41016: यञश्च ============ **Padacheda:** यञः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः **ङीप्** प्रत्ययः प्रकृतसूत्रेण पाठ्यते । **यञ्-प्रत्ययान्त-प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति** — इति अस्य सूत्रस्य आशयः । ****गर्गादिभ्यो यञ्** (4.1.105) इत्यनेन सूत्रेण गर्गादिगणस्य शब्देभ्यः यः यञ्-प्रत्ययः पाठ्यते, तस्य विषये इदं सूत्रं प्रवर्तते** । यथा, **गर्गादिभ्यो यञ्** (4.1.105) इत्यनेन "गर्ग"-शब्दात् गोत्रापत्यस्य निर्देशार्थम् यञ्-प्रत्यये कृते, तत्र स्त्रीत्वं द्योतयितुम् **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । प्रक्रिया इयम् — .. code-block:: text गर्गस्य गोत्रापत्यं स्त्री → गर्ग + यञ् + ङीप् [**गर्गादिभ्यो यञ्** (4.1.105) इति यञ् । ततः स्त्रीत्वं द्योतयितुम् **यञश्च** (4.1.16) इति ङीप्] → गार्ग + य + ई [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → गार्ग् + य + ई [**यस्येति च** (6.4.148) इति गकारोत्तस्य अकारस्य लोपः] → गार्ग् + य् + ई [**यस्येति च** (6.4.148) इति यकारोत्तस्य अकारस्य लोपः] → गार्ग + ० + ई [**हलस्तद्धितस्य** (6.4.150) इति यकारलोपः] → गार्गी एवमेव "वत्सस्य गोत्रापत्यं स्त्री = वात्सी" इत्यपि सिद्ध्यति । **वार्त्तिकम् — ** प्रकृतसूत्रेण उक्तः ङीप्-प्रत्ययः केवलम् **तस्यापत्यम्** (4.1.92) इत्यस्य अधिकारे पाठितस्य यञ्-प्रत्ययस्य विषये एव भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. **द्वीपादनुसमुद्रं यञ्** (4.3.10) इत्यनेन उक्तस्य यञ्-प्रत्ययस्य विषये इसं सूत्रं नैव प्रयुज्यते । अतएव "द्वीपे भवा" इत्यस्मिन् अर्थे "द्वीप"-शब्दात् **द्वीपादनुसमुद्रं यञ्** (4.3.10) इत्यनेन यञ्-प्रत्यये कृते ततः **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्ययः एव भवति । "द्वीपे भवा सा द्वैप्या" । 2. "देवस्य अपत्यम् स्त्री" इत्यस्मिन् अर्थे "देव"-शब्दात् इति वार्त्तिकेन यञ्-प्रत्यये कृते ततः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रम् नैव प्रयुज्यते, यतः इति वार्तिकम् **दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः** (4.1.85) इत्यस्मिन् सूत्रे पाठितम् अस्ति, तत् सूत्रम् च अपत्याधिकारे नैव विद्यते । अतएव "देवस्य अपत्यम् स्त्री" इत्यत्र यञ्-प्रत्ययान्तात् **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "दैव्या" इत्येव शब्दः सिद्ध्यति । **योगविभागः उत्तरार्थः** वस्तुतः प्रकृतसूत्रेण पृथग् रूपेण पाठितस्य यञ्-प्रत्ययस्य **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति पूर्वस्मिन् सूत्रे एव निर्देशः भवितुम् अर्हतु । परन्तु अग्रिमसूत्रे **प्राचां ष्फ तद्धितः** (4.1.17) इत्यत्र केवलम् "यञ्" इत्यस्यैव अनुवृत्तिः इष्यते, अतः यञ्-प्रत्ययः प्रकृतसूत्रे पृथग् रीत्या निर्दिष्टः दृश्यते । यञ्-प्रत्ययस्य भिन्नसूत्रेण निर्देशः उत्तरसूत्रे अनुवर्तनार्थम् — इति आशयः । **बाध्यबाधकभावः** 1. **गर्गादिभ्यो यञ्** (4.1.105) इत्यस्मिन् सूत्रे निर्दिष्टे गर्गादिगणे विद्यमानानाम् "लोहित" इत्यस्मात् आरभ्य "कत" इति (प्रायेण उपत्रिंशत्) शब्दानां विषये यञन्तात् प्रातिपदिकात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा **सर्वत्र लोहितादिकतन्तेभ्यः** (4.1.18) इत्यनेन ष्फ-प्रत्ययः भवति । प्राचाम् आचार्याणां मतेन तु गर्गादिगणस्य सर्वेषाम् एव शब्दानां विषये ङीप्-प्रत्ययं बाधित्वा यञन्तात् "ष्फ" इत्येव प्रत्ययः विधीयते, इति **प्राचां ष्फ तद्धितः** (4.1.17) इत्यनेन सूत्रेण उच्यते । 