41114: ऋष्यन्धकवृष्णिकुरुभ्यश्च¶
Padacheda: ऋषि-अन्धक-वृष्णि-कुरुभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
ऋषिवाचिशब्देभ्यः, अन्धककुलवाचिशब्देभ्यः वृष्णिकुलवाचिशब्देभ्यः तथा कुरुकुलवाचिशब्देभ्यः ‘तस्य अपत्यम्’ अस्मिन् अर्थे अण्-प्रत्ययः भवति ।
यः शब्दः - ऋषिवाचकः अस्ति / अन्धककुलोत्पन्नस्य अभिधानम् अस्ति / वृष्णिकुलोत्पन्नस्य अभिधानम् अस्ति / कुरुकुलोत्पन्नस्य अभिधानमस्ति, तस्मात् शब्दात् अपत्यार्थे अण् प्रत्ययः विधीयते । उदाहरणानि अधः दत्तानि सन्ति । एतेषां सर्वेषां विषये अत इञ् (4.1.95) इत्यनेन इञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । 1) ऋषिवाचकाः शब्दाः - अ) वसिष्ठस्य अपत्यम् पुमान् = वसिष्ठ + अण् → वासिष्ठ । आ) विश्वामित्रस्य अपत्यम् पुमान् = विश्वामित्र + अण् → वैश्वामित्र । 2) अन्धककुलवाचकाः शब्दाः - अ) श्वफल्कस्य अपत्यम् पुमान् = श्वफल्क + अण् → श्वाफल्क । आ) रन्धसः अपत्यम् पुमान् = रन्धस् + अण् → रान्धस । 3) वृष्णिकुलवाचकाः शब्दाः - अ) वसुदेवस्य अपत्यम् पुमान् = वसुदेव + अण् → वासुदेव । आ) अनिरूद्धस्य अपत्यम् पुमान् = अनिरुद्ध + अण् = आनिरुद्ध । 4) कुरुकुलवाचकाः शब्दाः - अ) नकुलस्य अपत्यम् पुमान् = नकुल + अण् → नाकुल । आ) सहदेवस्य अपत्यम् पुमान् = सहदेव + अण् → साहदेव । ज्ञातव्यम् - 1. कृष्ण, युधिष्ठिर, अर्जुन, साम्ब, प्रद्युम्न - एते सर्वे शब्दाः यद्यप्यत्र निर्दिष्टकुलोत्पन्नानां अभिधानानि सन्ति, तथापि तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्यये प्राप्ते तं बाधित्वा बाह्वादिभ्यश्च (4.1.96) इत्यनेन इञ्-प्रत्ययः भवति । 2. ‘अत्रि’ अयम् ऋषिवाचकः शब्दः अस्ति, अतः वस्तुतः तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः अस्ति, परन्तु तं परत्वात् बाधित्वा इतश्चानिञः (4.1.122) इत्यनेन ढक्-प्रत्ययविधानम् कृत्वा ‘आत्रेय’ इति रूपं सिद्ध्यति । 3. यदि नकुल, सहदेव एतादृशानि नामानि अन्यकुलोत्पन्नस्य विषये प्रयुज्यन्ते, तर्हि तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, नकुल-नाम्नः युवकस्य अपत्यनिर्देशार्थं तु अत इञ् (4.1.95) इत्यनेन इञ्-प्रत्ययः एव भवेत् । 4. अस्मिन् सूत्रे ‘ऋषि’ इति निर्देशः कृतः अस्ति । किम् नाम ऋषिः ? स्वस्य तपोबलेन प्रलीनान् वेदान् ये पुनः प्राप्नुवन्, ते ‘ऋषयः’ नाम्ना ज्ञायन्ते । तैत्तिरीयारण्यके द्वितीय प्रपाठके नवमे अनुवाके (2.9) उच्यते - ‘अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्वम्’ । इत्युक्ते, ‘तपोबलवशात् प्रलीनान् वेदान् ये अर्षन्ति (=प्राप्नुवन्ति) ते ऋषयः’ ।
Sutrartha (English)¶
To indicate the meaning of ‘his/her offspring’, the words that are names of a ऋषि, or which belong to the अन्धक / वृष्णि / कुरु family get the ‘अण्’ प्रत्यय.
