41039: वर्णादनुदात्तात्तोपधात्तो नः¶
Padacheda: वर्णात् | S | 5 | 1 |
अनुदात्तात् | S | 5 | 1 |
त-उपधात् | S | 5 | 1 |
तः | S | 6 | 1 |
नः | S | 1 | 1 |
Sutrartha¶
यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रक्रियायां च उपधातकारस्य नकारादेशः अपि भवति ।
विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमम् अक्षरम् “त” इति अस्ति; तथा च तत्र विद्यमानः अकारः अनुदात्तः अपि अस्ति; तादृशात् वर्णवाचकशब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रत्ययसन्नियोगेन च वर्णवाचकशब्दस्य उपधा-तकारस्य नकारादेशः अपि जायते — इति प्रकृतसूत्रस्य आशयः । ‘त’ इति अक्षरम् येषां वर्णवाचकशब्दानाम् अन्ते विद्यते; ते शब्दाः वर्णानां तणतिनितान्तानाम् (2.10) इति फिट्-सूत्रेण आद्युदात्ताः भवन्ति । इत्युक्ते, एतेषु विद्यमानः प्रथमः स्वरः उदात्तः जायते; तथा च सति अनुदात्तं पदमेकवर्जम् (6.1.158) इत्यनेन अन्ये सर्वे स्वराः अनुदात्तसंज्ञकाः भवन्ति । एतादृशानां शब्दानां विषये स्त्रीत्वं द्योतयितिुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं भवति; प्रक्रियायां च तकारस्य नकारादेशः अपि भवति । यथा —
हरित + ङीप् → “हरिणी” । पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “हरिता” इत्यपि सिद्ध्यति ।
एत (शुक्लवर्णः) + ङीप् → “एणी” । पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “एता” इत्यपि सिद्ध्यति ।
श्येत (शुक्लवर्णः) + ङीप् → “श्येणी” । पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “श्येता” इत्यपि सिद्ध्यति ।
रोहित (रक्तवर्णः) + ङीप् → “रोहिणी” । पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “रोहिता” इत्यपि सिद्ध्यति ।
लोहित (रक्तवर्णः) + ङीप् → “लोहिनी” । पक्षे अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्यये कृते “लोहिता” इत्यपि सिद्ध्यति ।
<note>अमरकोशे “अवदात” इति शब्दः “शुक्लवर्णः” इत्यस्मिन् अर्थे दत्तः अस्ति । वस्तुतस्तु; दैप् (शोधने) अस्माद् धातोः क्त-प्रत्यये कृते अयं शब्दः सिद्ध्यति; अतः अयं शब्दः वर्णवाची नास्ति अपितु ‘विशुद्धम्’ (polished / spotless / clean / purified / pure) इत्यस्मिन् अर्थे प्रयुज्यते । केवलम् अर्थसाधर्म्याद् एव अयं शब्दः कोशे शुक्लशब्दस्य पर्यायरूपेण दत्तः अस्ति । अतः अस्य शब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्यये कृते “अवदाता” इत्येव शब्दः सिद्ध्यति ।</note>
दलकृत्यम्
‘वर्णवाचकशब्दात्’ इति किमर्थम् ? “प्रकृत”, “प्ररुत” इत्यादिषु शब्देषु अन्तिमः स्वरः अनुदात्तः अस्ति, तथा च उपधायाम् तकारः अपि विद्यते । परन्तु एतौ वर्णवाचकशब्दौ न, अतः एतयोः विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति । एताभ्याम् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः एव भवति । प्रकृत + टाप् → प्रकृता । प्ररुत + टाप् → प्ररुता ।
‘अदन्तवर्णवाचकशब्दात्’ इति किमर्थम् ? “शिति” इति शुक्लवर्णवाचकशब्दस्य अन्ते अनुदात्तः स्वरः अस्ति परन्तु सः अकारः नास्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव भवति । “शिति” इति शब्दः तादृशः एव स्त्रीलिङ्गे अपि प्रयुज्यते ।
‘अनुदात्त-अदन्तवर्णवाचकशब्दात्’ इति किमर्थम् ? “श्वेत”, “पीत”, “रक्त” — एतादृशेषु शब्देषु अन्ते विद्यमानः अकारः घृतादीनां च (2.10) इति फिट्-सूत्रेण उदात्तः भवति । अतः एतेषां विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते “श्वेता”, “पीता”, “रक्ता” इति शब्दाः सिद्ध्यन्ति ।
वार्त्तिकद्वयम्
