41073: शार्ङ्गरवाद्यञो ङीन्

Padacheda: शार्ङ्गरवात् | S | 5 | 1 |

अञः | S | 5 | 1 |

ङीन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The feminine affix ङीन् comes after the words शार्ङ्गरव etc. and that which ends with the affix अञ्।

Vasu English Translation

The feminine affix ङीन् comes after the words शार्ङ्गरव etc. and that which ends with the affix अञ्। Thus शार्ङ्गरवी ‘a Sarngrava woman’, कापटवी ‘a Kapatava woman’. So also after a word formed with the affix अञ् (as ordained in S. 86, and 104 &c. of this chapter), as, बैदी ‘a female descendant of Bida’. और्वी ‘a female descendant of Urva’. This sutra applies to words expressing jati or kind. In other words, this aphorism debars the affix ङीष् of (4.1.63) &c. where it came after jati-vachaka words; but it does not debar that ङीष् which is employed in describing the relation of wife, such as, the ङीष् of (4.1.48).

The difference between ङीष् and ङीन् consists in accent only, the resultant forms otherwise being the same. The words formed by ङीन् will have udatta accent on the first syllable ञ्नित्यादिर्नित्यम् ((6.1.197) a word ending with an affix having an indicatory ञ् or न् has udatta accent on the first syllable’) : while the word formed by ङीष् will have acute accent on the affix. Thus बैदी ‘a female descendant of Bida’, and बैदी ‘the wife of Baida’.

The following is a list of Sarngaravadi class words:-

1 शार्गंरव, 2 कापटव, 3 गौग्गुलव, 4 ब्राह्मण, 5 बैद, 6 गौतम ॥ These words are formed by the affix अण् the first four being formed by the अण् of ( IV. 1.83) from शृंगरु, कपटु, गुग्गुलु and ब्रह्मन्; the word गौतम is formed from गोतम by the अण् of (4.1.114). This word is also included in Gauradi class (4.1.41). 7 कामण्डलेय, 8 ब्राह्मकृतेव, 9 आनिचेय, 10 आनिधेय, 11 आशीकेय ॥ These are formed by ढक् (4.1.123) except kamandaleya which is formed by ढञ् (4.1.135). 12 वात्स्यायन, 13 मौञ्जायन ॥ These are formed by फक् of (4.1.101) and (4.1.99), and denote castes or Gotra. 14 कैकसेय is also formed by ढक् (4.1.123). 15 काव्य 16 शैव्य are formed by ञ्यङ् (4.1.171). 17 एहि, 18 पर्येहि are formed by इन् added to आ + इह् ‘to try’, and परि + आ + इह् (Un IV. 117 सर्व धातुभ्य इन्) 19 आश्मरथ्य is formed by यञ् (4.1.105). 20 औदपान is formed by अण् (4.3.76). 21 अराल, 22 चण्डाल, 23 वतण्डः are jati words. 24 भोगवत्, 25 गौरिमत् ॥ These take ङ्गीन् when denoting a Name. These words are formed by the affix मतुप्, and are consequently उगित्, and should have taken ङीप् (4.1.6). This ordains ङीन् ॥

  1. The word भोग is formed by घञ् and गौरि is formed by इञ् (4.1.95), both are adyuddatta owing to ञ् (6.1.197). When मतुप् is added, the accent remains unchanged, for matup being पित् is anudatta (I11.1. 4). Therefore whether ङीप् be added or ङीन् to these words, it makes no difference in the accent, for they remain adyudatta. Where is the necessity of including these two words in this list.

Ans. To this we reply घादिषु नित्यम् हृस्वार्थम् ॥ For had these words taken ङीप् of (4.1.6), then the long ई would have been optionally shortened before the affixes घ &c. by (6.3.45). But by taking ङीन् the shortening is compulsory (6.3.43), and not optional. Because the च in the sutra उगितश्च (6.3.45) has the force of the word इति, and means the नदी words formed by adding ई to उगित् words, by enunciating the word उगित् are optionally shortened. Therefore (4.1.6) where the word उगित् is used is governed by this rule of optional shortening, and not the words formed by ङीन् ॥

26 नृ 27 नर. The word नृ would have taken ङीप् by (4.1.5), and नर would have taken ङीष् as it denotes a jati. These words take vriddhi before ङीन्, the form being नारी in both cases.