Vasu English Summary¶
The affix अण् comes in the sense of descendant after प्रातिपदिक (Nominal Stem) denoting the name of a ऋषि or the name of a person of the family of 1. अन्धक 2. वृष्णि 3. कुरु।
Vasu English Translation¶
The affix अण् comes in the sense of descendant after प्रातिपदिक (Nominal Stem) denoting the name of a ऋषि or the name of a person of the family of 1. अन्धक 2. वृष्णि 3. कुरु। This debars the affix इञ् ॥ The Rishis are like Vasishtha, Visvamitra &c. Thus वासिष्ठः, वैश्वामित्रः ॥ So also श्वाफल्कः, रान्धसः being persons belonging to the family of Andhaka; and वासुदेवः, आनुरुद्धः being persons belonging to the family of Vrishni, and नकुलः, साहदेवः being persons belonging to the family of Kuru.
The word अत्रि is the name of a Rishi, in forming its Patronymic, the present sutra enjoins अण्; but (4.1.122) enjoins ढक्; thus there being a conflict, we apply the maxim of interpretation contained in (1.4. 2). So that the Patronymic or अत्रि will be formed not by अण् but by ढक् ॥ Thus आत्रेयः ॥ Similarly उग्रसेन a person of Andhaka family, forms its patronymic औग्रसेन्यः (4.1.152) by ण्य; and not by अण्, so also वैष्वकसेन्य ‘son of Vaishvaksena’ a person of Vrishni, family; so also भैमसेन्यः ‘son of Bhimasena’ a person of Kuru family.
Note.- The words or sabdas are eternal; how is it that rules applying to them should be made dependant upon their occurring in particular families or not, when families themselves are non-eternal? In other word, how a rule affecting a permanent object is conditioned by an impermanent adjunct? To this, some reply that Panini has by mere coincidence (and not as cause and effect) classified certain definite number of words as belonging to certain families, and then the rule made applicable to them. Moreover a permanent object is sometimes designated by an impermanent object : as the permanent time is designated by the name of Saka. Others say that the families of Andhaka &c., are also permanent, and the words ‘Nakula’ ‘Sahadeva’ &c., found therein are, of course, permanent.
Bhashya¶
