41060: दिक्पूर्वपदान्ङीप् ========================= **Padacheda:** दिक्-पूर्वपदात् | S | 5 | 1 | ङीप् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The feminine affix ङीप् comes after a प्रातिपदिक (Nominal Stem) which is preceded by a word signifying direction. Vasu English Translation ------------------------ The feminine affix ङीप् comes after a प्रातिपदिक (Nominal Stem) which is preceded by a word signifying direction. This aphorism over-rules all the rules and prohibitions contained in *sutras* (4.1.54) to (4.1.58). Whereever by those rules there would have been ङीष्, the present enjoins ङीप् instead. Though the form will be the same, the difference will be in the accent; the affix ङीप् being *anudatta* (3.1.4). Thus प्राङ्मुखी or प्राङ्मुखा, प्राङ्नासिकी or प्रांनासिका, But not so in प्राग्गुल्फा; प्राक्क्रोडा or प्राग्जघना because these words do not take ङीष् (by (4.1.56)), therefore they never give occasion to the application of ङीप् ॥ The *sutra* ought to be read as if it contained two rules (1) the affix ङीष् comes after a compound the first member of which is a word denoting direction and the second is a *svanga* word or is the word नासिका &c. the penultimate not being a conjunct consonant, (2) but ङीष् is not added to Compounds ending in क्रोड &c. or in a word of more than two syllables. In other words the *sutra* may be translated "ङीप् is the substitute of ङीष् when the first member is a word denoting direction". Therefore the affix ङीप् will come only there, where else the affix ङीष् would have come and not otherwise. This is the reason why the *anuvritti* of ङीष् is taken in the next *sutra* (4.1.61) and not that of ङीप् ॥ Bhashya ------- दिक्पूर्वपदान्ङीप् (1313) (ङीबादेशाधिकरणम्) (5202 आक्षेपवार्तिकम्॥ 1 ॥) - दिक्पूर्वपदान्ङीषोऽनुदात्तत्वम् - (भाष्यम्) दिक्पूर्वपदान्ङीषोऽनुदात्तत्वं वक्तव्यम्। प्राङ्मुखी, प्रत्यङ्मुखी। (5203 द्वितीयाक्षेपवार्तिकम्॥ 2 ॥) - ङीब्विधाने ह्यन्यत्रापि ङीष्विषयान्ङीप्प्रसङ्गः - (भाष्यम्) ङीब्विधाने हि सति अन्यत्रापि ङीष्विषयान्ङीप् प्राप्नोति। प्राग्गुल्फा, प्रत्यग्ललाटा। ननु चैते विशेषा अनुवर्तन्ते -असंयोगोपधात् बह्वचो न इति। यद्यप्येते विशेषा अनुवर्तेरन् -संयोगोपधाद्बह्वचो नेति। एवमपि दिक्पूर्वपदात् ङीपा मुक्ते ङीष् प्रसज्येत। नैष दोषः। उक्तमेतत् -यत्रोत्सर्गापवादं विभाषा तत्रापवादेन मुक्ते उत्सर्गो न भवतीति॥ (सिद्धान्तभाष्यम्) अथ वा ङीष आदेशो ङीप् करिष्यते॥ तत्तर्हि ङीषोऽत्र ग्रहणं कर्तव्यम्? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? अन्यतो ङीषिति। तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः। दिक्पूर्वपदादित्येषा पञ्ञ्चमी ङीषिति प्रथमायाः षष्ठीमिह प्रकल्पयिष्यति तस्मादित्युत्तरस्य (1.1.67) इति॥ प्रत्ययविधिरयम्, न च प्रत्ययविधौ पञ्ञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः, विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥ Kashika ------- **स्वाङ्गाच्चोपसर्जनाद्०** (४.१.५४) इत्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते। यत्र ङीष् विहितस्तत्र तदपवादः। दिक्पूर्वपदात् प्रातिपदिकाद् ङीप् प्रत्ययो भवति। स्वरे विशेषः। प्राङ्मुखी, प्राङ्मुखा। प्राङ्नासिकी, प्राङ्नासिका। इह न भवति — प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघनेति॥ Siddhanta Kaumudi ----------------- दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य ङीषो ङीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ॥ Balamanorama ------------ **दिक्पूर्वपदान्ङीप्** - दिक्पूर्वपदान्ङीप् । दिक्पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनुवर्तते । प्रातिपदिकादिति च ।॒अन्यतो ङीषि॑त्यतो ङीषित्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — दिक्पूर्वेत्यादिना । प्राङ्मुखीति । प्राक् मुखं यस्या इति विग्रहः । ङीषो ङीब्विधेः फलमाह — आद्युदात्तं पदमिति । ङीपः पित्त्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणाद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो ङीबेव विधीयतामिति वाच्यं, तथा सति प्राग्गुल्फेत्यादावपिअसंयोगोपधा॑दिति निषेधं बाधित्वा ङीप्प्रसङ्गात् । ङीषो ङीबादेशविधौ तुस्वाङ्गाच्चोपसर्जनादसंयोगोपधा॑दिति विहितङीषो ङीब्विधानान्न दोषः ।असंयोगोपधा॑दित्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः । Tattvabodhini ------------- **दिक्पूर्वपदान्ङीप्** - ङीषो ङीबादेश इति ।अन्यतो ङी॑षित्यतो ङीषित्यनुवर्तते ।दिक्पूर्वपदा॑दिति पञ्चम्याङी॑षिति प्रथमायाः षष्ठी कल्प्यत इति भावः । यदि तु स्वतत्त्रो ङीप्स्यात्तर्हिप्राग्गुल्फा॑प्राक्रोडे॑त्यत्रापि प्रसज्येत, पूर्वोक्ताऽसंयोगोपधादित्यस्य निषेधानां चानुवृत्तौ प्रतिपत्तिगौरवमिति भावः । [प्राङिति.॒निपाता आद्युदात्ताः॑इति पूर्वपदे उदात्ते सतिबहुव्रीहौ प्रकृत्या पूर्वपद॑मिति पूर्वपदप्रकृतिस्वरे सिद्धे ङीष् प्रत्ययस्वरेणोदात्त इति सेषनिघातः स्यात्, तन्माभूदिति ङीषो ङीबनुदात्तो विधीयत इति प्राङ्गुखीति पदमाद्युदात्तमिति भावः] Padamanjari ----------- दिक्पूर्वपदान्ङीषोऽनुदातत्वम्,'स्वाङ्गाच्च' इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह - विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति - यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते'स्वाङ्गाच्चो पसर्जनात्' इति ङीषपि न भवति, कथम् ? उक्तमेतत् -'यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्तते' इति । प्रतिषेधापेक्षायाः फलं दर्शयति - इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः - दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥ Nyaas ----- `विधिप्रतिषेध` इत्यादि। विधिविषयः - स्वाङ्गमुपसर्जनसंयोगोपधत्वम्, नासिकादि च प्रातिपदिकम्। प्रतिषेधविषयः- संयोगोपधञ्च प्रातिपदिकम्, **न क्रोडादिबह्वचः** (4.1.56) **सहनञ्विद्यमानपूर्वाच्च** (4.1.57) इति। एतेनैतत् सूचयति - `स्वाङ्गाच्चोपस्र्जनासंयोगोपधात्` (4.1.54) इत्यादि