41038: मनोरौ वा¶
Padacheda: मनोः | S | 6 | 1 |
औ | S | | | 1
वा | S | 0 | 0 |
Sutrartha¶
‘मनु’ इति शब्दात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः, तत्सन्नियोगेन च प्रकृतेः उदात्तः ऐकारादेशः अथवा औकारादेशः विधीयते ।
“मनुः” इति प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् विकल्पेन ङीप्-प्रत्ययः विधीयते; तथा च ङीप्-आदेशे कृते प्रक्रियायाम् “मनु”-शब्दस्य उकारस्य विकल्पेन उदात्तसंज्ञकः ऐकारादैशः, पक्षे च औकारादेशः भवति । अस्य सूत्रस्य प्रयोगः केवलं पुंयोगे एव भवति । इत्युक्ते, मनोः पत्न्याः निर्देशार्थम् एव इदं सूत्रं प्रयुज्यते, न हि “मनुः” इत्याख्यायाः स्त्रियः निर्देशार्थम् । प्रक्रियायाम् ङीप्-प्रत्ययविधानपक्षे ऐकारादेशे कृते “मन् ऐ + ङीप् → मन् ऐ + ई → मनायी”, तथा च औकारादेशे कृते “मन् औ + ङीप् → मन् + औ + इ →मनावी” इति द्वौ शब्दौ सिद्ध्यतः । ङीप्-प्रत्ययस्य अभावपक्षे कोऽपि आदेशः अपि न भवति, अतः “मनुः” इत्येव शब्दः अपि सिद्ध्यति । अनेन प्रकारेण “मनोः स्त्री = मनायी, मनावी, मनुः” इति त्रीणि रूपाणि सम्भवन्ति । प्रकृतसूत्रे पूर्वस्मात् सूत्रात् “ऐ” तथा “उदात्तः” इति द्वयोः शब्दयोः अनवृत्तिरूपेण ग्रहणं भवति । अतः अत्र विहितः ऐकारादेशः उदात्तसंज्ञकः एव विधीयते । “मनु” शब्दे मूलरूपेण मकारोत्तरः अकारः उदात्तः अस्ति । प्रकृतसूत्रेण उदात्तसंज्ञक-ऐकारस्य आदेशे कृते, तस्य स्थाने जायमानः आकारः अपि उदात्तसंज्ञां स्वीकरोति; अतः “मनायी” इति शब्दे नकारोत्तरः आकारः उदात्तसंज्ञां प्राप्नोति; अन्यौ द्वौ स्वरौ अनुदात्तसंज्ञकौ भवतः । ऐकारादेशस्य अभावे आदेशरूपेण विधीयमानः औकारः तु उदात्तः नास्ति; अतः अन्ते निर्मिते “मनावी” शब्दे तु “मनु”-शब्दसदृशः मकारोत्तरः अकारः एव उदात्तसंज्ञकः वर्तते ।
वार्त्तिकम् — <!त्रिसूत्री पुंयोगे एव !>
प्रकृतसूत्रम्, तथा च तस्मात् पूर्वं विद्यमाने द्वे सूत्रे — पूतक्रतोरै च (4.1.36), तथा च वृषाकप्यग्निकुसितकुसिदानामुदात्तः (4.1.37) — इति त्रीणि सूत्राणि केवलं पुंयोगे एव स्त्रीप्रत्ययं विदधति — इति अस्य वार्त्तिकस्य अर्थः । पुंलिङ्गवाचिनि शब्दे गुणस्य आरोपणं कृत्वा ततः ‘तस्य पत्नी’ इत्यस्मिन् अर्थे स्त्रीप्रत्ययस्य विधानम् — इति पुंयोगः नाम्ना ज्ञायते । यथा, प्रकृतसूत्रस्य सन्दर्भे मनोः पत्नी — इत्यस्य निर्देशार्थम् एव ङीप्-प्रत्ययः भवति; अतः अत्र “मनोः पत्नी मनायी, मनावी, मनुः” इति वाक्यं दीयते । या स्त्री स्वयं “मनुः” इति नाम्ना ज्ञायते, तस्याः निर्देशार्थम् तु प्रकृतसूत्रं नैव प्रयुज्यते — यतः तत्र पुंयोगस्य निर्देशः नास्ति । अतः तत्र “इयं मनुः” इत्येव निर्देशः सम्भवति । अन्ययोः द्वयोः सूत्रयोः विषये अपि एतादृशमेव ज्ञेयम् ।
Vasu English Summary¶
In forming the feminine with the affix ङीप् , औ is optionally the substitute of the final मनु (as well as the उदात्त ऐ).