Kashika

शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति। शार्ङ्गरवी। कापटवी। अञन्तेभ्यः — बैदी। और्वी। जातिग्रहणं चेहानुवर्तते। तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः। बैदस्य स्त्री बैदी॥ शार्ङ्गरव। कापटव। गौगुलव। ब्राह्मण। गौतम। एतेऽणन्ताः। कामण्डलेय। ब्राह्मकृतेय। आनिचेय। आनिधेय। आशोकेय। एते ढगन्ताः। वात्स्यायन। मौञ्जायन। एतौ फगन्तौ जातिः। कैकसेयो ढगन्तः। काव्यशैव्यौ ञ्यङन्तौ। एहि, पर्येहि। कृदिकारान्तौ। आश्मरथ्यो यञन्तः। औदपानः। उदपानशब्दः शुण्डिकाद्यणन्तः (४.३.७६) प्रयोजयति। अराल चण्डाल। वतण्ड। जातिः। भोगवद्गौरिमतोः संज्ञायां घादिषु नित्यं ह्रस्वार्थम् (ग०सू० ५२)। नृनरयोर्वृद्धिश्च (ग०सू० ५३)। अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते॥

Siddhanta Kaumudi

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । शार्ङ्गरवी । बैदी । जातेरित्यनुवृत्तेः पुंयोगे ङीषेव । (गणसूत्रम् -) नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नारी ॥

Laghu Siddhanta Kaumudi

शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात्। शार्ङ्गरवी। बैदी। ब्राह्मणी। नृनरयोर्वृद्धिश्च (वार्त्तिकम्)। नारी॥

Balamanorama

शार्ङ्गरवाद्यञो ङीन् - शाङ्र्गरवाद्यञो ङीन् । शाङ्र्गरवादीति लुप्तपञ्चमीकम् । ‘अञ’ इति षष्ठी । ‘अत’ इत्यनुवृत्त पञ्चम्यन्ते अन्वेति । जातेरित्यनुवृत्तमता विशेष्यते । तदन्तविधिः । तदाह — शाङ्र्गरवादेरित्यादिना । शङ्र्गरवीति । शृङ्गरोरपत्यं स्त्रीत्यर्ते अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणःगोत्र च चरणैः सहे॑ति जातित्वान्ङीषि प्राप्ते ङीन् । स्वरे विशेषः । वैदीति । विदस्यापत्यं स्त्रीत्यर्थः ।अनृष्यानन्तर्ये विदादिभ्योऽञ् । गोत्रत्वेन जातित्वान्ङीषि प्राप्ते ङीन् । अञा अकारस्य विशेषणान्नेह-शूरसेनी ।जनपदशब्दा॑दित्यपत्येऽञ् ।अतश्चे॑ति तस्य लुक् । अत्र जातिलक्षणङीषेव न तु ङीन्, अञो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाऽभावात् । नृनरयोर्वृद्धिश्चेति । चकारात् ङीन् । नारीति । नृनरशब्दयोरुभयोरुदाहरणम् । तत्र नृशब्दात् ‘ऋन्नेभ्यः’ इति ङीपि प्राप्ते ङीन्, ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणङीषस्तु नृशब्दान्न प्रसक्तिः, तत्र ‘अत’ इत्यनुवृत्तेः । नरशब्दात्तु ङीनि नकारादकारस्य वृद्धिः । ननु परमपियस्येति चे॑ति लोपं बाधित्वाऽन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिः स्यात् । न च कृतायामपि वृद्धौयस्येति चे॑त्यकारलोपः स्यादिति वाच्यं, वृद्धिविधिसामर्थ्यादेव तस्य लोपाऽभावासिद्धेरिति चेदुच्यते-नृनरयोरित्यत्र ‘नर्’ इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः-अः-नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः । नचैवमपि वानरीशब्देऽतिप्रसङ्ग इति वाच्यम्, अर्थवत एव ग्रहणात् । न च नृशब्दान्ङीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यं, नरत्वजातिवाचिनो नरशब्दात्स्त्रियां जातिलक्षणङीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तुनृनरयोर्वृद्धिश्चे॑ति गणसूत्रं नारब्धव्यमेव ।तदस्य धम्र्य॑मित्यनुवृत्तौऋतोऽञि॑ति सूत्रेणनरस्य चे ति वक्तव्य॑मिति वार्तिकेन च नुर्धम्या नरस्य धम्र्येत्यर्ते नृशब्दान्नरशब्दाच्च अञि ततःटिड्ढाण॑ञिति ङीपि नारीति सिद्धेः ।ञ्नित्यादिर्नित्य॑मिति प्रकृतेराद्युदात्तत्वे ङीपः पित्त्वादनुदात्तत्वम् । ङीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाऽभावात् । नचैवं सति मनुष्यधम्र्यत्वेनैव बोधः स्यान्न तु नरत्वेनेति वाच्यं, योग्यतया हि तद्धम्र्या नरत्वाजातिविशिष्टैव बुध्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्यदिगादिभ्यो य॑दिति भवार्थकतया सिद्धत्वात्वसेस्तव्यत्कर्तरि णिच्चे॑ति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथंचिदन्वाख्यानमिति कैयट इति शब्देन्दुशेखरे स्थितम् ।

