थ’ इति समासः । अण् । ऋकारस्योकारः । रपरत्वम् । एवं षाण्मातुरः सांमातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण् उत् । रपरत्वं । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननुतस्यापत्य॑मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह — आदेशार्थं वचनमिति । उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह — स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्यसङ्ख्यासम्भद्रपूर्वाया॑ इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः ।सौमात्र इति । सुमातुरपत्यमित्यर्थेतस्यापत्य॑मित्यण् । सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह — शुभ्रादित्वादिति ।शुब्राआदिभ्यश्चे॑ति ढकि रूपमित्यर्थः ।

Tattvabodhini

मातुरुत् संख्यासम्भद्रपूर्वायाः - द्रैमातुर इति ।तद्धितार्थ॑इत्यादिना समासः । अत्रद्वयोर्मात्रोरपत्य॑मिति विग्रहो, न तुद्विमात्रोरपत्य॑मिति ।दिक्संख्ये संज्ञाया॑मिति नियमेनाऽसंज्ञायां समासाऽसंभवात् । धान्यमातुर्नेति ।अभिव्यक्तपदार्थाः॑इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः ।अभिव्यक्ते॑त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये ।

Padamanjari

द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः - शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः -‘स्त्रीभ्यो ढक्’ इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (4.1.120 सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥

Nyaas

द्वैमातुरः`इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। `साम्मातुरः इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।भाद्रमातुरः इति। पूर्वं विशेषणसमासः; ततस्तद्धितः।अथ प्रत्ययार्थ वचनं कस्मान्न भवति? इत्याह - प्रत्ययः पुनः इत्यादि। उत्सर्गलक्षणेनैव तस्यापत्यम् (4.1.92) इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं संख्यासम्भद्रपूर्वायाः इति स्त्रीलिङ्गेन निर्देशः? इत्यत आह - स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। तेन इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुग्र्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते।सौमात्रः इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्॥

Prakriyasarvasvam

सङ्ख्यादिपूर्वाया मातुरपत्येऽण् अन्त्यस्य रपर उकारश्च । गङ्गागौरीभ्यां पुत्रीकृतत्वाद् द्वयोर्मात्रोरपत्यं द्वैमातुरः । सामातुरः । भाद्रमातुरः ॥

Sutra Prayogas

  • द्वैमातुरे (शिशुपालवधम्): मातुरुत्संख्यासंभद्रपूर्वायाः इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः।

  • त्रै-मातुरः (भट्टिकाव्यम्): मातुरुत्सङ्ख्या इत्यादिना अण् उत्वं च ।