<!1. पिशङ्गादुपसङ्ख्यानम् !> “पिशङ्ग” इति कपिलवर्णवाचकः शब्दः । अयं तकारोपधः अपि नास्ति; अनुदात्तान्तः अपि नास्ति (अयं शब्दः मध्योदात्तः अस्ति; अतश्च अस्य अन्तिमः स्वरः स्वरितसंज्ञकः अस्ति) । अतः अस्य शब्दस्य विषये वस्तुतः प्रकृतसूत्रं नैव प्रवर्तते; अपि तु अन्यतो ङीष् (4.1.40) इत्यनेन ङीष्-प्रत्ययस्य प्राप्तिः अस्ति । परन्तु तां विकल्पेन बाधित्वा अस्य शब्दस्य विषये प्रकृतसूत्रेण ङीप्-प्रत्ययः अपि भवति — इति अस्य वार्त्तिकस्य आशयः । अतः “पिशङ्ग + ङीप् → पिशङ्गी” इति सिद्ध्यति । अस्मिन् शब्दे तकारः नास्ति अतः तत्र तकारस्य नकारादेशः अपि नैव सम्भवति; परन्तु ङीप्-प्रत्ययः अवश्यं सम्भवति इति विशेषः । पक्षे अन्यतो ङीष् (4.1.40) इत्यनेन ङीष्-प्रत्यये कृते “पिशङ्ग + ङीष् → पिशङ्गी” इति शब्दः अपि सिद्ध्यति । ङीप्-प्रत्ययस्य; ङीष्-प्रत्ययस्य च योजनेन यद्यपि समानौ एव शब्दौ सिद्ध्यतः; तथापि ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः अस्ति — अतः तयोः उच्चारणे स्वरभेदः अवश्यं विद्यते । <!2. असितपलितयोः प्रतिषेधः; तयोश्चछन्दसि क्नमित्येके !> “असित” (कृष्णवर्णः), तथा च “पलित” (जरया प्राप्तः शुक्लवर्णः , white color of hairs, caused due to old age) एतौ शब्दौ वर्णवाचकौ, तकारोपधौ, अकारान्तौ, अनुदात्तान्तौ च स्तः अतः एतयोः विषये प्रकृतसूत्रेण ङीप्-प्रत्यये; तकारस्य नकारादेशे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अतः एताभ्यां शब्दाभ्याम् केवलम् अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययः भवति येन “असिता”, “पलिता” इति शब्दौ सिद्ध्यतः । केचन पण्डिताः तु वैदिकसन्दर्भे तकारस्य “क्न” इति आदेशं कृत्वा ततः अन्यतो ङीष् (4.1.40) इति ङीष्-प्रत्ययविधानम् अपि कुर्वन्ति; येन “असित + ङीष् → असिक्नी” तथा च “पलित + ङीष् → पलिक्नी” इति शब्दौ सिद्ध्यतः । एतयोः प्रयोगः वेदेषु कृतः अस्ति । यथा “असिक्नी” इति शब्दः ऋग्वेदे 7.5.3 इत्यत्र “आयन्नसिक्नीरसमना जहतीर्भोजनानि” इति प्रयुक्तः दृश्यते । एवमेव “पलिक्नी” इति शब्दः ऋग्वेदे 5.2.4 इत्यत्र “पलिक्नीरिद्युवतयो भवन्ति” इति प्रयुक्तः अस्ति । <note>क्न-आदेशस्य विषये काशिकाकारेण <!भाषायामपीष्यते!> इति किञ्चन वाक्यम् पाठितम् अस्ति । परन्तु इदं वाक्यं भाष्ये न दृश्यते; अतः कैयटेन अस्य वाक्यस्य खण्डनम् एव कृतम् अस्ति ।</note>
Vasu English Summary¶
The affix ङीप् is optionally used after a प्रातिपदिक (Nominal Stem) expressive of colour ending with a gravely accented vowel and having the letter त् as its penultimate letter and the letter न् is substituted in the room of त्।
Vasu English Translation¶
The affix ङीप् is optionally used after a प्रातिपदिक (Nominal Stem) expressive of colour ending with a gravely accented vowel and having the letter त् as its penultimate letter and the letter न् is substituted in the room of त्। Thus of एत ‘variegated’; the feminine is एता or एनी ‘variegated’, so श्येता or श्येनी ‘black’, हरिता or हरिणी ‘green’. All these words have udatta accent on the first vowel either by Rule (6.1.197) (ञ्नित्यादिर्नित्यम् “word formed by affixes having an indicatory ञ् or न् have udatta accent on the first vowel”:) because these words are formed by the Unadi affixes तन् (Un III.86) and इतन् (III.93), or by the Phit sutra 11.10 (वर्णानां तणतिनितान्तानाम् “of words expressive of colour and ending in तण, or ति or नि or त, the udatta accent falls on the first vowel”).
