41014: अनुपसर्जनात् =================== **Padacheda:** अनुपसर्जनात् | S | 5 | 1 | Sutrartha --------- **इतः परम् **यूनस्तिः** (4.1.77) इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः उपसर्जनसंज्ञकेभ्यः प्रातिपदिकेभ्यः नैव विधीयन्ते ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे उपस्थितम् इदम् अपरम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः **यूनस्तिः** (4.1.77) इति सूत्रपर्यन्तं वर्तते । **अस्मिन् अधिकारे पाठिताः स्त्रीप्रत्ययाः उपसर्जनसंज्ञकेभ्यः शब्देभ्यः नैव भवन्ति** — इति अस्य सूत्रस्य अर्थः । "उपसर्जनम्" इत्यस्य मूलः अर्थः **अप्रधानः** इति अस्ति । **प्रकृतसूत्रस्य सन्दर्भे तु "उपसर्जनम्" इति शब्देन बहुव्रीहिसमासस्य उत्तरपदस्य निर्देशः क्रियते** । अतः **इतः परम् पाठिताः स्त्रीप्रत्ययाः बहुव्रीहिसमासेन निर्मितेभ्यः शब्देभ्यः नैव भवन्ति**— इति अस्य सूत्रस्य सरलः अर्थः । त्रीणि उदाहरणानि एतादृशानि — 1. **जातेरस्त्रीविषयादयोपधात्** (4.1.63) इति सूत्रेण जातिवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते । अतः "कुक्कुट" इत्यस्मात् जातिवाचकशब्दात् स्त्रीत्वे ङीष्-प्रत्यये कृते "कुक्कुटी" इति शब्दः सिद्ध्यति । परन्तु अयं ङीष्-प्रत्ययः "बहवः कुक्कुटाः अस्याः" अत्र न भवति, यतः अत्र 'कुक्कुट' शब्दः उपसर्जनसंज्ञकः (बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः) अस्ति । अतः "बहवः कुक्कुटाः अस्याः" इत्यत्र **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्यये कृते "बहुकुक्कुटा" इति शब्दः सिद्ध्यति । 2. **यूनस्तिः** (4.1.77) इत्यनेन "युवन्"-शब्दात् "ति"-प्रत्यये कृते "युवति" इति शब्दः सिद्ध्यति । इदं सूत्रम् अपि **अनुपसर्जनात्** (4.1.14) इत्यस्य अधिकारे विद्यते, अतः अस्य सूत्रस्य विषये अपि तदन्तविधिः न प्रवर्तते । अतएव "बहवः युवानः यस्यां (पाठशालायाम्)" इत्यत्र **यूनस्तिः** (4.177) इत्यनेन ति-प्रत्ययः न भवति; अपितु, अत्र **डाबुभाभ्यामन्यतरस्याम्** (4.1.13) इत्यनेन डाप्-प्रत्यये कृते "बहुयुवा (शाला)" इति शब्दः सिद्ध्यति । 3. **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति सूत्रेण अण्-प्रत्ययान्तशब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विधीयते । अत्र निर्दिष्टः अण्-प्रत्ययः **कर्मण्यण्** (3.2.1) इति सूत्रेण कर्मणि-उपपदस्य उपस्थितौ भिन्नेभ्यः धातुभ्यः सम्भवति । यथा, "कुम्भम् करोति" इत्यस्मिन् अर्थे "कुम्भम्" इति उपपदस्य उपस्थितौ "कृ"-धातोः अण्-प्रत्यये कृते "कुम्भकार" इति शब्दः **उपपदमतिङ्** (2.2.19) इति सूत्रेण उपपदसमासं कृत्वा सिद्ध्यति । उपपदसमासः उत्तरपदार्थप्रधानः, अतः "कुम्भकार" इत्यत्र "कार" इति अण्-प्रत्ययान्तम् उत्तरपदम् प्रधानम् अस्ति , न हि उपसर्जनसंज्ञकम् । अस्यां स्थितौ अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतश्च "कुम्भकार" इति समस्तपदस्य विषये अपि "ङीप्" इति स्त्रीप्रत्ययः भवितुम् अर्हति, येन "कुम्भकारी" इति शब्दः