41115: मातुरुत् संख्यासम्भद्रपूर्वायाः ====================================== **Padacheda:** मातुः | S | 6 | 1 | उत् | S | 1 | 1 | संख्या-सम्-भद्र-पूर्वायाः | S | 6 | 1 | Sutrartha --------- **यः मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् परः आगच्छति, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा 'मातृ' शब्दस्य उकारादेशः अपि भवति ।** यदि मातृ-शब्दः संख्यावाचीशब्दात् / 'सम्' शब्दात् / 'भद्र' शब्दात् अनन्तरम् ('उत्तरपद'रूपेण) आगच्छति, तर्हि तादृशात् मातृ-शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा मातृ-शब्दस्य उकारादेशः अपि भवति । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अयमादेशः ऋकारस्य स्थाने विधीयते, अतः **उरण् रपरः** (1.1.51) इत्यनेन अस्मात् उकारात् अनन्तरम् रेफः आगच्छति । उदाहरणानि एतानि - 1) षण्णाम् मातॄणामपत्यम् = षण्मातृ + अण् → षण्मातुर् + अण् [**मातुरुत् संख्यासम्भद्रपूर्वायाः** (4.1.115) इति ऋकारस्य उकारादेशः । **उरण् रपरः** (1.1.51) इति सः रपरः] → षाण्मातुर् + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → षाण्मातुर तथैव - द्वयोः मात्रोः अपत्यम् = द्विमातृ + अण् → द्वैमातुर । 2) सम्मातुः अपत्यम् = सम्मातृ + अण् = साम्मातुर । 3) भद्रमातुः अपत्यम् = भद्रमातृ + अण् = भाद्रमातुर । ज्ञातव्यम् - 1. वस्तुतः मातृ-शब्दात् अण्-प्रत्ययविधानम् तु **प्राग्दीव्यतोऽण्** (4.1.83) इत्यनेनैव भवितुमर्हति । वर्तमानसूत्रस्य प्रयोजनं तु 'मातृ-शब्दस्य अण्-प्रत्यये परे उकारादेशः' - इत्येव अस्ति । 2. यदि मातृ-शब्दः सङ्ख्या/सम्/भद्र - एतेभ्यः परः न आगच्छति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः ऋकारस्य उकारादेशः अपि न भवति । अण्-प्रत्ययविधानम् तु **प्राग्दीव्यतोऽण्** (4.1.83) इत्यनेनैव भवितुमर्हति - सुमातुः अपत्यम् पुमान् = सौमात्रः । 3. वर्तमानसूत्रेण निर्दिष्टः मातृ-शब्दः 'अम्बा' अस्मिन् अर्थे प्रयुज्यमानः ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति । संस्कृते अन्यः अपि एकः मातृ-शब्दः उपयुज्यते - जुहोत्यादिगणस्य 'मा' धातोः तृच्-प्रत्यये कृते अपि 'मातृ' इति प्रातिपदिकं सिद्ध्यति - 'यः मिमेति सः माता' । अस्य शब्दस्य रूपाणि तु कर्तृ-शब्दवत् भवन्ति । तस्य अत्र ग्रहणं न करणीयम् । अतः 'मिमेति सः माता, तस्य अपत्यम्' इत्यस्मिन् अर्थे मातृ-शब्दात् औत्सर्गिकरूपेण अण्-प्रत्यये कृते 'मात्र' इत्येव प्रातिपदिकं सिद्ध्यति । तत्र ऋकारस्य उकारादेशः न विधीयते । Sutrartha (English) ------------------- To indicate the meaning of 'his/her offspring', the words that contain either a संख्या , or 'सम्' or 'भद्र' as a पूर्वपद and 'मातृ' as the उत्तरपद get the अण् प्रत्यय. Also, for such words, the उत्तरपद मातृ gets उकारादेश. Vasu English Summary -------------------- The affix अण् comes in the sense of descendant after the word मातृ when it is preceded by a Numeral or by the words सम् or भद्र and the letter उ is substituted for the final ऋ of मातृ। Vasu English Translation ------------------------ The affix अण् comes in the sense of descendant after the word मातृ when it is preceded by a Numeral or by the words सम् or भद्र and the letter उ is substituted for the final ऋ of मातृ। Thus from द्विमातृ we have द्वैमातुरः "son of two mothers i.e. son of one and adopted by another." द्विमातृ + अण् = द्वैमात् + उ + अ = द्वैमात् + उ + र् + अ (I.I.51.) Similarly षाण्मातुरः, सांमातुरः, and भाद्रमातुरः ॥ This *sutra* is made in order to teach the substitution of short उ for ऋ of मातृ; for the word मातृ would have taken the affix अण् by the general rule (4.1.83). The *sutra* contains the word पूर्वायाः in the feminine gender, showing by implication that the rule applies where the word मातृ denotes female. Thus संमिमीते = संमातृ 'he who measures together'. Its patronymic will be सांमात्रः 'son of a fellow-measurer'; because here the word मातृ does not mean 'mother', but a 'measure'. Nor the word धान्यमातृ 'barley measurer' will be affected by this rule. Why do we say "when preceded by a Numeral &c." Observe सौमात्रः 'son of *Sumatri*'. The word वैमात्रेयः is formed by (4.1.123) as belonging to *Subhradi* class. Bhashya ------- मातुरुत्संख्यासम्भद्रपूर्वायाः (1361) (स्त्रीलिंगनिर्देशसमर्थकभाष्यम्) किमर्थं स्त्रीलिङ्गेन निर्देशः क्रियते, न संख्यासंभद्रपूर्वस्येत्येवमुच्यते? स्त्रीलिङ्गो यो मातृशब्दस्तस्माद्यथा स्यात्। इह मा भूत् -संमिमीते संमाता -संमातुरपत्यं सांमात्र इति॥ Kashika ------- मातृशब्दात् संख्यापूर्वात् संपूर्वाद् भद्रपूर्वात् चापत्येऽण् प्रत्ययो भवति, उकारश्चान्तादेशः। द्वयोर्मात्रोरपत्यं द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः। उकारादेशार्थं वचनम्, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः। स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति। संख्यासंभद्रपूर्वाया इति किम्? सौमात्रः॥ Siddhanta Kaumudi ----------------- संख्यादिपूर्वस्य मातशब्दस्योदादेशः स्यादणप्रत्ययश्च । द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । आदेशार्थं वचनम् । प्रत्ययस्तूत्सर्गेण सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थैपेक्षः । तेन धान्यमातुर्न । संख्येति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः ॥ Laghu Siddhanta Kaumudi ----------------------- संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण् प्रत्ययश्च। द्वैमातुरः। षाण्मातुरः। सांमातुरः। भाद्रमातुरः॥ Balamanorama ------------ **मातुरुत् संख्यासम्भद्रपूर्वायाः** - मातुरुत् । द्वैमातुर इति । द्वयोर्मात्रोरपत्यमिति विग्रहः । 