Tattvabodhini

शार्ङ्गरवाद्यञो ङीन् - शाङ्र्गरवीति । श्रऋङ्गरुशब्दादपत्येऽण् । आदिवृदधिः ।ओर्गुणः॒॑टिड्ढाणञ -॑इति ङीषं बाधित्वा परत्वात्जातेः॑इति ङीषि प्राप्तेङीन् विधीयते । तेन नित्त्विदाद्युदात्तः । ङीषि तु प्रत्ययस्वरेणाऽन्तोदात्तः स्यात् । बैदाति बिदस्यापत्यं स्त्री ।अनृष्यानन्तर्येबिदादिभ्योऽञ्.पूर्ववज्जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते । शाङ्गरव कापटव ब्राआहृणा गौग्गुलव गौतम इत्यादि । शृङ्गारुकपटुब्राहृन्गुग्गुलुशब्देभ्यः प्राग्दीव्यतोऽण् । गौतमशब्द ऋष्यणन्तः । अयं गौरादिविष्विपि पठित इति पक्षे अत्र ङीषपि भवति । ङीषेवेति ।जाते॑ रित्यननुवृत्तौ तु शाङ्र्गरवस्य स्त्री बिदस्य स्त्रीति पुंयोगविवक्षायामपि परत्वान्ङीनेव स्यादिति भावः ।नृनरयोर्वृद्धिश्चेति गणसूत्रम् । नृनरयोरिति । नृशब्दात्ऋन्नेभ्यः॑इति ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनं वृद्धिविधानार्थम् । ननु नरशब्देअलोऽन्त्यस्ये॑ति वृद्धिः स्यात् । अत्राहुः — ॒वर्णादाङ्गं बलीयः॑इत्याकारस्ययस्येति चे॑ति लोपोनापहारादनन्त्य्स्याप्यकारस्य वृद्धिर्भवतीति । यद्वा । नरस्य — अः नरः । कतन्तवत्पररूपम् । ना च नरश्च तयोर्नृनरयोः । परस्य च प्रथम एवाऽकारो गृह्रते न तु द्वितीयः, पर्श्लेषसामर्थ्यादिति । इह नरस्येत्यर्थवतो ग्रहणाद्वानरशब्दे नातिप्रसङ्ग इति बोध्यम् । यद्यर्यन्यतरोपादानेनापिनारी॑ति रूपं सिध्यति तथाप्यन्यतरस्यानिष्टरुपनिवृत्त्यर्थं द्वयोरूपादानम् । कथं तर्हिकिन्नरीणां नारीणां॑मित्यादिप्रयोगः । अत्राहुः — नरस्य स्त्री नरी । पुंयोगलक्षणो ङीषे । एवं च किन्नरूत्यपि सिद्धम् । किचिन्नरीति विग्रहादिति । केचित्तु अनिर्दिष्टस्थानिकत्वादिक्परिभाषोपस्थितौ नृ शब्दस्यैव वृद्धेर्नारीति भवति । नरशब्दस्य ग्रहणं तु ङीनर्थमेव । तत्राऽनिको वृद्द्यभावान्नरीत्येव भवितव्यमित्याठुः । तदपरे न क्षमन्ते । यदि ङीनर्थमेव नरशब्दग्रहणं स्यात्तर्हि शाङ्र्गरवादिगणे पृथगेव पठेत् । वृद्धिविधायके तद्गणसूत्रे तत्पाठस्य वैयथ्र्यापत्तेरिति । पुत्रशब्दोऽत्र गणे पठते । ततः स्त्रियां ङीन् । पुत्री । न च पुत्रशब्दः कन्यायां नास्तीति शङ्क्यम्,आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रीयां त्वमी । आहुर्दुहितरं सर्वे॑इत्यमरोक्तेः । तेनपुत्रीव हर्षं ह्मदये तनोति॑ ।कुर्वे तदुर्वीपतिपुत्रि । सर्वम्इत्यादिप्रयोग निर्बाधा एव । यत्त्वत्र हरदत्तेनोक्तम् — ॒कोवलः पुत्रशब्दः स्त्रियां नास्ती॑ति । तदुपेक्ष्यम् । उदाहृतकोशविरोधात् ।सूतिकापुत्रिस्थवार्तिकं व्यर्थमिति मनोरमायां स्थितम् ।