सिद्ध्यति । परन्तु, अग्रे "बहवः कुम्भकाराः अस्याः" इति बहुव्रीहिसमासे कर्तव्ये तत्र विद्यमानः अण्-प्रत्ययान्तः "कुम्भकार" शब्दः बहुव्रीहिसमासस्य उत्तरपदरूपेण विद्यमानः, अतश्च उपसर्जनसंज्ञकः अस्ति अतः अत्र **टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः** (4.1.15) इति सूत्रं नैव प्रवर्तते, अपि तु **अजाद्यतष्टाप्** (4.1.4) इत्यनेन टाप्-प्रत्यये कृते "बहुकुम्भकारा" इति शब्दः सिद्ध्यति । **तदन्तविधिः** वस्तुतस्तु, **येन विधिस्तदन्तस्य** (1.1.72) इत्यत्र पाठितेन इति प्रातिपदिकेन प्रत्ययविधानस्य समये तदन्तविधेः प्रतिषेधः कृतः अस्ति । अपि च, **ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति** इत्यनया परिभाषया अपि प्रत्ययविधानसमये प्रातिपदिकस्य तदन्तविधिः प्रतिषिध्यते । अतः, "कुक्कुट" इत्यस्मात् शब्दात् **जातेरस्त्रीविषयादयोपधात्** (4.1.63) इति सूत्रेण प्राप्तः ङीप्-प्रत्ययः "बहवः कुक्कुटाः अस्याः" इत्यत्र मूलरूपेणैव न सम्भवति । अस्यां स्थितौ, प्रकृतसूत्रेण बहुव्रीहिसमासस्य विषये उक्तः स्त्रीप्रत्ययस्य निषेधः सम्पूर्णरूपेण व्यर्थः भवति । अयमेव निषेधः व्यर्थः सन् ज्ञापयति, यत् **स्त्रीप्रत्ययप्रकरणे तदन्तविधिः अवश्यं प्रयुज्यते** इति । किञ्च, **अजाद्यतष्टाप्** (4.1.4) इत्यस्मिन् सूत्रे पाठिते अजादिगणे विद्यमानम् **क्षुद्रा चामहत्पूर्वा जातिः** इति गणसूत्रम् अपि अनेनैव प्रकारेण स्त्रीप्रत्ययप्रकरणे तदन्तविधेः उपस्थितिं स्पष्टीकरोति । अतएव "बहवः कुक्कुटाः अस्याः" इत्यत्रापि तदन्तविधिना **जातेरस्त्रीविषयादयोपधात्** (4.1.63) इत्यनेन कुक्कुट-शब्दात् ङीष्-प्रत्ययः अवश्यं सम्भवति । अस्य बाधनार्थम् प्रकृतसूत्रम् इदानीं चारितार्थ्यं प्राप्नोति । **'उपसर्जनम्' शब्दस्य अर्थः** अष्टाध्याय्याम् "उपसर्जनम्" इति शब्दः द्वयोः अर्थयोः प्रयुज्यते — (अ) **प्रथमानिर्दिष्टं समास उपसर्जनम्** (1.2.43) इत्यनेन सूत्रेण "उपसर्जनम्" इति काचित् व्याकरणविशिष्टा संज्ञा पाठ्यते । अस्याः संज्ञायाः प्रयोगः समासप्रकरणे **उपसर्जनं पूर्वम्** (2.2.30) इत्यस्मिन् सूत्रे कृतः अस्ति । (आ) समासे विद्यमानयोः द्वयोः पदयोः यत् गौणं पदम्, तस्य निर्देशः अपि "उपसर्जनम्" इति शब्देन भवति । **गोस्त्रियोरुपसर्जनस्य** (1.2.48), **स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्** (4.1.54), **वोपसर्जनस्य** (6.3.82) इत्यादिषु सूत्रेषु अस्मिन् अर्थे उपसर्जनशब्दस्य प्रयोगः कृतः दृश्यते । **प्रकृतसूत्रे विद्यमानः उपसर्जनशब्दः द्वितीये अर्थे (गौणपदस्य निर्देशार्थम्) प्रयुक्तः अस्ति** । बहुव्रीहिसमासः अन्यपदार्थप्रधानः, अतः तत्र द्वे अपि पदे गौणपदे एव स्तः । अतः तत्र गौणसंज्ञकात् उत्तरपदात् तदन्तविधिना स्त्रीप्रत्ययस्य प्राप्तौ सत्याम्, तस्याः निषेधार्थम् प्रकृतसूत्रं निर्मितम् अस्ति । तत्पुरुषसमासे द्वन्द्वसमासे च प्रायेण उत्तरपदं गौणं नास्ति (प्रधानमेव वर्तते), अतः तयोः विषये उपसर्जनसंज्ञकात् स्त्रीप्रत्ययः नैव सम्भवति । अव्ययीभावसमासेन तु