'तद्धितार्थ' इति समासः । अण् । ऋकारस्योकारः । रपरत्वम् । एवं षाण्मातुरः सांमातुर इति । समीचीना माता संमाता, संमातुरपत्यं सांमातुरः । अण् उत् । रपरत्वं । भाद्रमातुर इति । भद्रा चासौ माता चेति विग्रहः । अणादि पूर्ववत् । ननुतस्यापत्य॑मित्येव सिद्धेऽण्विधिव्र्यर्थ एवेत्यताअह — आदेशार्थं वचनमिति । उदादेशस्य अण्सन्नियोगेन विध्यर्थमित्यर्थः । ननु धान्यं यो मिमीते तस्यापि मातुग्र्रहणं कुतो न स्यात् । तथा च तत्रापि द्वैमातुरादिकं प्राप्नोतीत्यत आह — स्त्रीलिङिगनिर्देशीऽर्थापेक्ष इति । मातृगतं स्त्रीत्वं शब्दे आरोप्यसङ्ख्यासम्भद्रपूर्वाया॑ इति निर्दिश्यते । अतः स्त्रीलिङ्गस्य मातृशब्दस्य जननीवाचकस्य ग्रहणमित्यर्थः । तेन धान्यमातुर्नेति । अत्र मातृशब्दस्य परिच्छेत्तृवाचिनः पुंलिङ्गत्वादिति भावः ।सौमात्र इति । सुमातुरपत्यमित्यर्थेतस्यापत्य॑मित्यण् । सङ्ख्यासम्भद्रपूर्वत्वाऽभात्वात् नायमण्, उत्त्मपि तत्सन्नियोगशिष्टत्वान्नेति भावः । ननु द्वैमात्रेय इति कथम्, सङ्ख्यापूर्वकतया अण उत्त्वस्य च दुर्वारत्वादित्यत आह — शुभ्रादित्वादिति ।शुब्राआदिभ्यश्चे॑ति ढकि रूपमित्यर्थः । Tattvabodhini ------------- **मातुरुत् संख्यासम्भद्रपूर्वायाः** - द्रैमातुर इति ।तद्धितार्थ॑इत्यादिना समासः । अत्रद्वयोर्मात्रोरपत्य॑मिति विग्रहो, न तुद्विमात्रोरपत्य॑मिति ।दिक्संख्ये संज्ञाया॑मिति नियमेनाऽसंज्ञायां समासाऽसंभवात् । धान्यमातुर्नेति ।अभिव्यक्तपदार्थाः॑इत्यनेन जननीवाचिना एव ग्रहणे सिद्धेऽपि तस्य स्पष्टप्रतिपत्त्यर्थः स्त्रीलिङ्गनिर्देश इति भावः ।अभिव्यक्ते॑त्यस्याऽनित्यताया ज्ञापनार्थ इति त्वन्ये । Padamanjari ----------- द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः - शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः -'स्त्रीभ्यो ढक्' इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (4.1.120 सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥ Nyaas ----- `द्वैमातुरः`इति। प्राक् तद्धितार्थे विषये द्विकुः, पश्चात् तद्धितः। `साम्मातुरः` इति। पूर्वं प्रादिसमासः, पश्चात् तद्धितः।`भाद्रमातुरः` इति। पूर्वं विशेषणसमासः; ततस्तद्धितः।अथ प्रत्ययार्थ वचनं कस्मान्न भवति? इत्याह - `प्रत्ययः पुनः` इत्यादि। उत्सर्गलक्षणेनैव **तस्यापत्यम्** (4.1.92) इत्यनेन। ननु च संख्यादिपूर्वत्वं मातृशब्दस्य विशेषणम्, तत्र मातृशब्दापेक्षया निर्देशः क्रियमाणः पुंल्लिङ्ग एव दृश्यते, तत्कथं `संख्यासम्भद्रपूर्वायाः` इति स्त्रीलिङ्गेन निर्देशः? इत्यत आह - `स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः` इति। मातुः शब्दस्य योऽर्थस्तदपेक्षोऽयं निर्देशः, स चार्थः स्त्रीलिङ्गः। तेन स्त्रीलिङ्गेन निर्देशः कृतः। `तेन` इत्यादिनार्थापेक्षस्य फलं दर्शयति। अर्थापेक्षे हि स्त्रीलिङ्गनिर्देशे स्त्रीलिङ्गो यस्यार्थो मातृशब्दस्य , तस्यैव ग्रहणेन भवितव्यम्, तेन धानयमातुग्र्रहणं न भवति। न हि तस्य स्त्रीलिङ्गोऽर्थः, किं तर्हि? पुंल्लिङ्गः। धान्यं मिमीते यो भृतकः स धान्यमातेत्युच्यते।`सौमात्रः` इति। प्राक् प्रादिसमासः। तत औत्सर्गिकोऽण्॥ Prakriyasarvasvam ----------------- सङ्ख्यादिपूर्वाया मातुरपत्येऽण् अन्त्यस्य रपर उकारश्च । गङ्गागौरीभ्यां पुत्रीकृतत्वाद् द्वयोर्मात्रोरपत्यं द्वैमातुरः । सामातुरः । भाद्रमातुरः ॥ Sutra Prayogas -------------- * **द्वैमातुरे** (शिशुपालवधम्): `मातुरुत्संख्यासंभद्रपूर्वायाः` इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः। * **त्रै-मातुरः** (भट्टिकाव्यम्): `मातुरुत्सङ्ख्या` इत्यादिना अण् उत्वं च ।