41072: संज्ञायाम् ================= **Padacheda:** संज्ञायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine affix ऊङ् comes in denoting a Name after the words 1. कद्रु 'tawny' 2. कमण्डलु 'a water pot'. Vasu English Translation ------------------------ The feminine affix ऊङ् comes in denoting a Name after the words 1. कद्रु 'tawny' 2. कमण्डलु 'a water pot'. This rule applies to other than Vedic forms. Thus कद्रूः 'a female named *Kadru* wife of *Kasyapa*', कमण्डलूः '*Kamandalu*'. Why do we say "in denoting a Name"? Observe कद्रूः 'the tawny color.' कमण्डलूः 'a water-gourd'. Kashika ------- कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियामूङ् प्रत्ययो भवति। अच्छन्दोऽर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायामिति किम्? कद्रुः। कमण्डलुः॥ Siddhanta Kaumudi ----------------- कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥ Balamanorama ------------ **संज्ञायाम्** - संज्ञायाम् । कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह — कद्रकमणाडल्वोरित्यादि । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः । कद्रूरिति । नागानां मातुः संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति । कस्यचिन्मृगस्य संज्ञा । अत एवचतुष्पाद्भ्यो ढ॑ञित्यत्र कामम्जलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् । Tattvabodhini ------------- **संज्ञायाम्** - कमण्डलुरिति । चतुष्पाज्जातिवाचतोऽयम् । अतएवचतुष्पाभ्द्यो ढञ्इत्यत्रकामण्डवेय॑इत्युदाहरिष्यति । पात्रपर्यायस्तु न प्रत्युदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् । अच्छन्दोर्थमिति । वेदे तुकद्रुकमण्डल्वोश्छन्दसी॑त्यनेन संज्ञायामलसंज्ञायां चोङ् सिध्यतीति भावः । अञो योऽकार इति । अञा अकारविशेषणं किम् । शूरसेनी ।जनपदशब्दा॑दित्यञःअतश्चे॑ति लुकि जातिलक्षणोऽत्र ङीष् । Prakriyasarvasvam ----------------- नाम्नि कद्रुकमण्डल्वोरूङ् स्यात् । कद्रूः । कमण्डलूः ॥