41039: वर्णादनुदात्तात्तोपधात्तो नः
===================================
**Padacheda:** वर्णात् | S | 5 | 1 |
अनुदात्तात् | S | 5 | 1 |
त-उपधात् | S | 5 | 1 |
तः | S | 6 | 1 |
नः | S | 1 | 1 |
Sutrartha
---------
**यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रक्रियायां च उपधातकारस्य नकारादेशः अपि भवति ।**
विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं क्रियते । **यस्य वर्णवाचकशब्दस्य अन्तिमम् अक्षरम् "त" इति अस्ति; तथा च तत्र विद्यमानः अकारः अनुदात्तः अपि अस्ति; तादृशात् वर्णवाचकशब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रत्ययसन्नियोगेन च वर्णवाचकशब्दस्य उपधा-तकारस्य नकारादेशः अपि जायते** — इति प्रकृतसूत्रस्य आशयः ।
'त' इति अक्षरम् येषां वर्णवाचकशब्दानाम् अन्ते विद्यते; ते शब्दाः **वर्णानां तणतिनितान्तानाम्** (2.10) इति **फिट्-सूत्रेण** आद्युदात्ताः भवन्ति । इत्युक्ते, एतेषु विद्यमानः प्रथमः स्वरः उदात्तः जायते; तथा च सति **अनुदात्तं पदमेकवर्जम्** (6.1.158) इत्यनेन अन्ये सर्वे स्वराः अनुदात्तसंज्ञकाः भवन्ति । एतादृशानां शब्दानां विषये स्त्रीत्वं द्योतयितिुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं भवति; प्रक्रियायां च तकारस्य नकारादेशः अपि भवति । यथा —
1. हरित + ङीप् → "हरिणी" । पक्षे **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "हरिता" इत्यपि सिद्ध्यति ।
2. एत (शुक्लवर्णः) + ङीप् → "एणी" । पक्षे **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "एता" इत्यपि सिद्ध्यति ।
3. श्येत (शुक्लवर्णः) + ङीप् → "श्येणी" । पक्षे **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "श्येता" इत्यपि सिद्ध्यति ।
4. रोहित (रक्तवर्णः) + ङीप् → "रोहिणी" । पक्षे **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "रोहिता" इत्यपि सिद्ध्यति ।
5. लोहित (रक्तवर्णः) + ङीप् → "लोहिनी" । पक्षे **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "लोहिता" इत्यपि सिद्ध्यति ।
अमरकोशे "अवदात" इति शब्दः "शुक्लवर्णः" इत्यस्मिन् अर्थे दत्तः अस्ति । वस्तुतस्तु; **दैप्** (शोधने) अस्माद् धातोः क्त-प्रत्यये कृते अयं शब्दः सिद्ध्यति; अतः अयं शब्दः वर्णवाची नास्ति अपितु 'विशुद्धम्' (polished / spotless / clean / purified / pure) इत्यस्मिन् अर्थे प्रयुज्यते । केवलम् अर्थसाधर्म्याद् एव अयं शब्दः कोशे शुक्लशब्दस्य पर्यायरूपेण दत्तः अस्ति । अतः अस्य शब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "अवदाता" इत्येव शब्दः सिद्ध्यति ।
**दलकृत्यम्**
1. **'वर्णवाचकशब्दात्' इति किमर्थम् ?** "प्रकृत", "प्ररुत" इत्यादिषु शब्देषु अन्तिमः स्वरः अनुदात्तः अस्ति, तथा च उपधायाम् तकारः अपि विद्यते । परन्तु एतौ वर्णवाचकशब्दौ न, अतः एतयोः विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति । एताभ्याम् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः एव भवति । प्रकृत + टाप् → प्रकृता । प्ररुत + टाप् → प्ररुता ।
2. **'अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ?** "शिति" इति शुक्लवर्णवाचकशब्दस्य अन्ते अनुदात्तः स्वरः अस्ति परन्तु सः अकारः नास्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव भवति । "शिति" इति शब्दः तादृशः एव स्त्रीलिङ्गे अपि प्रयुज्यते ।
3. **'अनुदात्त-अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ?** "श्वेत", "पीत", "रक्त" — एतादृशेषु शब्देषु अन्ते विद्यमानः अकारः **घृतादीनां च** (2.10) इति फिट्-सूत्रेण उदात्तः भवति । अतः एतेषां विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते "श्वेता", "पीता", "रक्ता" इति शब्दाः सिद्ध्यन्ति ।
