41075: आवट्याच्च¶
Padacheda: आवट्यात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the feminine affix चाप् comes after the word आवट्य।
Vasu English Translation¶
And the feminine affix चाप् comes after the word आवट्य। The word अवट belongs to Gargadi class (4.1.105) which after taking यञ्, would have taken ङीप् (4.1.16). Thus आवट्या ‘a female descendant of Avata’. But आवट्यायनी will be the proper form according to the Eastern Grammarians. See aphorism (4.1.17).
Bhashya¶
आवट्याच्च (1325) (चापोऽधिकरणम्) (5213 पूर्वविप्रतिषेधवार्तिकम्॥ 1 ॥) - अन उपधालोपिनऊधसो ङीष् पूर्वविप्रतिषिद्धम् - (भाष्यम्) अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इत्येतस्मादूधसो ङीष्भवति पूर्वविप्रतिषेधेन। अन उपधालोपिनोऽन्यतरस्यामित्यस्यावकाशः -बहुराज्ञी, बहुतक्ष्णी।ऊधसो ङीष्भवतीत्यस्यावकाशः -विभाषा ङीप्, यदा न ङीप् सोऽवकाशः। ङीप्प्रसङ्गे उभयं प्राप्नोति,ऊधसो ङीष्भवति पूर्वविप्रतिषेधेन॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। न वक्तव्यः। अन उपधालोपिनोऽन्यतरस्यामित्यत्रऊधसो ङीष्भवति इत्येतदनुवर्तिष्यते॥ (5214 पूर्वविप्रतिषेधे द्वितीयं वार्तिकम्॥ 2 ॥) - आवट्याद्यञ्ञः ष्फश्चापः - (भाष्यम्) आवट्याद्यञ्ञः ष्फश्चापो भवति पूर्वविप्रतिषेधेन। आवट्याद्यञ्ञश्चापोऽवकाशः -उदीचाम् -आवट्या। ष्फस्यावकाशः -अन्यानि यञ्ञन्तानि -गार्ग्यायणी, वात्स्यायनी। आवट्यशब्दात्प्राचामुभयं प्राप्नोति -आवट्यायनी, ष्फो भवति पूर्वविप्रतिषेधेन॥ (सूत्रन्यासेन सिद्धान्तभाष्यम्) आवट्यग्रहणेन नार्थः। यञ्ञः ष्फश्चापः इत्येव। इदमपि सिद्धं भवति -शार्कराक्ष्यायणी, पौतिमाष्यायणी॥ यञ्ञ्ग्रहणेनापि नार्थः। ष्फश्चापः इत्येव। गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते, इदमपि सिद्धं भवति -गौकक्ष्यायणी। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। एवं वक्ष्यामि -प्राचां ष्फ तद्धितः सर्वत्र। क्व सर्वत्र? यत्र ष्फश्चान्यश्च प्राप्नोति, ष्फ एव तत्र भवतीति॥ ततो लोहितादिकतन्तेभ्यः सर्वत्र। क्व सर्वत्र? प्राचां चोदीचां च॥
Kashika¶
अवटशब्दो गर्गादिः। तस्माद् यञि कृते ङीपि प्राप्ते वचनमेतत्। आवट्यात् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या। प्राचां ष्फ एव, सर्वत्रग्रहणात्। आवट्यायनी॥
Siddhanta Kaumudi¶
अस्माच्चाप् स्यात् । यञश्च (SK471) इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥
Balamanorama¶
आवट्याच्च - आवटआच्च । ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह — अवटशब्द इति । आवटएति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियञियस्येति चे॑त्यकार लोपे आदिवृद्धौ आवठशब्दाच्चाप् ।
Nyaas¶
ङीपि प्राप्ते इति। यञश्च (4.1.16) इत्यनेन॥
Prakriyasarvasvam¶
गर्गादियञन्तादस्माच्चाप् । आवट्या । षाच्चं यञश्चाप् वाच्यः । गर्गादियञ् । गौकक्ष्या । पौतिमाष्या । एष्वावट्यायनी गौकक्ष्यायणीत्यादि प्राचां ष्फोऽपीष्टः ॥