2. **आवट्याच्च** (4.1.75) इत्यनेन "आवट्य" इति यञन्तशब्दात् प्रकृतसूत्रेण उक्तं ङीप्-प्रत्ययं बाधित्वा चाप्-प्रत्ययः भवति । Vasu English Summary -------------------- The affix ङीप् is used in denoting the feminine after a प्रातिपदिक (Nominal Stem) ending in यञ् -- गर्गादिभ्यो यञ् (4.1.105). Vasu English Translation ------------------------ The affix ङीप् is used in denoting the feminine after a प्रातिपदिक (Nominal Stem) ending in यञ् -- गर्गादिभ्यो यञ् (4.1.105). Thus गार्ग्य + ङीप् = गार्ग्य + ई (6.4.148) = गार्ग् + ई (6.4.150) = गार्गी 'a female descendant of *Garga*'; so also वात्सी ॥ Vart:- This rule applies when the affix यञ् denotes a descendant, and not otherwise. Therefore ई will not be applied to form the feminine of द्वैप्य of द्वीप् + यञ् (4.3.10). Its feminine will be द्वैप्या 'a living on or relating to an island'. The separation of this *sutra* from the last, (for the affix यञ् could well have been included in the same), is for the sake of the subsequent aphorisms; in which the *anuvritti* of यञ् only runs and not of others. Bhashya ------- यञ्ञश्च (1290) (ङीबधिकरणम्) (5146 आक्षेपवार्तिकम् ॥ 1 ॥) - आपत्यग्रहणं द्वीपाद्यञ्ञः प्रतिषेधार्थम् - (भाष्यम्) आपत्यग्रहणं कर्तव्यम्, द्वीपाद्यञ्ञः प्रतिषेधार्थम्। इह मा भूत् -द्वैप्येति। तत्तर्हि वक्तव्यम्॥ (समाधानभाष्यम्) न वक्तव्यम्। नैवं विज्ञायते -कञ्ञ्व्करपो यञ्ञश्चेति। कथं तर्हि? कञ्ञ्व्करपोऽयञ्ञश्चेति॥ Kashika ------- ङीबित्येव। यञन्ताच्च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी॥ आपत्यग्रहणं कर्तव्यम्॥ इह मा भूत् — **द्वीपादनुसमुद्रं यञ्** (४.३.१०) — द्वैप्या। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥ Laghu Siddhanta Kaumudi ----------------------- यञन्तात् स्त्रियां ङीप्स्यात्। अकारलोपे कृते - Balamanorama ------------ **यञश्च** - यञश्च । यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह — यञन्तादिति । यद्यपिटिड्ढाणञि॑ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं 'तथापि ष्फ तद्धितः' इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थेगर्गादिभ्यो यञि॑ति यञ्, आदिवृद्धिः,यस्येति चे॑ति गकारादकारस्य लोपः । गाग्र्यशब्दान्भीपिहलस्तद्धितस्ये॑ति यकारलोपात्परत्वात्यस्येति चे॑ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः । Tattvabodhini ------------- **यञश्च** - यञश्च । योगविभाग उत्तरार्थः ।प्राचां ष्फ तद्धितः॑इत्यत्र यञ एवानुवृत्तिर्यथा स्यात् । Padamanjari ----------- आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥ Nyaas ----- `गार्गी। वात्सी` इति। गर्गवत्सशब्दाभ्यां स्त्रियामपत्ये **गर्गादिभ्यो यञ्** (4.1.105) इति यञ्, ङीप्, **यस्येति च** (6.4.148) इत्यकारस्य लोपः, **हलस्तद्धितस्य** (6.4.150) इति यकारस्य च।`अपत्यग्रहणं कर्तव्यम्` इति। अपत्यं गृह्रते येन तदपत्यग्रहमम्। व्याख्यानमेतदुक्तं भवति - तथा व्याख्यानं कर्तव्यं यथा यञो विशेषणमपत्यं गृह्रेत्। तत्रेदं व्याख्यानम् - उत्तरसूत्रे विकल्पार्थं प्राचामिति वचनमनेनापि योगेन सम्बध्यते,व्यवस्थितविभाषा च सा विज्ञायते, तेनापत्येऽर्थे यो यञ् विहितस्तदन्तान्नित्यं भवति, यस्तु द्वीपशब्दाज्जातादावर्थे विहितदन्तान्न भवतीति। अथ योगविभागः किमर्थः? न पूर्वसूत्र एव अञ्ग्रहणं क्रियेतेत्यत आह - `योगविभाग उत्तरार्थः` इति। उत्तरसूत्रे यञन्तादेव ष्फो यथा स्यात्, टिदादिभ्यो माभूदिति॥ Prakriyasarvasvam ----------------- यञन्ताद् ङीप् स्यात् । 'यस्य—' (६-४-१४८) इति लोपे 'हलस्तद्धितस्य' (६-४-१५०) इति यलोपः । गार्गी । अनपत्याद् यञो न ङीप् । द्वीपे भवा द्वैप्या ॥ Vartika ------- आपत्यग्रहणं कर्तव्यम् ।