41072: संज्ञायाम्

Padacheda: संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The feminine affix ऊङ् comes in denoting a Name after the words 1. कद्रु ‘tawny’ 2. कमण्डलु ‘a water pot’.

Vasu English Translation

The feminine affix ऊङ् comes in denoting a Name after the words 1. कद्रु ‘tawny’ 2. कमण्डलु ‘a water pot’. This rule applies to other than Vedic forms. Thus कद्रूः ‘a female named Kadru wife of Kasyapa’, कमण्डलूः ‘Kamandalu’. Why do we say “in denoting a Name”? Observe कद्रूः ‘the tawny color.’ कमण्डलूः ‘a water-gourd’.

Kashika

कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। अच्छन्दोऽर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायामिति किम्? कद्रुः। कमण्डलुः॥

Siddhanta Kaumudi

कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥

Balamanorama

संज्ञायाम् - संज्ञायाम् । कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह — कद्रकमणाडल्वोरित्यादि । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः । कद्रूरिति । नागानां मातुः संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति । कस्यचिन्मृगस्य संज्ञा । अत एवचतुष्पाद्भ्यो ढ॑ञित्यत्र कामम्जलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् ।

Tattvabodhini

संज्ञायाम् - कमण्डलुरिति । चतुष्पाज्जातिवाचतोऽयम् । अतएवचतुष्पाभ्द्यो ढञ्इत्यत्रकामण्डवेय॑इत्युदाहरिष्यति । पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् । अच्छन्दोर्थमिति । वेदे तुकद्रुकमण्डल्वोश्छन्दसी॑त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः । अञो योऽकार इति । अञा अकारविशेषणं किम् । शूरसेनी ।जनपदशब्दा॑दित्यञःअतश्चे॑ति लुकि जातिलक्षणोऽत्र ङीष् ।

Prakriyasarvasvam

नाम्नि कद्रुकमण्डल्वोरूङ् स्यात् । कद्रूः । कमण्डलूः ॥