**वार्त्तिकद्वयम्**
****
"पिशङ्ग" इति कपिलवर्णवाचकः शब्दः । अयं तकारोपधः अपि नास्ति; अनुदात्तान्तः अपि नास्ति (अयं शब्दः मध्योदात्तः अस्ति; अतश्च अस्य अन्तिमः स्वरः स्वरितसंज्ञकः अस्ति) । अतः अस्य शब्दस्य विषये वस्तुतः प्रकृतसूत्रं नैव प्रवर्तते; अपि तु **अन्यतो ङीष्** (4.1.40) इत्यनेन ङीष्-प्रत्ययस्य प्राप्तिः अस्ति । परन्तु तां विकल्पेन बाधित्वा अस्य शब्दस्य विषये प्रकृतसूत्रेण ङीप्-प्रत्ययः अपि भवति — इति अस्य वार्त्तिकस्य आशयः । अतः "पिशङ्ग + ङीप् → पिशङ्गी" इति सिद्ध्यति । अस्मिन् शब्दे तकारः नास्ति अतः तत्र तकारस्य नकारादेशः अपि नैव सम्भवति; परन्तु ङीप्-प्रत्ययः अवश्यं सम्भवति इति विशेषः । पक्षे **अन्यतो ङीष्** (4.1.40) इत्यनेन ङीष्-प्रत्यये कृते "पिशङ्ग + ङीष् → पिशङ्गी" इति शब्दः अपि सिद्ध्यति । ङीप्-प्रत्ययस्य; ङीष्-प्रत्ययस्य च योजनेन यद्यपि समानौ एव शब्दौ सिद्ध्यतः; तथापि ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः अस्ति — अतः तयोः उच्चारणे स्वरभेदः अवश्यं विद्यते ।
****
"असित" (कृष्णवर्णः), तथा च "पलित" (जरया प्राप्तः शुक्लवर्णः , white color of hairs, caused due to old age) एतौ शब्दौ वर्णवाचकौ, तकारोपधौ, अकारान्तौ, अनुदात्तान्तौ च स्तः अतः एतयोः विषये प्रकृतसूत्रेण ङीप्-प्रत्यये; तकारस्य नकारादेशे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अतः एताभ्यां शब्दाभ्याम् केवलम् **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययः भवति येन "असिता", "पलिता" इति शब्दौ सिद्ध्यतः । केचन पण्डिताः तु वैदिकसन्दर्भे तकारस्य "क्न" इति आदेशं कृत्वा ततः **अन्यतो ङीष्** (4.1.40) इति ङीष्-प्रत्ययविधानम् अपि कुर्वन्ति; येन "असित + ङीष् → असिक्नी" तथा च "पलित + ङीष् → पलिक्नी" इति शब्दौ सिद्ध्यतः । एतयोः प्रयोगः वेदेषु कृतः अस्ति । यथा "असिक्नी" इति शब्दः ऋग्वेदे 7.5.3 इत्यत्र "आयन्नसिक्नीरसमना जहतीर्भोजनानि" इति प्रयुक्तः दृश्यते । एवमेव "पलिक्नी" इति शब्दः ऋग्वेदे 5.2.4 इत्यत्र "पलिक्नीरिद्युवतयो भवन्ति" इति प्रयुक्तः अस्ति ।
क्न-आदेशस्य विषये काशिकाकारेण इति किञ्चन वाक्यम् पाठितम् अस्ति । परन्तु इदं वाक्यं भाष्ये न दृश्यते; अतः कैयटेन अस्य वाक्यस्य खण्डनम् एव कृतम् अस्ति ।
Vasu English Summary
--------------------
The affix ङीप् is optionally used after a प्रातिपदिक (Nominal Stem) expressive of colour ending with a gravely accented vowel and having the letter त् as its penultimate letter and the letter न् is substituted in the room of त्।
Vasu English Translation
------------------------
The affix ङीप् is optionally used after a प्रातिपदिक (Nominal Stem) expressive of colour ending with a gravely accented vowel and having the letter त् as its penultimate letter and the letter न् is substituted in the room of त्।
Thus of एत 'variegated'; the feminine is एता or एनी 'variegated', so श्येता or श्येनी 'black', हरिता or हरिणी 'green'. All these words have *udatta* accent on the first vowel either by Rule (6.1.197) (ञ्नित्यादिर्नित्यम् "word formed by affixes having an indicatory ञ् or न् have *udatta* accent on the first vowel":) because these words are formed by the *Unadi* affixes तन् (*Un* III.86) and इतन् (III.93), or by the *Phit* *sutra* 11.10 (वर्णानां तणतिनितान्तानाम् "of words expressive of colour and ending in तण, or ति or नि or त, the *udatta* accent falls on the first vowel").