Why do we say “expressive of color”? Observe प्रहृता, प्ररुता ॥ These words are also acutely accented on the first syllable, by rule (6.2.49) (गतिरनन्तरः “the first word retains its natural accent in a compound of a gati word with a word formed by the affix kta”). But as these words do not express color, their feminine does not take nip.
Why do we say “ending in a gravely accented vowel?” Observe श्वेता ‘white’. Here though the word expresses ‘color’, yet it has acute (instead of grave) accent on the final (by rule of Phit sutra I.21 घृतादीनां च “the words ghrita &c. have udatta on the final”).
Why do we say “having the letter त as its penultimate letter”? Otherwise the affix nish will be employed in forming the feminine.
The words for the application of this rule must end in the letter अ in the masculine. Otherwise this rule will not apply. As शितिर्ब्राह्मणी ‘a black Brahmani woman’. Here शिति is a word expressive of color, it has a penultimate त, has anudatta accent on the final (6.1.197) as it is formed by the affix क्तिन्; but as it does not end with अ, its feminine is not formed with nip.
Vart:- The affix hip comes also after the word पिशङ्ग; as, पिशङ्गी ‘of tawny color’.
Vart:- There is prohibition in the case of the words असित and पलित; as असिता ‘black’ and पलिता ‘grey’.
Vart:- According to some, the substitute क्नम् replaces the final of these two words असित and पलिता in the Vedic literature. As आसिक्नी (Rig Veda IX. 73.29); पलिक्नी (R. Veda V. 2.4). According to some authorities, these latter forms are valid in literature other than the Vedic:- As गतो गणस्तूर्णमसिक्निकानाम् ॥
Bhashya¶
वर्णादनुदात्तात्तोपधात्तो नः (1303) (ङीप्सन्नियोगशिष्टनकारादेशाधिकरणम्) (5163 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - असितपलितयोः प्रतिषेधः - (भाष्यम्) असितपलितयोः प्रतिषेधो वक्तव्यः। असिता, पलिता॥ (5164 विधिवार्तिकम्॥ 2 ॥) - छन्दसि क्नमेके - (भाष्यम्) छन्दसि क्नमेक इच्छन्ति। असिक्न्यस्योषधे, पलिक्नीरिद्युवतयो भवन्ति। (5165 अव्याप्तिवारकवार्तिकम्॥ 3 ॥) - वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानम् - (भाष्यम्) वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानं कर्तव्यम् -पिशङ्गी॥
Kashika¶
वेति वर्तते। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एनी॑, एता॑। श्येनी॑, श्येता॑। हरि॑णी, हरि॑ता। सर्व एत आद्युदात्ताः, वर्णानां तणतिनितान्तानाम् (फि० सू० २.१०) इति वचनात्। वर्णादिति किम्? प्रकृ॑ता। प्ररु॑ता। गतिस्वरेणाद्युदात्तः। अनुदात्तादिति किम्? श्वे॒ता। घृतादित्वात्(फि०सू०१.२१) अन्तोदात्तः। तोपधादिति किम्? अन्यतो ङीषं वक्ष्यति। अत इत्येव — शितिर्ब्राह्मणी॥ पिशङ्गादुपसंख्यानम्॥ पिशङ्गी॥ असितपलितयोः प्रतिषेधः॥ असिता। पलिता॥ छन्दसि क्नमित्येके॥ असि॑क्नी (शौ०सं० १.२३.१)। पलि॑क्नी (ऋ० ५.२.४)। भाषायामपीष्यते। गतो गणस्तूर्णमसिक्निकानाम्॥
