41071: कद्रुकमण्डल्वोश्छन्दसि

Padacheda: कद्रु-कमण्डल्वोः | S | 6 | 2 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the words 1. कद्रु ‘tawny’ 2. कमण्डलु ‘a water pot’.

Vasu English Translation

The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the words 1. कद्रु ‘tawny’ 2. कमण्डलु ‘a water pot’. Thus कद्रुश्चवै सुपर्णी च ॥ मास्मकमण्डलूं शूद्राय दद्यात् ॥

Why do we say “in the Vedas.” Witness कद्रुः and कमण्डलुः ॥

Vart:- So also after the words गुग्गुलु, मधु, जतु and पतयालुः ॥ Thus गुग्गुलूः, मधूः, जतूः, and पतयालूः ॥

Bhashya

कद्रुकमण्डल्वोश्छन्दसि (1321) (छन्दस्यूङोऽधिकरणम्) (सूत्रांशपूरकभाष्यम्) अत्यल्पमिदमुच्यते -कद्रुकमण्डल्वोरिति, कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्। कद्रूः, कमण्डलूः, गुग्गुलूः, मधूः, जतूः, पतयालूः॥

Kashika

कद्रुशब्दात् कमण्डलुशब्दात् च छन्दसि विषये स्त्रियामूङ् प्रत्ययो भवति। क॒द्रूश्च॒ वै सु॑प॒र्णी च (तै०सं० ६.१.६.१)। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसीति किम्? कद्रुः। कमण्डलुः॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्॥ गु॒ग्गु॒लूः (शौ०सं० ४.३७.३)। म॒धूः (शौ०सं० ७.५६.२)। ज॒तूः॑ (मै०सं० ३.१४.६)। प॒त॒या॒लूः (शौ०सं० ७.११५.२)॥

Siddhanta Kaumudi

उङ् स्यात् । कद्रूश्च वै कमण्डलूः ।<!गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् !> (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् (SK1324) ।<!आविष्ट्यस्योपसंख्यानं छन्दसि !> (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥

Padamanjari

गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः’स्पृहिगृहि’ इत्यादिनाऽऽलुजन्तः ॥

Nyaas

कद्रुशब्दो वर्णविशेषवचनः, ततः वोतो गुणवचनात् (4.1.44) इति ङीषः प्राप्तस्य खरुसंयोगोपधयोः (वा।349) इति प्रतिषेधे कृते प्रातिपदिकेनानभिधाने प्राप्ते वचनम्। कमण्डलुशब्दस्याप्यप्राणिवाचित्वात् अप्राणिजातेश्चारज्ज्वादीनाम् (वा।369) इत्यूङ प्राप्ते छन्दसि नियमार्थम्। अथ वा - अयं रज्ज्वादि,ततः प्रतिषेधे सति प्राप्त्यर्थं वचनम्॥

Prakriyasarvasvam

अनयोः स्त्रियामूङ् स्यात् । कद्रूश्च वै सु८पर्णी च । कमण्डलुं शूद्राय दद्यात् । ‘गुग्गुलुमधुजतुपतयालूनामिति वाच्यम्’ (वा. ४-२-७४) गुग्गुलूः । मधूः । जतूः । पतयालूः । माधूकरीं वृत्तिमित्यादि दर्शनाल्लोकेऽपीदमिष्टम् । ‘प्राग्दीव्यती- येष्वर्थेषु वाङ्मतिपितृमतां छन्दसि ण्यो वाच्यः’ (वा. ४-१-८५) वाच्यम् । मात्यम् । पैतृमत्यम् । ‘बहिष ईकञ् छन्दसि टिलोपश्च’ (वा. ४-१-८५) बाहीकः ।<!छन्दसि निष्फलात् तिलात् पिञ्जो डिद्वाच्यः!> (वा. ४-२-३६) । निष्फलस्तिलः तिल्पिञ्जः ।

Vartika

गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् ।