Why do we say "expressive of color"? Observe प्रहृता, प्ररुता ॥ These words are also acutely accented on the first syllable, by rule (6.2.49) (गतिरनन्तरः "the first word retains its natural accent in a compound of a *gati* word with a word formed by the affix *kta*"). But as these words do not express color, their feminine does not take *nip*.
Why do we say "ending in a gravely accented vowel?" Observe श्वेता 'white'. Here though the word expresses 'color', yet it has acute (instead of grave) accent on the final (by rule of *Phit* *sutra* I.21 घृतादीनां च "the words *ghrita* &c. have *udatta* on the final").
Why do we say "having the letter त as its penultimate letter"? Otherwise the affix *nish* will be employed in forming the feminine.
The words for the application of this rule must end in the letter अ in the masculine. Otherwise this rule will not apply. As शितिर्ब्राह्मणी 'a black *Brahmani* woman'. Here शिति is a word expressive of color, it has a penultimate त, has *anudatta* accent on the final (6.1.197) as it is formed by the affix क्तिन्; but as it does not end with अ, its feminine is not formed with *nip*.
Vart:- The affix *hip* comes also after the word पिशङ्ग; as, पिशङ्गी 'of tawny color'.
Vart:- There is prohibition in the case of the words असित and पलित; as असिता 'black' and पलिता 'grey'.
Vart:- According to some, the substitute क्नम् replaces the final of these two words असित and पलिता in the Vedic literature. As आसिक्नी (*Rig* *Veda* IX. 73.29); पलिक्नी (*R*. *Veda* V. 2.4). According to some authorities, these latter forms are valid in literature other than the Vedic:- As गतो गणस्तूर्णमसिक्निकानाम् ॥
Bhashya
-------
वर्णादनुदात्तात्तोपधात्तो नः (1303) (ङीप्सन्नियोगशिष्टनकारादेशाधिकरणम्) (5163 अतिव्याप्तिवारकवार्तिकम्॥ 1 ॥) - असितपलितयोः प्रतिषेधः - (भाष्यम्) असितपलितयोः प्रतिषेधो वक्तव्यः। असिता, पलिता॥ (5164 विधिवार्तिकम्॥ 2 ॥) - छन्दसि क्नमेके - (भाष्यम्) छन्दसि क्नमेक इच्छन्ति। असिक्न्यस्योषधे, पलिक्नीरिद्युवतयो भवन्ति। (5165 अव्याप्तिवारकवार्तिकम्॥ 3 ॥) - वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानम् - (भाष्यम्) वर्णान्ङीब्विधाने पिशङ्गादुपसंख्यानं कर्तव्यम् -पिशङ्गी॥
Kashika
-------
वेति वर्तते। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एनी॑, एता॑। श्येनी॑, श्येता॑। हरि॑णी, हरि॑ता। सर्व एत आद्युदात्ताः, **वर्णानां तणतिनितान्तानाम्** (फि० सू० २.१०) इति वचनात्। वर्णादिति किम्? प्रकृ॑ता। प्ररु॑ता। गतिस्वरेणाद्युदात्तः। अनुदात्तादिति किम्? श्वे॒ता। घृतादित्वात्(फि०सू०१.२१) अन्तोदात्तः। तोपधादिति किम्? अन्यतो ङीषं वक्ष्यति। अत इत्येव — शितिर्ब्राह्मणी॥ पिशङ्गादुपसंख्यानम्॥ पिशङ्गी॥ असितपलितयोः प्रतिषेधः॥ असिता। पलिता॥ छन्दसि क्नमित्येके॥ असि॑क्नी (शौ०सं० १.२३.१)। पलि॑क्नी (ऋ० ५.२.४)। भाषायामपीष्यते। गतो गणस्तूर्णमसिक्निकानाम्॥
