41076: तद्धिताः

Padacheda: तद्धिताः | S | 1 | 3 |

Sutrartha

इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये प्रत्ययाः वक्ष्यन्ते ते तद्धितसंज्ञकाः भवन्ति ।

अयम् तद्धिताधिकारः । अस्मात् सूत्रात् तद्धितप्रत्ययाः आरभन्ते । एतेषां व्याप्तिः पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तमस्ति । एतेषु सर्वेषु सूत्रेषु ये ये प्रत्ययाः प्रोक्ताः सन्ति, ते सर्वे तद्धितसंज्ञकाः भवन्ति । अत्र केचन बिन्दवः ज्ञातव्याः - 1) पाणिनिना ‘तद्धित’ शब्दस्य व्याख्या न दीयते । परन्तु शास्त्रे अस्य शब्दस्य अर्थः ‘तेभ्यः हिताः तद्धिताः’ एतादृशम् क्रियते । ‘तेभ्यः’ इत्युक्ते ‘प्रयोगेभ्यः’ । ‘हिताः’ इत्युक्ते ‘उपकारिणः’ । इत्युक्ते, ते प्रत्ययाः, ते प्रयोगार्थमुपयुक्ताः सन्ति, तथा च येषाम् योजनेन प्रयोगे माधुर्यम् लाघवम् च आगच्छति, ते प्रत्ययाः ‘तद्धितप्रत्ययाः’ नाम्ना ज्ञायन्ते । यथा, ‘गुरो भावः’ इत्यस्य स्थाने ‘अण्’ इति तद्धितप्रत्ययस्य प्रयोगं कुर्मश्चेत् ‘गौरव’ इति शब्दः सिद्ध्यति । अयं शब्दः प्रयोगे ‘गुरोः भावः’ एतमेव अर्थम् निर्देशयति, तथा च, ‘गुरोः भावः’ इत्यस्य अपेक्षया प्रयोगे सुश्राव्यः अपि भासते । अनेन प्रकारेण तद्धितप्रत्ययाः प्रयोगस्य हितार्थम् प्रयुज्यन्ते । 2) अष्टाध्याय्यामस्मिन् अधिकारे आहत्य 281 प्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः भिन्नेषु अर्थेषु भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । सर्वे प्रत्ययाः सर्वेषु अर्थेषु उत सर्वेभ्यः प्रातिपदिकेभ्यः न भवन्ति एतत् स्मर्तव्यम् । 3) अस्मिन् अधिकारे उपस्थितानि सूत्राणि प्रायः द्वयोः प्रकारयोः सन्ति । प्रथमप्रकारस्य सूत्राणि ‘अर्थम्’ वदन्ति । यथा - तस्य अपत्यम् (4.1.92), तस्य निवासः (4.2.69) - आदयः । द्वितीयप्रकारस्य सूत्राणि ‘प्रत्ययम्’ वदन्ति । यथा - गर्गादिभ्यः यञ् (4.1.105), वृद्धात् छः (4.2.114) । कानिचन सूत्राणि अर्थमपि वदन्ति, प्रत्ययमपि वदन्ति । यथा - तदस्यां प्रहरणमिति क्रीडायां णः (4.2.57), धान्यानां भवने क्षेत्रे खञ् (5.2.1) आदयः । कस्यापि तद्धितान्तशब्दस्य सम्यक् निष्पत्त्यै ‘सः शब्दः कस्मिन् अर्थे कस्मात् प्रातिपदिकात् कस्मिन् प्रत्यये परे निर्मितः अस्ति’ अस्य ज्ञानं आवश्यकं वर्तते, तदर्थम् च द्वयोः प्रकारयोः सूत्रयोः साहाय्यम् स्वीक्रियते । 4) तद्धितप्रकरणे ये अर्थाः पाठिताः सन्ति, तेषाम् प्रामुख्येन पञ्च विभागाः क्रियन्ते, ये ‘महोत्सर्गाः’ नाम्ना ज्ञायन्ते । एते पञ्च महोत्सर्गाः एतादृशाः - क) प्राक्-दीव्यतीय-अर्थानाम् प्रथमः महोत्सर्गः । अस्मिन् महोत्सर्गे 44 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण ‘अण्’ प्रत्ययः विधीयते । ख) प्राक्-वहतीय-अर्थानाम् द्वितीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 36 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण ‘ठक्’ प्रत्ययः विधीयते । ग) प्राक्-हितीय-अर्थानाम् तृतीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 31 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण ‘यत्’ प्रत्ययः विधीयते । घ) प्राक्-क्रीतीय-अर्थानाम् चतुर्थः महोत्सर्गः । अस्मिन् महोत्सर्गे 3 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण ‘छ’ प्रत्ययः विधीयते । ङ) प्राक्-वतीय-अर्थानाम् पञ्चमः महोत्सर्गः । अस्मिन् महोत्सर्गे 27 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण ‘ठञ्’ प्रत्ययः विधीयते । अनेन प्रकारेण एतेषु पञ्च महोत्सर्गेषु आहत्य 141 अर्थाः उच्यन्ते । एतान् विहाय अपि अन्ये अनेके अर्थाः पञ्चमाध्यायस्य अन्तिम-त्रय-पादेषु उक्ताः सन्ति । 5) स्त्रियाम् (4.1.3) अस्मात् सूत्रात् आरब्धः स्त्र्यधिकारः इदानीमपि चलन् अस्ति । दैवयज्ञि.. (4.1.81) इति यावत् स्त्रियाम् (4.1.3) अधिकारस्य व्याप्तिः अस्ति । अतः वर्तमानसूत्रात् आरभ्य दैवयज्ञि.. (4.1.81) इति यावत्सु सूत्रेषु प्रोक्ताः प्रत्ययाः स्त्रीप्रत्ययाः अपि सन्ति, तद्धितसंज्ञकाः अपि सन्ति । तस्मात् अग्रे समर्थानाम् प्रथमात् वा (4.1.82) इत्यस्मात् सूत्रात् केवलं तद्धितप्रत्ययाः एव उच्यन्ते । 6) अस्मिन् सूत्रे आचार्यः ‘तद्धित’ शब्दस्य बहुवचनस्य प्रयोगं करोति । अस्मिन् विषये काशिकाकारः वदति - ‘बहुवचनमनुक्त-तद्धित-परिग्रहार्थम्’ । इत्युक्ते, केचन तद्धितप्रत्ययाः अत्र न प्रोक्ताः सन्ति (परन्तु प्रयोगे दृश्यन्ते) । तेषामपि ग्रहणं कर्तुमत्र बहुवचनस्य प्रयोगः क्रियते ।