अव्ययसंज्ञकशब्दाः सिद्ध्यन्ति अतः तस्य विषये अपि प्रकृतसूत्रं नैव प्रवर्तते । अनेन प्रकारेण प्रामुख्येण बहुव्रीहिसमासस्य विषये एव प्रकृतसूत्रस्य उदाहरणानि वर्तन्ते । कुत्रचित् तत्पुरुषसमासः अपि पूर्वपदार्थप्रधानः अस्ति, परन्तु प्रकृतसूत्रस्य व्याख्यानेषु तादृशानि उदाहरणानि न दत्तानि सन्ति । Vasu English Summary -------------------- The following rules apply to a प्रातिपदिक (Nominal Stem) which is not a subordinate term in a compound. Vasu English Translation ------------------------ The following rules apply to a प्रातिपदिक (Nominal Stem) which is not a subordinate term in a compound. This is an *adhikara* aphorism pure and simple, and has governing force upto (4.1.77): and prohibits the application of affixes to '*upasarjanas*'. That is to say, whatever we shall treat of hereafter, is to be understood to apply to such terms only, which are not *upasarjana* or a subordinate term in a compound. (1.2. 43). Thus the next *sutra* declares "the affix *nip* is added in forming the feminine after what ends in short अ, if the affix with which it ends has an indicatory ट्, &c." Thus the word कुरुचर is formed by the affix ट (111.) 2.16), and ends in अ. The feminine of this word will be formed by ङीप् as कुरुचरी, similarly मद्रचर—f मद्रचरी । But if these words being the last members of a compound, are treated as *upasarjana* (1.2. 43), then they will not take the affix ङीप् in the feminine. Now in a *Bahuvrihi* compound, all the component members are *upasarjana*, (2.2.35); therefore, the feminine of such compounds will not take ङीप् ॥ Thus, बहुकुरुचरा or बहुमद्रचरा मधुरा ॥ Similarly (4.1.63) says, "the affix ङीप् is added after words denoting *jati*" as, कुक्कुठी, शुकरी ॥ But where these words are *upasarjana*, '*nish*' will not be added : as, बहुकुक्कुटा बहुशूकरा मधुरा ॥ As a general rule, *tadanta*-*vidhi* (1.1.7) does not apply to compounds; but the present *sutra* indicates by implication that the *tadanta*-*vidhi* applies to compounds for the purposes of the application of feminine affixes. For had it not been so, there would have been no necessity of making the present *sutra* ; for a rule applicable to a simple word as such, would not have applied to it when it was part of a compound-- whether subordinate (*upasarjana*), or principal (*pradhana*). But the present *sutra* indicates that the *tadanta*-*vidhi* does apply, if the word does not become a subordinate member, but is regarded as the principal member, of a compound. The feminine of कुम्भकार or नगरकार will be कुम्भकारी or नगरकारी, in as much as the second member here is *pradhana* : the word '*kumbha*-*kara*' being formed by अण् (III, 2.1), and thus making it possible to apply ङीप् by (4.1.15). The affix अण् referred to in the next *sutra* refers to the *krit*-affix अण् (3.2.1), as well as to the *Taddhita* affix अण् ॥ Bhashya ------- अनुपसर्जनात् (1288) (तदन्तविधिज्ञापनाधिकरणम्) (आक्षेपभाष्यम्) अनुपसर्जनादिति किमर्थम्? (प्रयोजनभाष्यम्) बहुकुरुचरा मथुरा, प्रियकुरुचरा मथुरा। (प्रत्याक्षेपभाष्यम्) नैतदस्ति प्रयोजनम्। कुरुचरशब्दात्प्रत्ययो विधीयते। तत्र कः प्रसङ्गो यद्वहुकुरुचरशब्दात्स्यात्? नैव प्राप्नोति -नार्थः प्रतिषेधेन॥ (समाधानभाष्यम्) तदन्तविधिना प्राप्नोति॥ अत उत्तरं पठति - (5133 पूर्वपक्षवार्तिकम्॥ 1 ॥) - अनुपसर्जनग्रहणमनर्थकं प्रातिपदिकेन तदन्तविधिप्रतिषेधात् - (भाष्यम्) अनुपसर्जनग्रहणमनर्थकम्॥ किं कारणम्? प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ (5134 सिद्धान्तवार्तिकम्॥ 2 ॥) - ज्ञापकं तु पूर्वत्र तदन्ताप्रतिषेधस्य - (भाष्यम्) एवं तर्हि ज्ञापयत्याचार्यः -पूर्वत्र तदन्तविधिप्रतिषेधो न भवतीति॥ (ज्ञापनप्रयोजनभाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? भवती, अतिभवती, महती, अतिमहतीत्यत्र तदन्तविधिः सिद्धो भवति॥ नैतदस्ति प्रयोजनम्। उक्तमेतत् -वर्णोप्युगित्, प्रत्ययोऽप्युगित्, प्रातिपदिकमप्युगिदिति॥ (ज्ञापनप्रयोजनभाष्यम्) इदं तर्हि -बहुधीवरी, बहुपीवरीति॥ एतदपि नास्ति प्रयोजनम्। अत्राप्युक्तम् -रविधाने बहुव्रीहेरुपसंख्यानं प्रतिषिद्धत्वात् इति॥ (ज्ञापनप्रयोजनभाष्यम्) इदं तर्हि -अतिधीवरी, अति पीवरी॥ (5135 उपसर्जनपदार्थबोधकवार्तिकम्॥ 3 ॥) - पूर्वसूत्रनिर्देशो वाऽऽपिशलमधीत इति - (भाष्यम्) पूर्वसूत्रनिर्देशो वा पुनरयं द्रष्टव्यः। पूर्वसूत्रेऽप्रधानस्योपसर्जनमिति संज्ञा क्रियते। यावद् ब्रूयात्प्रधानादुत्पत्तव्यमप्रधानान्नेति, तावदनुपसर्जनादिति॥ किं प्रयोजनम्? आपिशलमधीते ब्राह्मणी -आपिशला ब्राह्मणी। अणन्तादितीकारो मा भूदिति॥ (अन्वयबोधकभाष्यम्) अथानुपसर्जनादित्युच्यमाने कस्मादेवात्र न भवति? अणन्तं ह्येतदनुपसर्जनम्। नानुपसर्जग्रहणेनाणन्तं विशेष्यते -अणन्तादनुपसर्जनादिति॥ किं तर्हि? अणेव विशेष्यते। अण्योऽनुपसर्जनमिति॥ (5136 अनुपसर्जनस्य गृह्यमाणविशेषणत्वे दोषवार्तिकम्॥ 4 ॥) - जातिशब्देभ्यस्त्वतिप्रसङ्गः - (भाष्यम्) जातिशब्देभ्यस्त्वतिप्रसङ्गो भवति -अवन्ती, कुन्ती, गान्धारी॥ (5137 दोषाभावोपपादकवार्तिकम्॥ 5 ॥) - सिद्धं तु जातेरनुपसर्जनत्वात् - (भाष्यम्) सिद्धमेतत्। कथम्? अनुपसर्जनादित्युच्यते। न च जातिरुपसर्जनम्॥ (वार्तिकान्यथासिद्धिभाष्यम्) एतदपि नास्ति प्रयोजनम्। स्त्रियामिति वर्तते। तेनाणं विशेषयिष्यामः -स्त्रियां योऽण्विहित इति॥ (अभ्युपेत्यवादेन दोषभाष्यम्) एवमपि काशकृत्स्निना प्रोक्ता मीमांसा -काशकृत्स्नी, काशकृत्स्नीमधीते -काशकृत्स्ना ब्राह्मणी, अत्र प्राप्नोति॥ (दोषाभावोपपादकभाष्यम्) नैष दोषः। अध्येत्र्यामभिधेयायामण ईकारेण भवितव्यम्। यश्चात्राध्येत्र्यामभिधेयायामणुक्तः, लुप्तः सः। यश्च श्रूयते, उत्पन्नस्तस्मादीकार इति कृत्वा पुनर्न भविष्यति॥ (सूत्रप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - प्रधानेन तदन्तविधिर्यथा स्यात् -कुम्भकारी, नगरकारी। अत्र हि प्रत्ययग्रहणे यस्मात्स तदादेर्ग्रहणं भवतीति -अवयवादुत्पत्तिः प्राप्नोति। (प्रयोजनाक्षेपभाष्यम्) कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति -संघातादुत्पत्तिर्भविष्यति। (प्रत्याक्षेपभाष्यम्) कृद्ग्रहण इत्युच्यते, न चैतत्कृद्ग्रहणम्। कृदकृद्ग्रहणमेतत् -कृदप्ययमण्, तद्धितोऽपि॥ (सूत्रानुपयोगप्रदर्शकभाष्यम्) एवं तर्हि -ःईकारान्तेन समासो भविष्यति। (सूत्रोपयोगप्रदर्शकभाष्यम्) यद्येवं लभ्येत, कृतं स्यात्। तत्तु न लभ्यते। किं कारणम्? अत्र हि गतिकारकोपपदानां कृदि्भः सह समासो भवतीति समास एव तावद्भवति। समासे च कृते, अवयवादुत्पत्तिः प्राप्नोति॥ अवयवादुत्पत्तौ सत्यां को दोषः? कौम्भकारेयो न सिद्धयति -अवयवस्य वृद्धिस्वरौ स्याताम्। तस्मादनुपसर्जनाधिकारः॥ (5138 पूर्वपक्षवार्तिकम्॥ 6 ॥) - अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानम् - (भाष्यम्) अनुपसर्जनाधिकारे जातेर्ङीष्विधाने सुर्पण्या उपसंख्यानं कर्तव्यम् -सुपर्णी॥ (5139 सिद्धान्तवार्तिकम्॥ 7 ॥) - न वा समासस्यानुपसर्जनत्वाज्जातिवाचकत्वाच्च शब्दस्य सामान्येन ङीष्विधानम् - (भाष्यम्) न वा एष दोषः। किं कारणम्? समासस्यानुपसर्जनत्वात्। समासोऽत्रानुपसर्जनम्। स च जातिवाचकः। समासस्यानुपसर्जनत्वात्तस्य च जातिवाचकत्वाच्छब्दस्य सामान्येन ङीष् भविष्यति -जातेरस्त्रीविषयादयोपधात् (4.1.63) इति॥ (वार्तिकोपसंहारभाष्यम्) कथं कृत्वा चोदितम्? कथं कृत्वा परिहारः? बहुव्रीहिरिति कृत्वा चोदितम्। तत्पुरुष इति कृत्वा परिहारः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थाध्यायस्य प्रथमे पादे प्रथममाह्निकम्॥ Kashika ------- अधिकारोऽयम्। उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति। यदित ऊर्ध्वमनुक्रमिष्यामोऽनुप — सर्जनादित्येवं तद् वेदितव्यम्। वक्ष्यति — **टिड्ढाणञ्०** (४.१.१५) इति ङीप्। कुरुचरी। मद्रचरी। अनुपसर्जनादिति किम्? बहुकुरुचरा, बहुमद्रचरा मधुरा। **जातेः०** (४.१.६३) इति ङीष्। कुक्कुटी। शूकरी। अनुपसर्जनादिति किम्? बहुकुक्कुटा, बहुशूकरा चैतद् — अस्त्यत्र प्रकरणे तदन्तविधिरिति। तथा च प्रधानेन तदन्तविधिर्भवति। कुम्भकारी। नगरकारी। न चाणिति कृद्ग्रहणम् तद्धितोऽप्यणस्ति ॥ Siddhanta Kaumudi ----------------- अधिकारोऽयं यूनस्तिः (SK531) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥ Tattvabodhini ------------- **अनुपसर्जनात्** - टिड्ढाण्ञ् । टिड्ढादयः प्रत्ययास्तैः तदन्तं गृह्रते, तच्चाऽनुवर्तमानस्यप्रातिपदिकस्य विशेषणम् ।अजाद्यतः॑इतिसूत्रादनुवर्तमानमप्यत इत्येतत् प्रातिपदिकविशेषणम् । अतएव तदन्तविधिरतो व्याचष्टेटुदन्तं प्रातिपदिक॑मिति व्याख्यानं सङ्गच्छत एव ।