विधिशास्त्रमिहानुवर्तते, **न क्रोडादिबह्वचः** (4.1.56) इत्यादि प्रतिषेधशास्त्रम्, तेन यत्र विषये ङीष् विहितस्तत्रैव ङीब्विधेयः। यत्र तु विषये ङीष् प्रतिषिद्धस्तत्र ङीबपि प्रतिषिध्यत इति। `यत्र ङीष् विहितः` इत्यादिना विधि विषयापेक्षयाः फलं दर्शयति। कः पुनर्ङीपो वा विशेषः, यावतोभयत्र तदेव रूपम्? इत्याह - `स्वरे विशेषः` इति। ङीपो हि पित्त्वादनुदात्तत्वं भवतीति, ङीषस्तु प्रत्ययस्वरेणाद्युदात्तत्वम्। `प्राङमुखी` इति। ऋत्विगादि (3.2.59) सूत्रेणाञ्चतेः क्विन्, `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः, **उगितश्च** (6.3.45) इति ङीप् -प्राची। प्राच्यां दिशि मुखमिति `दिक्शब्देभ्यः सप्तमीपञ्चमी` (5.3.27) इत्यादिनास्तातिः, **अञ्चेर्लुक्** (5.3.30) इति तस्य लुक्, **लुक् तद्धितलुकि** (1.2.49) इति स्त्रीप्रत्ययस्यापि लुक्, **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यव्ययत्वम्, **अव्ययादाप्सुपः** (2.4.82) इति सुपो लुक् - प्राग् मुखं यस्याः सा प्राङमुखी, **यरोऽनुनासिकेऽनुनासिको वा** (8.4.45) इति ङकारः। `प्राङ्मुखा` इति। टाप्। ननु च ङीपा मुक्ते `स्वाङ्गाच्चोपसर्जनात्` (4.1.54) इति ङीषा भवितव्यम्? नैतदस्ति; आचार्यप्रवृत्तिज्र्ञापयति -यत्रोत्सर्गापवादयोर्विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति, यदयं **पीलाया वा** (4.1.118) इति वाग्रहणं करोति। यद्यत्राणा विकल्पितेन मुक्ते **स्त्रीभ्यो ढक्** (4.1.120) (इति) ढकारेण भवितव्यं किं वाग्रहणेन? तस्मादस्माद्वाग्रहणादिदं ज्ञाप्यते - यत्रोत्सर्गोऽपि विभाषा तत्रापवादेन मुक्त उत्सर्गो न प्रवर्तत इति। कथं पुनरुत्सर्गो विभाषा? महाविभाषया। **प्राग्दीव्यतोऽण्** (4.1.83) इत्यणुत्सर्गः, **स्त्रीभ्यो ढक्** (4.1.120) इति ढगपवादः; तेन मुक्ते यद्यपि स्यादण्, किं वाग्रहणेन? नेत्येवं ब्राऊयात्, तत्रौत्सर्गिकाणो निवृत्त्यर्थम्। `इह न भवति` इत्यादिना प्रतिषेधापेक्षायाः फलं दर्शयति। `प्राक्क्रोडा, प्राग्जघना` इति। अत्र हि **न क्रोडादिबह्वचः** (4.1.56) इत्यस्याप्यनुवृत्तेर्ङीष् न भवति। `प्राग्गुल्फा` इति। अत्राप्यसंयोगोपधा (4.1.63) , `वहश्च` (3.2.64) इति ण्विः, ण्वेः सर्वापहारी लोपः, प्रत्ययलक्षणेन **अत उपधायाः** (7.2.116) इति वृद्धिः, ङीष्, **वाह ऊठ्** (6.4.132) इति संप्रासरणसंज्ञको वकारस्योठ् भवति; **वसोः सम्प्रसारणम्** (6.4.131) इत्यतः सम्प्रसारणानुवृत्तेः। ठकारः **एत्येधत्यूठ्सु** (6.1.89) इति विशेषणार्थः। **सम्प्रसारणाच्च** (6.1.108) इति पररूपत्वम्, **एत्येधत्यूठ्सु** (6.1.89) इति पूर्वपदाकारेण सैहकादेशो वृद्धिः॥ Praudhamanorama --------------- **ङीषो ङीबादेश इति।** 'दिक्पूर्वपदात्' इति पञ्चम्या ङीषिति प्रथमायाः षष्ठी प्रकल्प्यत इति भावः। यदि तु स्वतन्त्रो ङीप् स्यात् तर्हि प्राग्गुल्फादावपि प्रसज्येत। तत्परिहाराय पूर्वोक्तपर्युदासस्य प्रसज्यप्रतिषेधानां वाऽनुवृत्तौ गौरवमिति भावः। Prakriyasarvasvam ----------------- दिक्पूर्वपदात् ‘स्वाङ्गाच्चोपसर्जनात्’ - (४-१-५४) इत्यादिविहितङीष्- स्थाने छन्दसि ङीप् स्यात् । ‘स्वरे भेदः । पूर्वमुखी । पूर्वानुनासिकी ।