Sutrartha (English)

The प्रत्ययाः that are being told from now onwards up to end of the fifth chapter are called तद्धितप्रत्ययाः.

Vasu English Summary

The तद्धित-affixes are treated of here after.

Vasu English Translation

The तद्धित-affixes are treated of here after. This is an adhikara or governing sutra. Up to the end of the Fifth Book, all the affixes that will be taught, are to be understood to have the name of Taddhita. Thus the affix ति taught in the very next sutra. As युवतिः The word so formed is called Pratipadika. The word तद्धिताः is in the number, and not exhibited in the singular, like the words प्रत्ययः (3.1.1) &c; and it, therefore, indicates that it includes also affixes which are not especially taught in this book. Such as पृथिव्य ञाञौ॥ अग्रादि पश्चाड् डिमच् ॥ As पार्थिव, अग्रिम, आदिम, पश्चिम ॥ See Vart IV. 3.23. The word Taddhita is used in Sutras like कृत्तद्धितसमासाश्च (1.2.46).

Kashika

अधिकारोऽयम्। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति — यूनस्तिः (४.१.७७) — युवतिः। बहुवचनमनुक्त — तद्धितपरिग्रहार्थम्। पृथिव्या ञाञौ (वा० ४.१.८५)। अग्रादिपश्चाड्डिमच्**(वा० ४.३.२३) इत्येवमादि लब्धं भवति। तद्धितप्रदेशाः — **कृत्तद्धितसमासाश्च (१.२.४६) इत्येवमादयः॥

Siddhanta Kaumudi

आपञ्चमसमाप्तेरधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

आपञ्चमसमाप्तेरधिकारोऽयम्॥

Balamanorama

तद्धिताः - तद्धिताः । वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकार सूत्रमेतत् । उत्तरावधिमाह — आ पञ्चमेति ।