Padamanjari

एतेऽणन्त इति । शृङ्गरु, कपटुअ, गुग्गुलु, ब्रह्मन् - इत्येतेभ्यः प्राग्दीव्यतोऽण्, गोतमशब्दादृष्यण्,, गौरादिष्वप्ययं पठितः । एते ढगन्ता इति । बाहुल्यादेवमुक्तम् । कणण्डलुशब्दाच्चतुष्पाद्भ्यो ढञ्, इतरेभ्यस्तु शुभ्रादिलक्षणो ढक् । एतौ फगन्ताविति । वात्स्यशब्दाद् गर्गादियञन्ताद्यौउनि’यञिञोश्च’ इति फक् । ननु न स्त्रियां युवसंज्ञा,’गोत्राद्यौउन्यस्त्रियाम्’ इति वचनात्, गोत्रे च ठेको गोत्रेऽ इति नियमः ? एवं तर्हि वात्स्यायनशब्दस्यास्मिन् गणे पाठसामर्थ्यात्स्त्रियां युवसंज्ञा भविष्यति, गोत्र एव वा प्रत्ययद्वयम् । मुञ्जशब्दो नडादिः । जातिरिति । गोत्रलक्षणा । ढगन्त इति । कीकसाशब्दः शुभ्रादिः । ञ्यङ्न्ताविति ।’वृद्धेत्कोसलाजादाञ्ञ्यङ्’ इति कवि-शिविभ्यां ञ्यङ्,’यङ्श्चाप्’ अत्र प्राप्नोति । एहि, पर्येहीति । ठीह चेष्टायाम्ऽ आङ्पूर्वात्पर्याङ्पूर्वाच्च’सर्वधातुभ्य इन्’ इतीन् प्रत्ययः, अश्मरथशब्दो गर्गादिः, उदपानशब्दः शुण्डिकादिः, उत्सादिश्च, तत्राह - शुण्डिकाद्यणन्तः प्रयोजयतीति । अन्ते तु ङीपो ङीनो वा नास्ति विशेषः । जातिरिति । अराल -चण्डालयोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डशब्दस्य गोत्रत्वात् । वतण्डस्यापत्यं स्त्री’वतण्डाच्च’ इति यञ्,’लुक् स्त्रियाम्’ इति तस्य लुक् । भोगवद्गोरिमतोरिति । मत्वन्तत्वात् ठुगितश्चऽ इति ङीपि प्राप्ते वचनम् । ननु भोगशब्दो घञन्तः, गौरिशब्दः ठत इञ्ऽ इतीञन्तः, तौ ञित्स्वरेणाद्यौदातौ, ताभ्यां मतुप्, पित्वादनुदातः, ततश्च न ङीब्ङीनोरत्रास्ति विशेषः ? तत्राह - घादिषु नित्यमिति । उगिल्लक्षणे ङीपि सति’नद्याः शेषस्यान्यतरस्याम्’ , ठुगितश्चऽ इति विकल्पेन ह्रस्वत्वं स्यात्, ङीनि तु सति’घरूपकल्प’ इति नित्यं सम्भवति । कथं