Siddhanta Kaumudi
-----------------
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि (SK33)) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि (SK21)) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥ (वार्तिकम्) ॥ पिशङ्गी । पिशङ्गा ॥ (वार्तिकम्) ॥ असिता । पलिता ॥ (वार्तिकम्) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥
Laghu Siddhanta Kaumudi
-----------------------
वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च। एनी, एता। रोहिणी, रोहिता॥
Balamanorama
------------
**वर्णादनुदात्तात्तोपधात्तो नः** - वर्णादनु । वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः ।वर्णा॑दित्यस्यस्वं रूपं शब्दस्ये॑ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात् । किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः । 'त' इति षष्ठी, तकारस्येत्यर्थः । 'न' इत्यत्र नकारादकार उच्चारणार्थः । नकार इत्यर्थः । तदाह — वर्णवाचीत्यादिना । तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः । एनी एतेति । ओतेत्यर्थः । एतशब्दान्ङीप्, तकारस्य नकारश्च । ङीबभावे टाबेव । नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात् । एतशब्दः ओतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः । रोहिणी रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे-रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह — वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वेअनुदात्तं पदमेकवर्जम् इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः । ननुअनुपसर्जना॑दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह — त्र्येण्येति । त्रीणि एतानि ओतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्रमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बाआलायनादिप्रणीतकल्पसूत्रविशेष उच्यते । त्र्येण्येति णत्वनमार्षम् । यजुर्वेदे तुत्रि एण्या शलल्या निवर्तयेते॑ति पठितम् । तत्र त्रीणि एतानि ओतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु 'वर्णानां तणति' इति ओतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह — घृतादीनाभिति । अत इत्येवेति ।अजाद्यतष्टा॑वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः । शितिः स्त्रीति । 'शिती धवलमेचक्तौ' इत्यमरः । पिशङ्गीति । 'लघावन्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते ।अन्यतो ङी॑षिति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः ।असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया चवर्णादनुदात्ता॑दिति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नीति । असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपेयस्येति चे॑त्यकारलोपः । क्न् इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि ।पलितं जरसा शौक्ल्य॑मित्यमरः । ननु 'अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वा॒ल्लघावन्ते॑ इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्चवर्णादनुदात्ता॑दिति ङीब्नत्वे स्यातामित्यत आह — अवदातशब्दस्त्विति ।अवदातः सिते पीते शुद्धे॑ इति कोशात् 'दैप् शोधने' इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । 'अवदातः सितो गौरः' इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः ।
Nyaas