Padamanjari

युवतिरिति । तद्धितसंज्ञायां सत्यां’कृतद्धितसमासाश्च’ इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि ।’प्रत्ययः’ इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे’प्राचां ष्फ तद्धितः’ इत्यत्र तद्धितग्रहणं न कर्तव्यम्,’यस्येति च’ इत्यत्र चकारग्रहणम्,’ङ्याप्प्रातिपदिकात्’ इत्यत्र तु तदन्तातद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङ्कारस्येत्संज्ञा न स्यात्, ठतद्धितेऽ इति प्रतिषेधात् । सत्यामपि वा पट्वीत्यादौ ठोर्गुणःऽ स्यात् । तस्माद्यथान्यासमेवास्तु ॥

Nyaas

युवतिः इति। तद्धितसंज्ञायां सत्यां कृत्तद्धित (1.2.46) इत्यादिना प्रातिपदिकसंज्ञा भवति। अथ तद्धिताः इति न सम्भवति बहुवचननिर्देशः, यथैव हि प्रत्ययः (3.1.1) इत्येकवचननिर्देशेऽपि वक्ष्यमाणानां बहूनामपि सन्नादीनां सर्वेषां सा संज्ञा भविष्यति, तथाऽत्राप्येकवचनेनैव निर्देशः कर्तव्यः? इत्यत आह - बहुवचनम् इत्यादि। एकवचन एव कर्तव्ये यद्बहुवचनं क्रियते तस्यैतत्प्रयोजनम् -अनुक्ता ये तद्धिता लक्षणवाक्यैरनभिहितास्तेषामपि परिग्रहो यथा स्यात्। ततः पृथिव्या ञाञौ (वा।376) इत्यादि न कर्तव्यं भवति। बहुवचननेनैवानुक्ततद्धितपरिग्रहार्थेन तेषां सिद्धत्वे महत्याः संज्ञायाः करण एतत् प्रयोजनम्, अन्वर्थसंज्ञा यथा विज्ञायेत - तेभ्यो हितास्तद्धिताः। तदित्यनेन लौकिका वैदिकाश्च शब्दाः प्रत्यवमृश्यन्ते; तेषां व्युत्पाद्यत्वेन प्रकृतत्वात् तेन तत्रैव भवन्त्यणादयो यत्र च भवन्तस्तेषामुपकारिणो भवन्ति, नान्यत्रेति। तेनाभिधानलक्षणत्वं तद्धितानामुपपन्नं भवति। अथ तद्धिताधिकारः स्त्रीप्रत्ययानामादित एव कस्मान्न क्रियते? किमेव सति भवति? तद्धितानामुपपन्नं तद्धितानन्तत्वात् प्रातिपदिकमिति ङ्याप्प्रातिपद#इकात् (4.1.1) इत्यत्र ङ्याब्ग्रहमं न कर्तव्यं भवति, प्राचां ष्फ तद्धितः (4.1.17) इत्यत्र च तद्धितग्रहणम्, यस्येति च (6.4.148) इतीकारग्रहणञ्च;तद्धित इत्येवं सिद्धत्वात्? अशक्यमेवं कर्त्तुम्; एवं हि क्रियमाणे तत्र ङ्याब्ग्रहणस्य यत् पूर्वं प्रयोजनमुक्तं तन्न स्यात्; ङीब्ङीष्ङीनाञ्च ङकारस्येत्संज्ञा अतद्धिते (1.3.8) इति प्रतिषेधात्। इह च पट्वीति ओर्गुणः (6.4.146) इति गुणः स्यात्। तस्माद्यथान्यासमेवास्तु॥

Praudhamanorama

बहुवचनमनुक्तानामुपसंख्येयानां सङ्ग्रहार्थम्। महासंज्ञाकरणं च तेभ्यः प्रयोगेभ्यो हितास्तद्धिता इत्यन्वर्थत्वाय। तेन यथाऽभिधानमेव स्युः। स्यादेतत्। टापः प्रागयमधिकारोऽस्तु ष्फविधौ तद्धितग्रहणं, यस्येति लोपे ईद्ग्रहणं च मास्त्विति चेत्? मैवम्, पट्वीत्यत्र ओर्गुणप्रसङ्गात्।

Prakriyasarvasvam

इत ऊर्ध्वं प्रत्ययास्तद्धिताख्याः ॥