Siddhanta Kaumudi¶
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि (SK33)) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि (SK21)) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥<!पिशङ्गादुपसङ्ख्यानम् !> (वार्तिकम्) ॥ पिशङ्गी । पिशङ्गा ॥<!असितपलितयोर्न !> (वार्तिकम्) ॥ असिता । पलिता ॥<!छन्दसि क्नमेके !> (वार्तिकम्) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥
Laghu Siddhanta Kaumudi¶
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च। एनी, एता। रोहिणी, रोहिता॥
Balamanorama¶
वर्णादनुदात्तात्तोपधात्तो नः - वर्णादनु । वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः ।वर्णा॑दित्यस्यस्वं रूपं शब्दस्ये॑ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात् । किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः । ‘त’ इति षष्ठी, तकारस्येत्यर्थः । ‘न’ इत्यत्र नकारादकार उच्चारणार्थः । नकार इत्यर्थः । तदाह — वर्णवाचीत्यादिना । तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः । एनी एतेति । ओतेत्यर्थः । एतशब्दान्ङीप्, तकारस्य नकारश्च । ङीबभावे टाबेव । नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात् । एतशब्दः ओतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः । रोहिणी रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे-रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह — वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वेअनुदात्तं पदमेकवर्जम् इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः । ननुअनुपसर्जना॑दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह — त्र्येण्येति । त्रीणि एतानि ओतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्रमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बाआलायनादिप्रणीतकल्पसूत्रविशेष उच्यते । त्र्येण्येति णत्वनमार्षम् । यजुर्वेदे तुत्रि एण्या शलल्या निवर्तयेते॑ति पठितम् । तत्र त्रीणि एतानि ओतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु ‘वर्णानां तणति’ इति ओतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह — घृतादीनाभिति । अत इत्येवेति ।अजाद्यतष्टा॑वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः । शितिः स्त्रीति । ‘शिती धवलमेचक्तौ’ इत्यमरः । पिशङ्गीति । ‘लघावन्ते’ इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते ।अन्यतो ङी॑षिति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः ।असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया चवर्णादनुदात्ता॑दिति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नीति । असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपेयस्येति चे॑त्यकारलोपः । क्न् इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि ।पलितं जरसा शौक्ल्य॑मित्यमरः । ननु ‘अवदातः सितो गौरः’ इति कोशादवदातशब्दस्य वर्णवाचित्वा॒ल्लघावन्ते॑ इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्चवर्णादनुदात्ता॑दिति ङीब्नत्वे स्यातामित्यत आह — अवदातशब्दस्त्विति ।अवदातः सिते पीते शुद्धे॑ इति कोशात् ‘दैप् शोधने’ इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । ‘अवदातः सितो गौरः’ इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः ।