Vasu English Translation¶
In forming the feminine with the affix ङीप् , औ is optionally the substitute of the final मनु (as well as the उदात्त ऐ). The phrases ऐ and उदात्त are understood. The force of वा is to make the substitution optional. Thus we have three forms, मनायी or मनावी or मनुः, all meaning ‘the wife of Manu’. The word मनु has udatta accent on the first vowel, as it is formed from मन् by the affix उ (Un l. 10), which by Un I.9 is treated as having an indicatory म्, and affixes having indicatory न् throw the accent on the first syllable. (6.1.197)
Kashika¶
ऐ उदात्त इति वर्तते। मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्चोदात्तः। वाग्रहणेन द्वावपि विकल्प्येते। तेन त्रैरूप्यं भवति। मनोः स्त्री मना॑यी॒ (मै० सं० १.८.६)। म॒नावी॑ (काठ०सं० ३०.१)। मनुः॑। मनुशब्द आद्युदात्तः॥
Siddhanta Kaumudi¶
मनुशब्दस्यौकारादेशः स्यादुदात्त ऐकारश्च वा ताभ्यां सन्नियोगशिष्टो ङीप् च । मनोः स्त्री मनावी । मनायी । मनुः ॥
Balamanorama¶
मनोरौ वा - मनोरौ वा । ऐ चेति, उदात्त इति, ङीबिति चानुवर्तते । तदाह — मनुशब्दस्येति । उदात्तैकारश्च वेति । औकारः, उदात्त एकारश्च वा स्यादित्यर्थः । ‘उदात्तैकार’ इति समासनिर्देशादुदात्त इत्यौकारेण न संबध्यत इति सूचितम्, एतच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारान्ङीप् एकारौकाराभ्यां समुच्चीयते । तदाह — ताभ्यामिति । एकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाऽभावपक्षे ङीबपि नेति लभ्यते,संनियोगशिष्टानां सह वा प्रवृत्तिः॑ सह वा निवृत्तिः॑ इति परिभाषावशादिति भावः । इयं तु परिभाषापूतक्रतोरै चे॑ति सूत्रभाष्ये स्थिता । मनायीति ।यद्वै किं च मनुरवद॑दित्यादौ मनुशब्दः ‘ञ्नित्यादिनित्यम्’ इत्याद्युदात्तः । ‘धान्ये नित्’ इत्यतो निदित्यनुवृत्तौशृस्वृस्निही॑त्यादिना मनेरुप्रत्ययविधेः । ततश्च सिष्टस्वरेण नकारादुकारोऽनुदात्तः । तस्य स्थाने उदात्त ऐकारः, तस्यायादेशो ङीप् चेति भावः । मनावीति । अत्रौकारोऽनुदात्त एव । मनुरिति । ऐकारस्य औकारस्य चाऽभावे तत्संनियोगशिष्टो ङीबपि नेत्युक्तमेव ।
Padamanjari¶
ऐकारश्चोदात इति । औकारस्त्वनुदात एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात् । मनुशब्द आद्यौदात इति ।’मन ज्ञाने’ ,’मृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः’ इति वर्तमाने’धान्ये नित्’ इति च,’शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च’ इति उप्रत्ययः, नित्वादाद्यौदातत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्गुः, न्यङ्क्वादिपाठात् कुत्वम् - प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः - इति द्वितीयस्य ॥
Nyaas¶
वाग्रहणेन द्वावपि विकल्प्येते इति। प्रत्येकं वाग्रहणेनाभिसम्बन्धात्। यदा चैकारौकारौ न भवतस्तदा ङीबपि न भवति ; तस्य सन्नियोगशिष्टत्वात्। मनुशब्द आद्युदात्तः इति। एतेनोदात्तग्रहणमनुवर्तयितव्यम्; अन्यथा शेषस्यानुदात्तत्वे स्थानिवद्भावेनादेशस्याप्यनुदात्तत्वं स्यादिति भावः। मन ज्ञाने (धातुपाठः-1176) {भृमृशीतृचरित्सरितनिममस्ज्भ्य उः - द।उ।}भृमृशीतृचरित्सरितनिधनिमिमस्ज्भ्य उः (द।उ।1।92) इत्यनुवर्ताने धान्ये नित् (द।उ।1।94) इति च शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमानिभ्यश्च (द।उ।1।95) इत्युप्रत्ययः, नित्वात् ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वं भवति मनुशब्दस्य॥
Prakriyasarvasvam¶
मनोरौत्वङीपौ प्राग्वदैत्वङीपौ च वा स्तः । विकल्पात्केवलश्च । मनोः स्त्री मनावी, मनायी, मनुः ॥
Sutra Prayogas¶
मानवी (भट्टिकाव्यम्): मनोरौ वा इत्यौकारः।