ऋष्यन्धकवृष्णिकुरुभ्यश्च (1360) (अणोऽधिकरणम्) (5283 पूर्वपक्षवार्तिकम्॥ 1 ॥) - ऋषिस्त्र्यणो ढग्ढ्रकौ विप्रतिषेधेन - (भाष्यम्) ऋष्यणस्त्र्यणश्च ढग्ढ्रकौ भवतो विप्रतिषेधेन। ऋष्यणोऽवकाशः -वासिष्ठः, वैश्वामित्रः। ढकोऽवकाशः -दुलि -दौलेयः बलि -बालेयः। इहोभयं प्राप्नोति -अत्रि -आत्रेयः। स्त्र्यणोऽवकाशः -मकन्दिका -माकन्दिकः। ढ्रकोऽवकाशः -काणिकेरः। इहोभयं प्राप्नोति -पौणिकेरः, मौद्गलिकेरः। ढग्ढ्रकौ भवतो विप्रतिषेधेन॥ (5284 पूर्वपक्षवार्तिकम्॥ 2 ॥) - द्वयचो ढको ढ्रग्ढञ्ञौ - (भाष्यम्) द्व्यचो ढग्भवतीत्येतस्माड्ढग्ढञ्ञौ भवतो विप्रतिषेधेन। द्व्यचो ढग्भवतीत्यस्यावकाशः -दात्तेयः, गौप्तेयः। ढ्रकः स एव। इहोभयं प्राप्नोति -नटी -नाटेरः, दासी -दासेरः। ढञ्ञोऽवकाशः -कामण्डलेयः, हैरण्यबाहेयः । माद्रवाहेययः । ढकः स एव। इहोभयं प्राप्नोति -जम्बू -जाम्बेयः। ढ्रग्ढञ्ञौ भवतो विप्रतिषेधेन॥ (5285 पूर्वपक्षाक्षेपवार्तिकम्॥ 3 ॥) - न र्वष्यणः पुनर्वचनमन्यनिवृत्त्यर्थम् - (भाष्यम्) न वा एष युक्तो विप्रतिषेधः, योऽयमृष्यणो ढकश्च। किं कारणम्? ऋष्यणः पुनर्वचनमन्यनिवृत्त्यर्थम्। सिद्धोऽत्राणुत्सर्गेणैव, तस्य पुनर्वचने एतत्प्रयोजनं येऽन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम्। स यथैव तदपवादमिञ्ञं बाधते, एवं ढकमपि बाधेत॥ (5286 एकदेशिसमाधानवार्तिकम्॥ 4 ॥) - तस्मादृषिभ्योऽण्विधानेऽत्र्यादिप्रतिषेधः - (भाष्यम्) तस्मादृषिभ्योऽण्विधानेऽत्र्यादिभ्यः प्रतिषेधो वक्तव्यः॥ (समाधानान्यथासिद्धिभाष्यम्) न वक्तव्यः। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमृष्यण् -ःइञ्ञं तदपवादं बाधिष्यते, ढकं न बाधिष्यते॥ (पूर्वपक्षाक्षेपभाष्यम्) अयं चाप्ययुक्तो विप्रतिषेधो योऽयं ढकः -ढ्रग्ढञ्ञोश्च। किं कारणम्?॥ (5287 आक्षेपवार्तिकम्॥ 5 ॥) - ढकः पुनर्वचनमन्यनिवृत्त्यर्थम् - (भाष्यम्) सिद्धोऽत्र ढक् स्त्रीभ्यो ढक् (4.1.120) इत्येव। तस्य पुनर्वचन एतत्प्रयोजनं येऽन्ये तदपवादाः प्राप्नुवन्ति तद्वाधनार्थम्। स यथैव तदवादन्तन्नामिकाणं बाधते, एवं ढ्रग्ढञ्ञावपि बाधेत॥ (5288 एकदेशिसमाधानवार्तिकम्॥ 6 ॥) - तस्मात्तन्नामिकाण्यद्व्यचः - (भाष्यम्) तस्मात्तन्नामिकाणि -अद्व्यचेति वक्तव्यम्। (समाधानान्यथासिद्धिभाष्यम्) न वक्तव्यम्। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते इत्येवमयं ढक् तन्नामिकाणं तदपवादं बाधिष्यते, ढ्रग्ढञ्ञौ न बाधिष्यते॥ (5289 सिद्धान्तसामान्यवार्तिकम् ॥ 8 ॥) - ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्यः - (भाष्यम्) ऋष्यन्धकवृष्णिकुर्वणः सेनान्ताण्ण्यो भवति विप्रतिषेधेन। ऋष्यणोऽवकाशः -वासिष्ठः, वैश्वामित्रः। ण्यस्यावकाशः -पारिषेण्यः, वारिषेण्यः। जातसेनो नाम ऋषिस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। जातसेन्यः॥ अन्धकाणोऽवकाशः -श्वाफल्कः, चैत्रकः, रान्धसः। ण्यस्य स एव। उग्रसेनो नामान्धकस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। औग्रसेन्यः॥ वृष्ण्यणोऽवकाशः -वासुदेवः, बालदेवः। ण्यस्य स एव। विश्वक्सेनो नाम वृष्णिस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। वैष्वक्सेन्यः॥ कुर्वणोऽवकाशः -नाकुलः, साहदेवः। ण्यस्य स एव। भीमसेनो नाम कुरुस्तस्मादुभयं प्राप्नोति, ण्यो भवति विप्रतिषेधेन। भैमसेन्यः॥ (सामान्यवार्तिकस्य विशेषे संकोचकभाष्यम्) सेनान्ताण्ण्यो भवति विप्रतिषेधेन जातोग्रविष्वग्भीमेभ्य इति वक्तव्यम्॥
Kashika¶
ऋषयः प्रसिद्धा वसिष्ठादयः। अन्धका वृष्णयः कुरव इति वंशाख्याः। ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्येऽण् प्रत्ययो भवति। इञोऽपवादः। अत्र्यादिभ्यस्तु परत्वाड् ढगादिभिरेव भवितव्यम्। ऋषिभ्यस्तावत् — वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः — श्वाफल्कः। रान्धसः। वृष्णिभ्यः — वासुदेवः। आनिरुद्धः। कुरुभ्यः — नाकुलः। साहदेवः। कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयणेनान्वाख्यानं युज्यते? केचिदाहुः — कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेणैव नकुलसहदेवादयः शब्दास्सुबहवः संकलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धेति। अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्रेदं प्रत्ययविधानमित्यदोषः॥
Siddhanta Kaumudi¶
ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः, श्वाफल्कः । वृष्णिभ्यः, वासुदेवः । अनिरुद्धः । शौरि इति तु बाह्वादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । इञ एवायमपवादः, मध्येऽपवादन्यायात् । अत्रिशब्दात्तु परत्वाड्ढक् । आत्रेयः ॥
Laghu Siddhanta Kaumudi¶
ऋषिभ्यः - वासिष्ठः। वैश्वामित्रः। अन्धकेभ्यः - श्वाफल्कः। वृष्णिभ्यः - वासुदेवः। कुरुभ्यः - नाकुलः। साहदेवः॥
Balamanorama¶
ऋष्यन्धकवृष्णिकुरुभ्यश्च - ऋष्यन्धक । प्रलीना वेदास्तपोबलवशाद्यान् अर्षन्ति=प्राप्तनुवन्ति ते ऋषयः । तथा च तैत्तिरीये श्रुतम् — ॒अजान्ह वै पृश्नींस्तपस्यमानान्ब्राहृ स्वयम्भ्वभ्यानर्षत्, त ऋषयोऽभवन्, तदृषीणामृषित्व॑मिति । अजाः=नित्याः, पृस्नयः=शुक्लाः । शुद्धा इति यावत् । तान्तपस्यमानांस्तपश्चरतः स्वयम्भु=अनादि ब्राहृ वेदः अभ्यानर्षत् ।ऋष गतौ॑ । आभिमुख्येन प्राप्नोत् । ते वेदस्य अर्षणादृषिशब्दवाच्या अभव॑न्निति वेदभाष्यम् ।सर्बादिसमये वेदान्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा । ॑ इति पुराणेषु प्रसिद्धं कात्यायनप्रणीतसर्वानुक्रमणिकाख्यग्रन्थेस्पष्टमेतत् । तदाह — ऋषयो मन्त्रद्रष्टार इति । अन्धकशब्देन वृष्णिशब्देन कुरुशब्देन च अन्धकादिवंश्या विवक्षिताः । ऋषिविशेषवाचिभ्योऽन्धकादिवंश्यवाचिभ्यश्चापत्ये अण् स्यादित्यर्थः । इञोऽपवादः । ऋषिभ्य उदाहरति — बासिष्ठः वैआआमित्र इति ।