41071: कद्रुकमण्डल्वोश्छन्दसि ============================= **Padacheda:** कद्रु-कमण्डल्वोः | S | 6 | 2 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the words 1. कद्रु 'tawny' 2. कमण्डलु 'a water pot'. Vasu English Translation ------------------------ The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the words 1. कद्रु 'tawny' 2. कमण्डलु 'a water pot'. Thus कद्रुश्चवै सुपर्णी च ॥ मास्मकमण्डलूं शूद्राय दद्यात् ॥ Why do we say "in the Vedas." Witness कद्रुः and कमण्डलुः ॥ Vart:- So also after the words गुग्गुलु, मधु, जतु and पतयालुः ॥ Thus गुग्गुलूः, मधूः, जतूः, and पतयालूः ॥ Bhashya ------- कद्रुकमण्डल्वोश्छन्दसि (1321) (छन्दस्यूङोऽधिकरणम्) (सूत्रांशपूरकभाष्यम्) अत्यल्पमिदमुच्यते -कद्रुकमण्डल्वोरिति, कद्रुकमण्डलुगुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्। कद्रूः, कमण्डलूः, गुग्गुलूः, मधूः, जतूः, पतयालूः॥ Kashika ------- कद्रुशब्दात् कमण्डलुशब्दात् च छन्दसि विषये स्त्रियामूङ् प्रत्ययो भवति। क॒द्रूश्च॒ वै सु॑प॒र्णी च (तै०सं० ६.१.६.१)। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसीति किम्? कद्रुः। कमण्डलुः॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम्॥ गु॒ग्गु॒लूः (शौ०सं० ४.३७.३)। म॒धूः (शौ०सं० ७.५६.२)। ज॒तूः॑ (मै०सं० ३.१४.६)। प॒त॒या॒लूः (शौ०सं० ७.११५.२)॥ Siddhanta Kaumudi ----------------- उङ् स्यात् । कद्रूश्च वै कमण्डलूः । (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् (SK1324) । (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥ Padamanjari ----------- गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः'स्पृहिगृहि' इत्यादिनाऽऽलुजन्तः ॥ Nyaas ----- कद्रुशब्दो वर्णविशेषवचनः, ततः `वोतो गुणवचनात्` (4.1.44) इति ङीषः प्राप्तस्य `खरुसंयोगोपधयोः` (वा।349) इति प्रतिषेधे कृते प्रातिपदिकेनानभिधाने प्राप्ते वचनम्। कमण्डलुशब्दस्याप्यप्राणिवाचित्वात् `अप्राणिजातेश्चारज्ज्वादीनाम्` (वा।369) इत्यूङ प्राप्ते छन्दसि नियमार्थम्। अथ वा - अयं रज्ज्वादि,ततः प्रतिषेधे सति प्राप्त्यर्थं वचनम्॥ Prakriyasarvasvam ----------------- अनयोः स्त्रियामूङ् स्यात् । कद्रूश्च वै सु८पर्णी च । कमण्डलुं शूद्राय दद्यात् । ‘गुग्गुलुमधुजतुपतयालूनामिति वाच्यम्’ (वा. ४-२-७४) गुग्गुलूः । मधूः । जतूः । पतयालूः । माधूकरीं वृत्तिमित्यादि दर्शनाल्लोकेऽपीदमिष्टम् । ‘प्राग्दीव्यती- येष्वर्थेषु वाङ्मतिपितृमतां छन्दसि ण्यो वाच्यः’ (वा. ४-१-८५) वाच्यम् । मात्यम् । पैतृमत्यम् । ‘बहिष ईकञ् छन्दसि टिलोपश्च’ (वा. ४-१-८५) बाहीकः । (वा. ४-२-३६) । निष्फलस्तिलः तिल्पिञ्जः । Vartika ------- गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् ।