भवति, यावता उगितः परा या नदी तस्या विकल्पो विहितः, ङीनपि चोगितः परा नदी, बोगवद्गौरिमतोरुगित्वात् ? नैष दोषः; ठुगितश्चऽ इति इत्यर्थेऽयं चशब्दः, उगित इत्येवमुगित्संशब्दनेन या नदी विहिता न चानेन विहितो ङीनेवं विहिता नदी भवति । यथा तु’युवोरनाकौ’ इत्यत्र भाष्यम्, तथोगितः परा या नदीत्येतदेव स्थितम् । संज्ञाया अन्यत्र हीबेव भवति ह्रस्वश्च विकल्पितः । नृनरयोर्वृद्धिश्चेति । नृशब्दादृन्नेभ्यो ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । वृद्धिश्चेति, वक्ष्यामीति च अन्यतरस्य ग्रहणेऽपि नारीतीष्ट्ंअ सिद्धम्, अन्यतरस्यानिष्टनिवृत्यर्थं तु द्वयोरुपादानम् । तत्र नरशब्देऽन्त्यस्य वृद्धौ सत्यां यस्येतिलोपादानर्थक्यमिति यस्येति लोपस्तावद्भवति, तत्र कृते रेफस्य वृद्धिः प्राप्नोति, का ? अविशेष्ट्पर्यायेण सर्वैव ? नैष दोषः;’स्थाने’ न्तरतमःऽ इत्यत्रान्तरतमे स्थाने षष्ठीत्यपि पक्षो व्याख्यातः, ततो नृनरयोरिति यैषा षष्ठी सा वृद्धेरन्तरतमे नृनरावयवे स्थानिन्यनुसंह्रियते । यत्र च षष्ठी तत्रादेश इत्यकारस्यैव भविष्यति । अत्र पुत्रशब्दं केचित्पठन्ति, न स केवलः स्त्रियां वर्तत इति तदन्तस्य समासस्य ग्रहणम् । तत्रापि बहुपुत्रा, अतिपुत्त्रेत्यादावनुपसर्जनाधिकारान्न भवति । क्व तर्हि भवति ? पुत्रप्रधाने । ननु पुत्रप्रधानं समासे सैव पुंल्लिङ्गता ? सत्यम् ;’सूतोग्रराजभोजमेरुभ्यो दुहितुः पुत्रड् वा’ इति वातिककारेण यत्र पुत्रडादेशो विहितस्तान्युदाहरणानि । सूतपुत्री, राजपुत्रीति - अत्र स्वभावात्पुत्रशब्दो दुहितृशब्देन समानार्थः, न पुत्रडादेश इति पठतामभिप्रायः । अन्ये तु’प्रद्योतपुत्री शैलपुत्रीति वार्तिकविषयादन्यदेव ङीन उदाहरणम्, पुत्रडादेशस्तु ङीपि स्वरार्थः’ इति मन्यन्ते, नात्राप्तभाषितमस्ति ॥