अन्धकेभ्य इति । अन्धकवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । वासुदेव इति । वसुदेवस्यापत्यमिति विग्रहः । आनिरुद्ध इति । अनिरुद्धस्यापत्यमिति विग्रहः । ननु शूरो नाम कश्चिद्वृष्णिवंश्यः, तस्यापत्यं शौरिः कथम्स अण्प्रसङ्गादित्यत आह — शौरिरिति त्विति ।बाह्वादित्वा॑दित्यनन्तरमिञा समाधेय॑मिति शेषः । कुरुभ्य इति । कुरुवंश्यवाचिभ्य उदाह्यियते इत्यर्थः । नकुलसहदेवौ प्रसिद्धौ । नन्वत्रेरपत्यमित्यर्थे ‘#इतश्चानिञ’ इति ढकि आत्रेय इति कथम्, ऋष्यणा इञ इव ढकोपि बाधौचित्यादित्यत आह — इञ एवेति । न तु ढक इत्यर्थः ।
Nyaas¶
इञोऽपवादः इति। ननु चानकारान्तेभ्योऽत्स्त्र्यादिभ्यो ये ढगादयः प्राप्नुवन्ति तदपवाद एव युक्त इत्यत आह - अत्त्र्यादिभ्यस्तु इत्यादि। एकेनादिशब्देन ऋषयो जातसेनादयोऽन्धकादिषु च वर्तमाना उग्रसेनादयः, परिगृह्यन्ते, द्वितीयेन ण्यादयः प्रत्ययाः। तत्र ऋष्यणोऽवकाशः - वासिष्ठः, इतश्चानिञः (4.1.122) इति ढकोऽवकाशः -दौलेयः;अत्त्रिशब्दादुभयप्राप्तौ परत्वाद् ढग्भवति - आत्त्रेयः। ऋष्यणोऽवकाशः स एव, सेनान्तलक्षमस्य ण्यस्यावकाशः - कारिषेण्यः, हारिषेण्यः;जातसेनो नाम ऋषिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - जातसेन्यः। अन्धकाणोऽवकाशः -वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभ्यप्राप्तौ परत्वाण्ण्यो भवति - शौरसेन्यः , वैष्वक्सेन्यः। कुर्वणोऽवकाशः -नाकुलः,ण्यस्य स एव; उग्रसेनो नामान्धकः,तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - औग्रसेन्यः। वृष्ण्यणोऽवकाशः - वासुदेवः, ण्यस्य स एव; शूरसेनो विष्वक्सेनो नाम वृष्णिः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - शौरसेन्यः, वैष्वक्सेन्यः। कुर्वणोऽवकाशः -नाकुलः, ण्यस्य स एव; भीमसेनो नाम कुरुः, तस्मादुभयप्राप्तौ परत्वाण्ण्यो भवति - भैमसेन्यः।कथं पुनः इत्यादि चोद्यम्। केचिदाहुः इत्यादि चोद्यपरिहारः। काकतालीयम् इति। अबुद्धिपूर्वकमित्यर्थः। सङ्कलिताः इति। समुच्चिताः। नित्या एव इति। अन्धकादीनां वंशानामनादित्वात्॥
Prakriyasarvasvam¶
ऋष्यादिभ्योऽतइञि प्राप्तेऽण् स्यात् । ऋषिभ्यः—वासिष्ठः । वैश्वामित्रः । स्फ्यकृतपुत्रः स्फायकृतः । द्वारादित्वादैच् । ऋषिसमुदायस्यानृषित्वादण् न, मैत्रावरुणिः । अन्धकेभ्यः—श्वाफल्कः । वृष्णिभ्यः—वासुदेवः । आनिरुद्धः । कुरुभ्यः —नाकुलः । साहदेवः । गर्गविद्युधिष्ठिरार्जुनरामसङ्कर्षणकृष्णगदप्रद्युम्नसाम्बसत्य- कशूरेभ्यस्तु बाह्वादित्वादिञेव ॥
Sutra Prayogas¶
कौत्सः (रघुवंशम्): ऋष्यन्धकवृष्णिकुरुभ्यश्च इत्यण्। इञोऽपवादः।