41074: यङश्चाप्

Padacheda: यङः | S | 5 | 1 |

चाप् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The feminine affix चाप् comes after a stem which is formed by the affix ञ्यङ् or ष्यङ्।

Vasu English Translation

The feminine affix चाप् comes after a stem which is formed by the affix ञ्यङ् or ष्यङ्। The affix यङ् here denotes and includes both the affixes ञ्यङ् (as taught in S. 171 of this chapter) and ष्यङ् (See 78) as it is the common element of both. Thus आम्बष्ठ्या ‘woman of the race of Ambashthya’, ससुवीर्या ‘a woman of the race of Sauvirya’, कौसल्या ‘a woman of the race of Kausalya’.

Similarly ष्यङ् formed words, as, कारीषगन्ध्या, वाराह्या; बालाक्या ॥

Vart:- The affix चाप् comes in the feminine after a word ending with the affix यञ् when the letter ष् immediately precedes such yan. As शार्कराक्ष्य ‘a female descendant of Sarkaraksha’, पौतिमाष्या ‘a female descendant of Putimashya’, गौकाक्ष्या ‘a female descendant of Gokasha’. These words belong to Gargadi class (4.1.105), and by sutra 16 would have taken ङीप् ॥

The प् of the affix चाप् is for the sake of forming a common term आप् with डाप् and टाप्; and the च regulates the accent making the final acute (6.1.163). The word गौकाक्ष्य is included in Kraudadi list (4.1.80) and takes the augment ष्यङ् in the feminine, and hence it would have taken चाप् by force of the present sutra and need not be included in the Vartika. There is no Samprasarana of the य when पुत्र or पति is added to this word (6.1.13), the form being गौकाक्ष्यापुत्रः and not गौकाक्षीपुत्रः ॥

Bhashya

यङश्चाप् (1324) (चापोऽधिकरणम्) (5212 विध्यंशपूरकवार्तिकम्॥ 1 ॥) - षाच्च यञ्ञश्चाप् - (भाष्यम्) षाच्च यञ्ञश्चाब्वक्तव्यः। शार्कराक्ष्या, पौतिमाष्या। तत्रायमप्यर्थः -गौकक्ष्यशब्दः क्रौडयादिषु पठ्यते, स न पठितव्यो भवति। यदि न पठ्यते, गौकक्षीपुत्रः इति संप्रसारणं न प्राप्नोति। इष्टमेवैतत्संगृहीतम् -गौकक्ष्यापुत्रः इत्येव भवितव्यम्। एवं हि सौनागाः पठन्ति - ष्यङः संप्रसारणे गौकक्ष्यायाः प्रतिषेधः। इति॥

Kashika

यङन्तात् प्रातिपदिकात् स्त्रियां चाप् प्रत्ययो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणमेतत्। आम्बष्ठ्या। सौवीर्या। कौसल्या। ष्यङ् — कारीषगन्ध्या। वाराह्या। बालाक्या॥ षाच्च यञः॥ षात् परो यो यञ् तदन्तात् चाप् वक्तव्यः। शार्कराक्ष्या। पौतिमाष्या। गौकक्ष्या। उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति॥

Siddhanta Kaumudi

यङन्तात् स्त्रियां चाप् स्यात् । यङ इति ञ्यङ्ष्यङोः सामान्यग्रहणम् । आम्बष्ठ्या । कारीषगन्ध्या ।<!षाद्यञश्चाप् वाच्यः !> (वार्तिकम्) ॥ पौतिमाष्या ॥

Balamanorama

यङश्चाप् - यङश्चाप् । पकारो ‘हल्ङ्याब्भ्यः’ इत्यत्र ग्रहणार्थः । चकारः ‘चितः’ इत्यन्तोदात्तार्थः । सामान्येति । यङ्रूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति — आम्बष्ठएति । आम्बषष्ठस्यापत्यं स्त्रीत्यर्थः ।वृद्धेत्कोसले॑ति ञ्यङ् । आम्बष्ठशब्दाच्चाप् । ष्यङमुदाहरति — कारीषगन्ध्येति । करीषं=गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः-करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेर्गोत्रापत्यं स्त्रीत्यर्थेऽण्प्रत्ययः । ‘अणिञोरनार्षयोः’ इति तस्य ष्यङादेशः । षाद्यञ इति । षकारात्परो यो यञतदन्तादपि चाबित्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाषस्यापत्यं स्त्रीत्यर्थः ।गर्गादिभ्यो य॑ञित्युभयत्र यञ् ।