Nyaas

बैदी, और्वी इति। बिदौर्वशब्दाभ्यां अनृष्यानन्तर्ये (4.1.104) इत्यादिनाऽञ्, तदन्ताद्गोत्रत्वाज्जातित्वे जातिलक्षणे ङीषि प्राप्ते ङीन् विधीयते। स्वरे विशेषः। अणन्ता एते इति। गोतमशब्दादपत्येऽर्थे ऋष्यन्धकवृष्णि (4.1.114) इत्यादिनाऽण्, शेषेभ्यस्तु तस्यापत्यम्` (4.1.92) इति। गौतमशब्दाद्गौरादिपाठात् ङीषपि भवति। ढगन्ता एते इति। शुभ्रादित्वात्। कामण्डलेयः`इति। `ढे लोपोऽकद्र्वा (6.4.147) इत्युकारलोपः। एषां टिड्ढाणञ् (4.1.15) इति ङीपि प्राप्ते वचनम्। वात्स्यायन इति। वत्सशब्दाद्गर्गादियञन्तात् यञिञोश्च (4.1.101) इति फक्। मौञ्जायन इति। मुञ्जशब्दात् नडादिभ्यः फक् (4.1.99) इति फक्। जातिः इति। गोत्रलक्षणा। लौकिकमपि हि तत्र गोत्रं गृह्रते। युवापि च लोके गोत्रमुच्यते, तथा हि वक्तारो वदन्ति - गाग्र्यायणो गोत्रेणेति। ढगन्ताः इति। केकसशब्दस्य शुभ्रादित्वात् अढगन्ताञ्ञ्यङन्तादपि ताविति। कपिशिविशब्दाभ्यामपत्येऽर्थे वृद्धेत्कोसलाजादाञ्ञ्यङ् (4.1.171) इति ञ्यङ्। यङश्चाप् (4.1.74) इति चापि प्राप्ते वचनम्। एहि, पर्येहि इति। ईह चेष्टायाम् (धातुपाठः-632) इत्यस्मादाङपूर्वात् पर्याद्याङ्पूर्वाच्च {इन् इत्येवोणादिसूत्रम् - वृत्तौ तु सर्वधातुभ्यः इन्प्रत्ययो भवतीति दृश्यते-द।उ।} सर्वधातुभ्यः (द।उ।1।46) इतीन्प्रत्ययः। बह्वादिषु कृदिकारादक्तिनः (ग।सू।50) इति पाठान्ङीषि प्राप्ते वचनम्। यञन्तः इति। गर्गादित्वात्। यञश्च (4.1.16) , प्राचां ष्फ तद्धितः (4.1.17) इति ङीपि ष्फे च प्राप्ते वचनम्। {उदपानः इति मुद्रितः पाठः} औदपानः`इति। उदपानादागत इति **शुण्डिकादिभ्योऽण्** (4.3.76) इत्यण्। उत्सादिष्वयं पठत इति तत्राञि कृते नास्ति विशेषः - ङीपो वा ङीनो वा, उभयत्रापि हि **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्याद्युदात्तेन भवितव्यमित्येतन्मनसि कृत्वाऽऽह - `शुण्डिकाद्यणन्तः प्रयोजयति इति। जातिः इति। अरालचण्डालयोरसर्वलिङ्गत्वादिति जातित्वम्। वतण्डस्य गौरादिलक्षणे ङीषि प्राप्ते वचनम्। प्रत्ययलक्षणेन यञश्च (4.1.16) , प्राचां ष्फ तद्धितः (4.1.17) इति ङीष्फयोर्बाधनम्। वतण्डस्यापत्यं स्त्री वतण्डाच्च (4.1.108) इति यञ्, तस्य लुक् स्त्रियाम् (4.1.109) इति लुक्।