41075: आवट्याच्च ================ **Padacheda:** आवट्यात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the feminine affix चाप् comes after the word आवट्य। Vasu English Translation ------------------------ And the feminine affix चाप् comes after the word आवट्य। The word अवट belongs to *Gargadi* class (4.1.105) which after taking यञ्, would have taken ङीप् (4.1.16). Thus आवट्या 'a female descendant of *Avata*'. But आवट्यायनी will be the proper form according to the Eastern Grammarians. See aphorism (4.1.17). Bhashya ------- आवट्याच्च (1325) (चापोऽधिकरणम्) (5213 पूर्वविप्रतिषेधवार्तिकम्॥ 1 ॥) - अन उपधालोपिनऊधसो ङीष् पूर्वविप्रतिषिद्धम् - (भाष्यम्) अन उपधालोपिनोऽन्यतरस्याम् (4.1.28) इत्येतस्मादूधसो ङीष्भवति पूर्वविप्रतिषेधेन। अन उपधालोपिनोऽन्यतरस्यामित्यस्यावकाशः -बहुराज्ञी, बहुतक्ष्णी।ऊधसो ङीष्भवतीत्यस्यावकाशः -विभाषा ङीप्, यदा न ङीप् सोऽवकाशः। ङीप्प्रसङ्गे उभयं प्राप्नोति,ऊधसो ङीष्भवति पूर्वविप्रतिषेधेन॥ स तर्हि पूर्वविप्रतिषेधो वक्तव्यः। न वक्तव्यः। अन उपधालोपिनोऽन्यतरस्यामित्यत्रऊधसो ङीष्भवति इत्येतदनुवर्तिष्यते॥ (5214 पूर्वविप्रतिषेधे द्वितीयं वार्तिकम्॥ 2 ॥) - आवट्याद्यञ्ञः ष्फश्चापः - (भाष्यम्) आवट्याद्यञ्ञः ष्फश्चापो भवति पूर्वविप्रतिषेधेन। आवट्याद्यञ्ञश्चापोऽवकाशः -उदीचाम् -आवट्या। ष्फस्यावकाशः -अन्यानि यञ्ञन्तानि -गार्ग्यायणी, वात्स्यायनी। आवट्यशब्दात्प्राचामुभयं प्राप्नोति -आवट्यायनी, ष्फो भवति पूर्वविप्रतिषेधेन॥ (सूत्रन्यासेन सिद्धान्तभाष्यम्) आवट्यग्रहणेन नार्थः। यञ्ञः ष्फश्चापः इत्येव। इदमपि सिद्धं भवति -शार्कराक्ष्यायणी, पौतिमाष्यायणी॥ यञ्ञ्ग्रहणेनापि नार्थः। ष्फश्चापः इत्येव। गौकक्ष्यशब्दः क्रौड्यादिषु पठ्यते, इदमपि सिद्धं भवति -गौकक्ष्यायणी। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। एवं वक्ष्यामि -प्राचां ष्फ तद्धितः सर्वत्र। क्व सर्वत्र? यत्र ष्फश्चान्यश्च प्राप्नोति, ष्फ एव तत्र भवतीति॥ ततो लोहितादिकतन्तेभ्यः सर्वत्र। क्व सर्वत्र? प्राचां चोदीचां च॥ Kashika ------- अवटशब्दो गर्गादिः। तस्माद् यञि कृते ङीपि प्राप्ते वचनमेतत्। आवट्यात् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या। प्राचां ष्फ एव, सर्वत्रग्रहणात्। आवट्यायनी॥ Siddhanta Kaumudi ----------------- अस्माच्चाप् स्यात् । यञश्च (SK471) इति ङीषोऽपवादः । अवटशब्दो गर्गादिः । आवट्या ॥ Balamanorama ------------ **आवट्याच्च** - आवटआच्च । ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह — अवटशब्द इति । आवटएति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियञियस्येति चे॑त्यकार लोपे आदिवृद्धौ आवठशब्दाच्चाप् । Nyaas ----- `ङीपि प्राप्ते` इति। `यञश्च` (4.1.16) इत्यनेन॥ Prakriyasarvasvam ----------------- गर्गादियञन्तादस्माच्चाप् । आवट्या । षाच्चं यञश्चाप् वाच्यः । गर्गादियञ् । गौकक्ष्या । पौतिमाष्या । एष्वावट्यायनी गौकक्ष्यायणीत्यादि प्राचां ष्फोऽपीष्टः ॥