Tattvabodhini

यङश्चाप् - यङ्श्चाप् । पकारोऽत्रहल्ङ्याबि॑ति सामान्ग्रहणार्थः । चकारस्य तदविघातेन चरितार्थत्वेऽपि परत्वाच्चित्स्वरः पित्स्वरं बाधते । आम्बष्ठएति । आम्बष्ठस्यापत्यं स्त्री ।वृद्धेत्कोशला — — ॑इति ञ्यङ् । कारीषगन्ध्येति । करीषस्येव गन्धोऽस्य करीषगन्धिः ।उपमानाच्चे॑ति गन्धस्येदन्तादेशः । तस्य गोत्रापत्यं स्त्री । अण् ।अणिञोरनार्षयोः — — ॑इति ष्यङादेशः । स च यद्यपि स्त्रियामेव विहितसतथापि ङित्करणसामर्थ्यात्तदन्तादप्ययं चाप् । षाद्यञ इति । एतच्चआवटआच्चे॑ति चकारस्यानुक्त समुच्चयार्थत्वाल्लभ्यत इत्यहुः । पौतिमष्येति । पूतिमाषशब्दो गर्गादिः ।षाद्यञश्चाववाच्यः । तद्धिताः । बहुवचनमनुक्तानामुपसङ्ग्येयानां सङ्ग्रहार्थम् । महासंज्ञाकरणं तु — तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थलाभाय । तेन यथाप्रयोगमेव स्युः । ननु टापः प्रागेवायमधिकारोऽस्तु, ष्फविधौ तद्धितग्रहणं यस्येतिलोपे, ईद्ग्रहणं च मास्त्विति चेन्मैवम्;पठ्वी॒॑मृद्वी॑त्यादावोर्गुणपर्सङ्गात् । यदि तुयस्येति चे॑त्यत्र ईद्ग्रहणमेव ङीषि तद्धितकार्याऽभावं ज्ञापयतीति स्वीक्रियेत, तर्हि टापः प्राक्तद्धिताधिकारेऽपि न कश्चिद्दोष इथि केचित् । तच्चिन्त्यम् ।कुरु॑रित्यादौ ओर्गुणादिप्रसङ्गादिति नव्याः ।

Padamanjari

पकारः ङ्याप्प्रातिपदिकात्ऽ इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङ्श्च सामान्यग्रहणमिति । यद्यपि ष्यङ्स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यातस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट।लेत्यादि । अम्बष्ठादिभ्योऽपत्ये’वृद्धेत्कोसलाजादाञ्ञ्यङ्’ । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात् ठत इञ्ऽ। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः । ननु च गौकाक्ष्यशब्दः क्रौड।लदिषु पठ।ल्ते, ततः ष्यङः’यिङ्’ इत्येव चाप् सिद्धः ? मा पाठि, तत्र’षाच्च यञः’ इत्यनेनैव शर्कराक्ष्यादिवद् गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः - ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति -‘ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधः’ ॥

Nyaas

पकारोऽत्र ङ्याप्प्रातिपदिकात् (4.1.1) इत्यत्र सामान्यग्रहणार्थः,चकारस्तदविघातार्थः, एवमुभयोरन्यत्र चरितार्थयोः अनुदात्तौ सुप्पितौ (3.1.4) इत्येतद्बाधित्वा परत्वात् चितः (6.1.157) इत्यन्तोदात्तत्वं चापो भवति। ञ्यङः ष्यङश्च सामान्यग्रहणमेतत् इति। विशेषकरानुबन्धानुत्सृज्य यत्सामान्यं यङमात्रं तस्येदं ग्रहणम्। कथं पुनः सामान्यग्रहणं युज्यते; यावता ञ्यङ एव तत्र ग्रहणं युक्तम्, तथा हि - सोऽपत्ये विधीयमानः स्त्रीत्वं वक्तुमसमर्थ इति स्त्रीप्रत्ययमपेक्षते, न तु ष्यङ, तस्य स्त्रियामेव विधानात्? नैतदस्ति; यदि हि सामान्यग्रहणं न स्यात् ष्यङो ङित्करणमनर्थकं स्यात्। तस्य ह्यत्र सूत्रे सामान्यग्रहणेव प्रयोजनम्, नान्यत किञ्चित्। तस्मात् ङित्करणसामर्थ्यात् ष्यङोऽपि ग्रहणं भवति। आम्बष्ठआ इत्यादि। आम्बष्ठसौवीरकोसलशब्देभ्योऽपत्येऽर्थे वृद्धेत्कोसलाजादाञ्ञ्यङ् (4.1.171) इति ञ्यङ्, तदन्ताच्चाप्। कारीषगन्ध्या इति। एतत् स्वादिसूत्रे (4.1.2) व्युत्पादितम्। वाराह्या इति। वराहशब्दात् अत इञ् (4.1.95) । बालाक्या इति। बलाकाशब्दाद्बाह्वादिलक्षम इञ्। उभयत्र अणिञोरनार्षयोः (4.1.78) इत्यादिना ष्यङादेशः, तदन्ताच्चाप्।शार्कराक्ष्या इत्यादि। शर्कराक्षपूतिमाषगोरक्षशब्देभ्यो गर्गादियञन्तेभ्यश्चाप्॥

Praudhamanorama

आम्बष्ठ्येति। ‘वृद्धेत्कोसलात्’ इति यङ्। कारीषगन्ध्येति। करीषस्येव गन्धोऽस्य करीषगन्धिः। ‘उपमानाच्च’ इति गन्धस्येदन्तादेशः। तस्य गोत्रापत्यं स्त्री, अण्। ‘अणिञोः’ इति ष्यङादेशः। स च यद्यपि स्त्रियामेव विहितस्तथाऽपि ङित्करणसामर्थ्यात्तदन्तादप्ययं चाप्। पौतिमाष्येति। पूतिमाषशब्दो गर्गादिः।

Prakriyasarvasvam

यङन्तात् स्त्रियां चाप् स्यात् । चः स्वरार्थः । ‘अणिञोरनार्षयोः—’ (४-१-७८) इति ष्यङ् । कौमुदगन्ध्या । वाराह्या । ‘वृद्धेत्कोसल’ (४-१-१७१) इति ञ्यङ् । कौसल्या ॥

Vartika

षाद्यञश्चाप् वक्तव्यः ।

Sutra Prayogas

  • भोज्याम् (रघुवंशम्): यङश्चाप् इति चाप्।

  • कौसल्या (रघुवंशम्): यङश्चाप् इति चाप्।

  • कौसल्ययाऽसावि (भट्टिकाव्यम्): यङश्चाप् इति।