-----
`वर्णानां तणितनितान्तानाम्` (फि।सू।2।23) इत्यस्यायमर्थः - वर्णवाचिनां तशब्दान्तानां णकारान्तानां तिशब्दान्तानां निशब्दान्तानां चादिरुदात्तो भवतीति, आदिग्रहणमुदात्तग्रहणं च प्रकृतं तत्रानुवर्तते।`प्रकृता` इति। प्रकर्षेण कृतेति, **कुगतिप्रादयः** (2.2.18) इति समासः। प्रशब्दोऽयं निपातः, `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। समासेऽपि कृते `गितरनन्तरः` (6.2.49) इति पूर्वपदप्रकृतिस्वरेणाद्युदात्त एव भवतीति। सेषमनुदात्तम्। `घृतादित्वादन्तोदात्तः` इति। `घृतादीनाञ्च` (फि। सू।1।21।) इत्यन्तोदात्तत्वविधानात्। एतच्च फिट्सूत्रे पठते। `शिति` इति `वर्णानाम्` (फि।सू।2।33) इत्यादिना शितिशब्द आद्युदात्तः। `पिशङ्गात्` इत्यादि। पिशङ्गशब्दः `लघावन्ते` (फि।सू।2।42) इत्यादिना मध्योदात्तः, ततः `अन्यतो ङीष्` (41।36) इत्यतश्चकारोऽनुक्तसमुच्चयार्थोऽनुवर्तते। तेन पिशङ्गादपि ङीब्भवतीति। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - **मनोरौ वा** (4.1.38) इत्यतो वेत्यनुवर्तते,सा च व्यवस्थितविभाषा। तेनासितपलितशब्दाभ्यां ङीष्न भविष्यत्येवेति। `वर्णानां तणतिनितान्तानाम्` (फि।सू।2।33) इयाद्युदात्तौ असितपलितशब्दौ।`तयोश्छन्दसि` इत्यादि। असितपलितशब्दयोस्तकारस्य क्नमेक आचार्या इच्छन्ति। स तु **व्यत्ययो बहुलम्** (3.1.85) इत्येव सिद्धः। `भाषायामपीष्यते` इति। एतेन प्रत्याचष्टे। `असिक्निकानाम्` इति। अज्ञातार्थे **प्रागिवात्कः** (5.3.70) इतिकः, `केऽणः` (7.4.13) इति ह्रस्वः॥
Praudhamanorama
---------------
**वर्णानामिति।** एतः, शोणः, शितिः, पृश्निः, पृषत् इत्युदाहरणानि। **त्र्येण्येति।** अत्र उत्तरपदस्योपसर्जनत्वेऽपि समस्तस्य अनुपसर्जनत्वमिति भावः। संज्ञात्वाण्णत्वं छान्दसत्वाद् वा। **क्नमेके इति।** अत्र छन्दसीति भाष्योक्तेर्लोके 'गतो गणस्तूर्णमसिक्निकानाम्' इत्यादिप्रयोगाः प्रामादिका इति प्राञ्चः। वस्तुतस्तु छन्दस्येके इत्यन्वयात् भाषायामपि इति भाष्याभिप्रेतम्। अन्यथा एकग्रहणं न कुर्यात्। न हि छन्दसि 'पलिक्नीरिद्युवतय' इत्यादिप्रयोगेषु कश्चिद्विप्रतिपद्यते। **विशुद्धवाचीति।** दैप् शोधने इति स्मरणात्। 'अवदात्तः सितो गौर' इति कोशे तु विशुद्धत्वसाधर्म्यात् प्रयोग उपनिबद्ध इति भावः।
Prakriyasarvasvam
-----------------
अनुदात्तान्ताद्वर्णवाचिनः तोपधाद्वा ङीप् स्यात् तकारस्य नश्च । एनी, एता । श्येनी, श्येता । लोहिनी लोहिता । अदन्तादेव । शितिः स्त्री । पिशङ्गाच्च । पिशङ्गी । असितपलितयोर्नेष्टम् । असिता, पलिता । अनयोस्तकारस्य क्नादेशो ङीप् चेष्टः । असिक्नी । पलिकनी ॥
Vartika
-------
असितपलितयोर्न ।
Sutra Prayogas
--------------
* **हंसश्येनी** (किरातार्जुनीयम्): `वर्णादनुदात्तात्तोपधात्तो नः` इति श्येतशब्दान्डीप् । तकारस्य च नकारः ।
* **कनकटङ्कपिशङ्ग्या** (किरातार्जुनीयम्): `पिशङ्गादुपसंख्यानम्` (वार्तिकम्) इति ङीप्।
* **रोहिणी** (भट्टिकाव्यम्): `रोहितशब्दात् वर्णादनुदात्त` इत्यादिना ङीप् नकारश्च।