Nyaas¶
वर्णानां तणितनितान्तानाम् (फि।सू।2।23) इत्यस्यायमर्थः - वर्णवाचिनां तशब्दान्तानां णकारान्तानां तिशब्दान्तानां निशब्दान्तानां चादिरुदात्तो भवतीति, आदिग्रहणमुदात्तग्रहणं च प्रकृतं तत्रानुवर्तते।प्रकृता इति। प्रकर्षेण कृतेति, कुगतिप्रादयः (2.2.18) इति समासः। प्रशब्दोऽयं निपातः, निपाता आद्युदात्ताः (फि।सू।4।80) उपसर्गाश्चाभिवर्जम् (फि।सू।4।81) इत्युदात्तः। समासेऽपि कृते गितरनन्तरः (6.2.49) इति पूर्वपदप्रकृतिस्वरेणाद्युदात्त एव भवतीति। सेषमनुदात्तम्। घृतादित्वादन्तोदात्तः इति। घृतादीनाञ्च (फि। सू।1।21।) इत्यन्तोदात्तत्वविधानात्। एतच्च फिट्सूत्रे पठते। शिति इति वर्णानाम् (फि।सू।2।33) इत्यादिना शितिशब्द आद्युदात्तः। पिशङ्गात् इत्यादि। पिशङ्गशब्दः लघावन्ते (फि।सू।2।42) इत्यादिना मध्योदात्तः, ततः अन्यतो ङीष् (41।36) इत्यतश्चकारोऽनुक्तसमुच्चयार्थोऽनुवर्तते। तेन पिशङ्गादपि ङीब्भवतीति। वक्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - मनोरौ वा (4.1.38) इत्यतो वेत्यनुवर्तते,सा च व्यवस्थितविभाषा। तेनासितपलितशब्दाभ्यां ङीष्न भविष्यत्येवेति। वर्णानां तणतिनितान्तानाम् (फि।सू।2।33) इयाद्युदात्तौ असितपलितशब्दौ।तयोश्छन्दसि इत्यादि। असितपलितशब्दयोस्तकारस्य क्नमेक आचार्या इच्छन्ति। स तु व्यत्ययो बहुलम् (3.1.85) इत्येव सिद्धः। भाषायामपीष्यते इति। एतेन प्रत्याचष्टे। असिक्निकानाम् इति। अज्ञातार्थे प्रागिवात्कः (5.3.70) इतिकः, केऽणः (7.4.13) इति ह्रस्वः॥
Praudhamanorama¶
वर्णानामिति। एतः, शोणः, शितिः, पृश्निः, पृषत् इत्युदाहरणानि। त्र्येण्येति। अत्र उत्तरपदस्योपसर्जनत्वेऽपि समस्तस्य अनुपसर्जनत्वमिति भावः। संज्ञात्वाण्णत्वं छान्दसत्वाद् वा। क्नमेके इति। अत्र छन्दसीति भाष्योक्तेर्लोके ‘गतो गणस्तूर्णमसिक्निकानाम्’ इत्यादिप्रयोगाः प्रामादिका इति प्राञ्चः। वस्तुतस्तु छन्दस्येके इत्यन्वयात् भाषायामपि इति भाष्याभिप्रेतम्। अन्यथा एकग्रहणं न कुर्यात्। न हि छन्दसि ‘पलिक्नीरिद्युवतय’ इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। विशुद्धवाचीति। दैप् शोधने इति स्मरणात्। ‘अवदात्तः सितो गौर’ इति कोशे तु विशुद्धत्वसाधर्म्यात् प्रयोग उपनिबद्ध इति भावः।
Prakriyasarvasvam¶
अनुदात्तान्ताद्वर्णवाचिनः तोपधाद्वा ङीप् स्यात् तकारस्य नश्च । एनी, एता । श्येनी, श्येता । लोहिनी लोहिता । अदन्तादेव । शितिः स्त्री । पिशङ्गाच्च । पिशङ्गी । असितपलितयोर्नेष्टम् । असिता, पलिता । अनयोस्तकारस्य क्नादेशो ङीप् चेष्टः । असिक्नी । पलिकनी ॥
Vartika¶
असितपलितयोर्न ।
Sutra Prayogas¶
हंसश्येनी (किरातार्जुनीयम्): वर्णादनुदात्तात्तोपधात्तो नः इति श्येतशब्दान्डीप् । तकारस्य च नकारः ।
कनकटङ्कपिशङ्ग्या (किरातार्जुनीयम्): पिशङ्गादुपसंख्यानम् (वार्तिकम्) इति ङीप्।
रोहिणी (भट्टिकाव्यम्): रोहितशब्दात् वर्णादनुदात्त इत्यादिना ङीप् नकारश्च।