भोगवद्गौरिमतोः संज्ञायाम् इति। संज्ञायां गम्यमानायां भोगवद्गौरिमच्छब्दाभ्यां ङीन् भवति। मत्वन्तत्वात् उगितश्च (6.3.45) इति ङीपि प्राप्ते वचनम्। ननु च बोगशब्दो घञन्तः, गौरिश्बदः अत इञ् (4.1.95) इतीञन्तः, तेन द्वावप्येतौ ञित्स्वरेणाद्युदात्तौ। ताभ्यां मतुप्, पित्त्वादनुदात्तः। तथा च भोगवद्गौरिमद्भ्यां ङीपि ङीनि वा विहिते न कश्चिद्विशेषः, तत्किमर्थं ताभ्यां ङिन् विधीयते? इत्यत आह - घादिषु नित्यं ह्रस्वार्थम् इति। घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (6.3.43) इत्यादिषु नित्यं ह्रस्वो यथा स्यादिति ताभ्यां ङीनो विधानम् - भोगवतितरा, गौरिमतितरेति। यदि पुनरुगिल्लक्षणो ङीप्क्रियेत,ततः नद्याः शेषस्यान्यतरस्याम् (6.3.44) इत्यनुवर्तमाने उगितश्च (6.3.45) इति विकल्पेन ह्रस्वत्वं स्यात्। अथानेनापि ङीनि सति कस्मादेव उगितश्च (6.3.45) इत्यन्यरस्यां ह्रस्वत्वं न भवति, यावता भोगवद्गौरिमद्भ्यामुगिद्भ्यामेवायं त्सया विकल्पेन ह्रस्वत्वं भवतीति। न चानेन सूत्रेण या विहिता सा नद्युगित्संशब्दनेन विहिता भवति; उगित्त्वानाश्रयणात्। संज्ञायामिति किम्? भोगवती, गौरिमतीति। उगितश्च (6.3.45) इति ङीप्। अत्र च घादिषु विकल्पनैव ह्रस्वो भवति - भोगवतितरा , भोगवतीतरा, गौरिमतितरा, गौरीमतीतरेति।नृनरयोर्वद्धिश्च इति। नृशब्दस्य ऋन्नेभ्यो ङीप् (4.1.5) इति ङीपि प्राप्ते वचनम्। नरशब्दस्य अजाद्यतः (4.1.4) इति टापि प्राप्ते जातित्वान्ङीषि वा। जातित्वं त्वाकृतिग्रहणात्। वृद्धिश्च तयोर्भवति, सा च नृशब्दस्यालोऽन्त्यपरिभाषया (1.1.51) ऋकारस्यस्थाने भवति। नरशब्दस्य यस्येति (6.4.148) लोपे कृते सत्यकारस्य। ननु च अनन्त्यविकारेऽन्त्यसदेशस्य (व्या।प।63) इति रेफस्यैव भवितव्यम्? नैष दोषः; वृद्धेर्याऽन्तरमा प्रकृतिस्तत्र षष्ठी, यत्र षष्ठी तत्रादेश इत्यकारः स्थानी ज्ञायते।पुत्रशब्दमत्र केचित् पठन्ति, न स केवलः स्तियां वर्तत इत्ययं समासन्तो गृह्रते। समासान्ते च वर्तमानो दुहितृशब्देन समानार्थो भवन् स्त्रीलिङ्गो भवति - प्रद्योतपुत्त्री, शैलपुत्त्रीति। यथोयोगम् इति। यथासम्भवम्॥

