41070: संहितशफलक्षणवामादेश्च¶
Padacheda: संहित-शफलक्षण-वामादेः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the word ऊरु when the words 1. संहित ‘accompanied or joined’ 2. शफ ‘a hoof’ 3. लक्षण ‘a mark’ 4. वाम ‘handsome’ precede it.
Vasu English Translation¶
The feminine affix ऊङ् comes in the छन्दस् (Vedas) after the word ऊरु when the words 1. संहित ‘accompanied or joined’ 2. शफ ‘a hoof’ 3. लक्षण ‘a mark’ 4. वाम ‘handsome’ precede it. This aphorism applies, when no comparison is intended. As संहितोरूः ‘a female whose thighs are joined (e.g. from obesity)’ शफोरूः ‘whose thighs are put together like the two hoofs on a cow’s foot,’ लक्षणोरूः ‘whose thighs are marked,’ वामोरूः ‘with handsome thighs.’
Vart:- So also with the words सहित and सह. As सहितोरूः and सहोरूः ॥
Bhashya¶
संहितशफलक्षणवामादेश्च (1320) (ःढ़द्य;ङोऽधिकरणम्) (पूरकभाष्यम्) सहितसहाभ्यां चेति वक्तव्यम्। सहितोरूः, सहोरूः॥
Kashika¶
संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात् स्त्रियामूङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥ सहितसहाभ्यां चेति वक्तव्यम्॥ सहितोरूः। सहोरूः॥
Siddhanta Kaumudi¶
अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ।<!सहितसहाभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
Laghu Siddhanta Kaumudi¶
अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥
Balamanorama¶
संहितशफलक्षणवामादेश्च - संहितशफ । संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः । सैव शफोरूरिति । संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोतिशपौ खुराविति । यद्यपिशफं क्लीबे खुरः पुमा॑नित्यमरस्तथापिशफः खुरे गवादीना॑मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह — ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह — संश्लिष्टत्वादिति । तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह — उपचारादिति । शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह — लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः ।वामौ वल्गुप्रतीपौ द्वौ॑ इत्यमरः ।सहितेति । ‘सहित’ ‘सह’ आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह — हितेनेति । हितेन सहेति विग्रहेतेन सहे॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह — सहेते इति ।रतिकालिकमर्दन॑मिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः ।
Tattvabodhini¶
संहितशफलक्षणवामादेश्च - संहित । संहितादिपूर्वपदमूरूत्तरपदं यत् प्रातिपदिकं तस्मादूङ् स्यात् । शफाविति । यद्यप्यमरेणशफं क्लीबे खुरः पुमान्इति नपुंसकतोक्ता, तथापि शफशब्दस्य पुंस्त्वमपि प्रामाणिकमेव ।शफाविव जर्भुराणे॑ति श्रुतेः ।शफः खुरे गवादीनां मूले विटपिनामपि॑इति हेमचन्द्रकोशाच्च । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इतचि विग्रहः । कथं तर्हिपीवरोरु । पिबतीव बर्हिणः॑इति कुमारः । ऊङभावे हिपीवरोरो॑इति स्यात् । ऊङ्श्चेह विधायकं नास्ति । अत्राहुः -संज्ञापूर्वकविधेरनित्यतया संबुद्धिगुणाऽभावादिति स्थितस्य गतिरुन्नेयेति ।सहितसहाभ्यां चेति वक्तव्यम् । हितेन सहेति । अत्राहुः — समो वा हितततयोः॑इति व्युत्पादितःसहित॑शब्दस्तु नेह गृह्रते, एकदेशविकृततया संहितग्रहणादेव तत्सिद्धेरिति भावः ।
Padamanjari¶
संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति ।’समो वा हितततयोः’ इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥
Nyaas¶
संहितोरूः इति। संहितशब्दः संश्लिष्टवचनः, संश्लिष्टोरुरित्यर्थः।सहितसहाभ्याञ्चेति वक्तव्यम् इति। सहित, सह - इत्येताभ्यां परो य उरुशब्दस्तदन्ताच्च प्रातिपदिकादूङ् भवीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - घकारोऽत्र क्रियते, स चायुक्तसमुच्चयार्थः, तेन सहितसहाभ्यामपि भविष्यति। सूत्र आदिग्रहणमूरूत्तरपदमित्यस्यानुवृत्तेर्लिङ्गम्। अन्यथा संहितादिप्रातिपदिकेभ्य एव प्रत्ययो भवतीत्येषोऽर्थो विज्ञायेत। सत्यां हि स्वरितत्वादेवानुवृत्तावेभ्यो यत्परमूरूत्तरपदं सत्यप्यस्मिन् मध्यपदे तत्रैव प्रत्ययः प्रसज्यते;संहितस्वाम्यूरुशब्दात्, न संहितोरुशब्दात्। गुणभावादूरुशब्दस्य न स्यादेवेह विशेषणम्॥
Praudhamanorama¶
शफौ खुराविति। यद्यपि ‘शफं क्लीबे खुरः पुमान्’ इत्यमरस्तथापि शफशब्दस्य पुंस्त्वमपि बहुसम्मतम्, शफाविव जर्भुराणेति श्रुतौ ‘ग्राम्यपशुसङ्घेषु’ इति सूत्रस्य व्याख्यावसरे न्यासहरदत्तादिग्रन्थेषु, वाचस्पत्यादिनिबन्धेषु च प्रचुरप्रयोगात्, ‘लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य’ इति भाष्याच्च, ‘शफो भुजो गुदं घोणा’ इति गणरत्नमहोदधौ क्रोडादिगणे पाठाच्च, ‘शफः खुरे गवादीनां मूले विटपिनामपि’ इति हेमचन्द्रकोशाच्च। विश्वकोशे च पुन्नपुंसकतोक्ता। वामौ सुन्दरौ ऊरू यस्या इति विग्रहः। इह सर्वत्र उपमानाभावादप्राप्ते विधिः। कथं तर्हि ‘पीवरोरु पिबतीव बर्हिण’ इति कुमारः? प्रमाद एवायम्। संज्ञापूर्वकत्वात्सम्बुद्धिगुणो नेत्येके। हितेन सहेति। ‘समो वा हितततयोः’ इति व्युत्पादितः सहितशब्दस्तु नेह गृह्यते, एकदेशविकृततया संहितग्रहणादेव सिद्धेरिति भावः।
Prakriyasarvasvam¶
संहितोरूः । सफलोरूः । शफेति पाठे शफोरूः । संश्लिष्टोरुरित्यर्थः । लक्षणोरुः । वामोरूः । सहितसहाभ्यां च वाच्यम् । सहितोरूः । सहोरूः । द्वयोः संश्लिष्टोरुरित्यर्थः । वरोरूः । कोमलोरुरित्यादौ स्त्रीजातिविवक्षायाम् ‘ऊङ्गुत’ (४-१-६६) इत्यूङिति नाथः । मधुशब्दाच्छन्दस्यूङ्ङुक्तः । तस्य लोकेऽपीष्टत्वात् माधुकरी वृत्तिमित्यादि साध्यम् ॥
Vartika¶
सहितसहाभ्यां चेति वक्तव्यम् ।
Sutra Prayogas¶
वामोरु (रघुवंशम्): संहितशफलक्षणवामादेश्च इति ऊङ्प्रत्ययः।