41116: कन्यायाः कनीन च

Padacheda: कन्यायाः | S | 6 | 1 |

कनीन | S | | | 1

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्’ अस्मिन् अर्थे ‘कन्या’शब्दात् अण्-प्रत्ययः भवति, तथा कन्या-शब्दस्य ‘कनीन’ आदेशः भवति ।

‘कन्यायाः अपत्यम्’ इत्यस्मिन् अर्थे ‘कन्या’ शब्दात् अण्-प्रत्ययः भवति, तथा ‘कन्या’ शब्दस्य ‘कनीन’ आदेशः अपि भवति । यथा - कन्यायाः अण् → कन्या + ङस् + अण् [अलौकिकविग्रहः] → कन्या + अण् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लोपः] → कनीन + अण् [कन्यायाः कनीन च (4.1.116) इति कन्या-शब्दस्य कनीन-आदेशः] → कानीन + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कानीन् + अ [यस्येति च (6.4.148) इति अकारलोपः] → कानीन ज्ञातव्यम् - ‘कन्या’ इत्युक्ते अविवाहिता स्त्री । अतः स्त्रियाः विवाहात् पूर्वम् यत् अपत्यम्, तस्य निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः क्रियते । यथा - व्यास, कर्ण - एतयोः उल्लेखः ‘कानीन’ शब्देन क्रियते । साहित्ये दृष्टानि उदाहरणानि एतानि - 1. ‘कानीनस्य प्रसादेन महाभारतमप्युत’ - नारदपुराणम्, उत्तरार्धः, द्वितीयाध्यायस्य पञ्चमः श्लोकः । अत्र ‘कानीन’ शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति । 2. ‘तदेतद्वचनं श्रुत्वा कानीनस्य महात्मनः’ - पद्मपुराणम्, 7.2.40 । अत्रापि ‘कानीन’ शब्देन व्यासमहर्षेः निर्देशः कृतः अस्ति । 3. श्रीवेदव्यासाष्टोत्तरशतनामावल्यामपि ‘कानीनाय नमः’ इति व्यासमहर्षेः एकं नाम उक्तमस्ति । 4. ‘योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः’ - महाभारतम् 5.142.25 । अत्र कुन्तीपुत्रकर्णस्य उल्लेखः ‘कानीन’ नाम्ना कृतः अस्ति ।

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the word कन्या gets the ‘अण्’ प्रत्यय and it also gets ‘कानीन’ as आदेश.

Vasu English Summary

The affix अण् comes in the sense of descendant after the word कन्या and when this affix is added, कनीन is the substitute of कन्या।

Vasu English Translation

The affix अण् comes in the sense of descendant after the word कन्या and when this affix is added, कनीन is the substitute of कन्या। Thus कन्याया अपत्यं = कानीनः ‘the son of a virgin’ viz ‘Karna’ or ‘Vyasa’. This debars the ढक् of (4.1.121). The word कन्या means a virgin, the son of a virgin is produced by immaculate conception. मुनिदेवतामाहात्म्याद् या पुंयोगेऽपि न कन्यात्वं जहाति, यथा कुन्ती, यथा सत्यवती ॥

Bhashya

कन्यायाः कनीन च (1362) (आक्षेपभाष्यम्) इदं विप्रतिषिद्धम्। को विप्रतिषेधः? अपत्यमिति वर्तते। यदि च कन्या, नापत्यम्। अथापत्यम्, न कन्या। कन्या चापत्यं चेति विप्रतिषिद्धम्॥ (समाधानभाष्यम्) नैतद्विप्रतिषिद्धम्। कथम्? कन्याशब्दोऽयं पुंसाऽभिसम्बन्धपूर्वके संप्रयोगे निवर्तते। या चेदानीं प्रागभिसम्बन्धात् पुंसा सह संप्रयोगं गच्छति तस्यां कन्याशब्दो वर्तत एव। कन्यायाः कन्योक्तायाः कन्याभिमतायाः सुदर्शनाया यदपत्यं स कानीन इति॥

Kashika

कन्याशब्दादपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। तत्सन्नियोगेन कनीनशब्द आदेशो भवति। कन्याया अपत्यं कानीनः कर्णः। कानीनो व्यासः॥

Siddhanta Kaumudi

ढकोऽपवादोऽण् तत्सन्नियोगेन कनीनादेशश्च । कानीनो व्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः ॥

Laghu Siddhanta Kaumudi

चादण्। कानीनो व्यासः कर्णश्च॥

Balamanorama

कन्यायाः कनीन च - कन्यायाः क ।कनीने॑ति लुप्तप्रथमाकम् । ढक इति ।स्त्रीभ्यो ढ॑हिति विहितस्येत्यर्थः । कनीनादेशश्चेति ।प्रकृते॑रिति शेषः । भारते व्यासः कर्णश्च कन्यायाः पुत्रौ इति प्रसिद्धम् । ननु कन्याया अप्रादुर्भूतयौवनत्वात्पुंसंयोगाऽभावात्कथमपत्यसम्बन्ध इत्यत आहानूढाया इति । अलब्धविवाहाया इत्यर्थः । एतच्च भाष्ये स्पष्टम् ।

Tattvabodhini

कन्यायाः कनीन च - कन्यायाः । ननु कन्या हृक्षतयोनिः, तस्याश्चाऽपत्यसंभव एव नास्तीत्याशङ्क्याह -अनूढाया इथि । अविवाहिताया इत्यर्थः ।

Padamanjari

ढकोऽपवाद इति ।’द्व्यचः’ इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमितं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम् - यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह - मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा - कुन्ती, यथा - सत्यवती, सात्रोदाहरणमिति, तदाह - कानीनः कर्णः, कानीनो व्यास इति ॥

Prakriyasarvasvam

अण् । कानीनः कर्णः ॥