Praudhamanorama

अञो योऽकार इति। अञा अकारविशेषणं किम्? शूरसेनी। ‘जनपदशब्दात्’ इत्यञो ‘अतश्च’ इति लुकि जातिलक्षणो ङीष्। शार्ङ्गरवीति। शृङ्गरुशब्दादपत्यार्थे अण्। नृनरयोरिति। नृशब्दाद् ‘ऋन्नेभ्य’ इति ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम्। ननु नरशब्दे अलोऽन्त्यस्य वृद्धिः स्यात्। यत्त्वाहुः— अन्त्यस्य ‘यस्येति’ लोपेनापहारादनन्त्यस्याप्यकारस्य वृद्धिर्भवत्यान्तरतम्यात्। ‘गुणे त्वन्याय्यकल्पना’ इत्यलोन्त्यपरिभाषाबाधस्यैव न्याय्यत्वादिति; तन्न, प्रत्ययसन्नियोगशिष्टाया वृद्धेरन्तरङ्गत्वेन परमपि ‘यस्येति’ लोपं बाधित्वा प्रवृत्त्यौचित्यात् । किं चास्तु कथंचिल्लोपस्तथाऽपि रेफस्यैव वृद्धिः स्यान्न त्वकारस्य, अन्तरतमपरिभाषापेक्षयाऽलोन्त्यपरिभाषायाः परत्वात्। अपि चान्तरतमपरिभाषाऽसदृशमादेशं व्यावर्तयति, न तु स्थानिनं नियच्छति, तत्कथं रेफस्य स्थानित्वव्यावृत्तिः। किं च ‘गुणे त्वन्याय्य’ इति न्यायोपन्यसनं स्थवीय एव, परिभाषयोः परस्परं गुणगुणिभावायोगात्। अत्रेदं तत्त्वम्। ‘नर’ इति रान्तलुप्ताकारानुकरणं नरः अः नरः। ना च नरश्च तयोरिति व्याख्येयम्। यद्वा नरस्य अः नरः, कतन्तवत् पररूपम्। ना च नरश्च तयोर्नृनरयोः। नरस्य च प्रथम एव अकारो गृह्यते न तु द्वितीयः, प्रश्लेषसामर्थ्यात्। अधिकं शब्दकौस्तुभे बोध्यम्। पुत्रशब्दोऽत्र पठ्यते। शैलपुत्री, ‘पुत्रीव हर्षं हृदये तनोति’, ‘कुर्वे तदुर्वीपतिपुत्रि सर्वम्’ । न च पुत्रशब्दः कन्यायां नास्तीति भ्रमितव्यम्, आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी। आहुर्दुहितरं सर्वे॥ इत्यमरोक्तेः। अत एव ‘प्रत्ययस्थात्’ इतीत्वप्रकरणे ‘वा सूतकापुत्रिकावृन्दारकाणाम्’ इति वार्तिकं तद्भाष्यादिकं च सङ्गच्छते। यत्त्वत्र हरदत्तेनोक्तम्- केवलपुत्रशब्दः स्त्रियां न वर्तते इति; तद्भाष्यादिविरोधादुपेक्ष्यम्, इत्वप्रकरणस्थस्वग्रन्थविरोधाच्च। इदं तु चिन्त्यम्— ‘कारे सत्यागदस्य’ इति सूत्रे ‘सूतोग्रराजभोजकुलमेरुभ्यो दुहितुः पुत्रड्वा’ इति वार्तिकं किमर्थमिति। यत्तु वदन्ति स्वरार्थमिति, तन्न, टित्त्वान् ङीपि कृते उदात्तनिवृत्तिस्वरेणान्तोदात्ते ङीनन्तेन तत्पुरुषेऽपि समासस्वरेणान्तोदात्त एवेति स्वरे भेदाभावात्। यदपि शार्ङ्गरवादौ पुत्रशब्दः प्रक्षिप्तो न तु साम्प्रदायिक इति; तदपि न, उदाहृतप्रयोगविरोधात्, ‘वा सूतका’ इत्यादिवार्तिके कैयटहरदत्तादिकृताऽकारप्रश्लेषविरोधाच्चेत्यास्तां तावत्।

Prakriyasarvasvam

शार्ङ्गरवादेरञन्ताच्च जातिवाचिनो ङीन् स्यात् । स्वरे भेदः । शार्ङ्गरवी । बैदी । अजात्यञन्तात् तु ङीनुक्तः । ‘नृनरयोर्वृद्धिश्च’ (स० ३-४-१२५) द्वयोरपि नारी ॥

Vartika

नृनरयोर्वृद्धिश्च ।