स्तनन्धयी॑त्यत्र तु प्रत्ययस्य टित्त्वाभावेऽपि धातोष्टित्त्वस्याऽचरितार्थत्वात्समुदायात्स्यादेव ङीबिति वक्ष्यति । अन्ये तु — ढादय एव प्रत्ययाःस टिदिति तु प्रत्ययाऽप्रत्ययसाधारणं, तेन टिद्यात्प्रतिपदिकं ढाद्यन्तं च यत्प्रातिपदिकमित्यर्थः । टित्त्वं तु प्रातिपदिकस्य क्वचित्स्वतः, क्वचित्प्रतिकृतं भवति, अवयवधर्मस्य समुदाये उपचारात् । तत्र आद्यस्योदाहरणम् -कुरुचरीति । द्वितीयस्योदहारणं — नदडिति । पचादिषुटितोऽस्य पाठात्स्वत एव टित्त्वम् । तृतीयन्तुधेटष्टित्त्वात्स्तनन्धयी॑ति कृदन्ते उदाहरिष्यतीत्याहुः । कुरुचरीति । कुरुषु चरतीत्यधिकरणोपपदेचरेष्टः॑इति कर्तरि टः । उपसर्जनत्वान्नेहेति । बहवः कुरुचरा सा यास्यां सा बहुकुरुचरेति बहुब्राईहिरिन्यपदार्थप्रधानास्तथा च टुजन्तस्योपसर्जनत्वान्ङीन्बेत्यर्थः । वक्ष्यमाणेति । ब्राऊञो लृटिलृटः सद्वे॑ति शनच् ।ब्राउवो वचि॑रिति वच्यादेशः ।वच परिभाषणे॑इत्यस्मात्कर्मणि वा लृटः शानच् ।स्यतासी॑इति स्यः । कुत्वषत्वे ।आने मुक्इति मुक् । टित्त्वादुगित्त्वाच्चेति । स्थानिवद्भावेनेत्यर्थः । न चाऽल्विधित्वात्कथमिह स्थानिवद्भाव इति शङ्क्यम्,न ल्यपि॑इति ज्ञापकादनुबन्धकार्येषुअनल्विधौ॑इति निषेधस्याऽप्रवृत्तेः । अतएवरमया॑मित्यादौ परत्वान्ङेरामि कृते स्थानिवद्भावेनाऽऽमो ङित्वात्याडापः॑इति याडागमः सिध्यति । ज्ञापनान्न भवतीति । लिङादेशपरस्मैपदानां स्थानिवद्भावेनैव ङित्त्वालाभात्तदागमस्य यासुटो ङित्त्वं व्यर्थं सत्लाश्रयानुबन्धकार्यमादेशानां ने॑ति सामान्यतो ज्ञापयतीति भावः ।पिच्च ङिन्ने॑त्यदादिगणे वक्ष्यमाणत्वात्तिबादिष्वौपदेशिकेन पित्त्वेनातिदेशिकं ङित्त्वं बाध्यत इति यासुटो ङित्त्वास्य वैयथ्र्याऽभावान्न तज्ज्ञापयतीति शङ्कमानं प्रत्याह — श्नः शानच शित्त्वेनेत्यादि । सौपर्णेयीति ।कद्रूश्च वै सुपर्णी॑ति श्रुतिः । सुपर्णीशब्दादपत्येऽर्थेसमाया यः॑ढश्छन्दसी॑ति विहितस्तयोरेव ढयोग्र्रहणेन भवितव्यं न तु ढकः । सत्यम् । शिलाया ढस्य स्वभावान्नपुंसक एव पर्वृत्तेः स्त्रियामसंभवात् । सभाया ढस्य चसभेयी॑ति स्त्रियां छन्दसि प्रयोगाऽदर्शमनादन्यस्य हि निरनुन्धस्याऽसम्भवादगत्या सानुबन्धको गृह्रते । ऐन्द्रीति । इन्द्रो देवता अस्याः ।साऽस्य देवते॑त्यण् ।इन्द्रस्येयमिति वा विग्रहः ।तस्येद॑मित्यण् । अत्र व्याचक्षते -॒कृद्धहणे गतिकारकपूर्वस्ये॑त्यस्य प्रवृत्त्यभाषेऽपि अण्णन्तस्य प्रातिपदिकविशेषणातदन्तान्तमपि गृह्रत इति कुम्भकारशब्दान्ङीप्स्यादेव । अस्तु वा कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दादेव ङीप्, तथापिकुम्भकारी॑ति रूपं सिध्यत्येव । न च कारशब्दान्ङीपि तदन्तात्स्त्रीभ्यो ढक्इति ढक्प्रत्यये कौम्भकारेयो न सिध्येदिति वाच्यम्, अनुपसर्जनस्त्रीप्रत्यये तदादिनियमाऽभावात्तत्सिद्धेः । नापि नियमाऽभावेकारी॑शब्दात्कदाचिड्ढकिकुम्भकारेय॑इति रूपं स्यादिति शङ्क्यम् ।समर्थः पदविधि ॑रिति वक्ष्यमाणत्वेनाऽसमर्थधात्तद्धितानुत्पत्तेरिति मनोरमायान्तु इह सूत्रेऽनेकं वाक्यं, तत्राऽनुपसर्जनमण्, तस्य योऽकारस्तदन्तादिति व्याख्यानान्नेह — आपिशलमधीते आपिशला ब्राआहृणीति । अत्र हि प्रोक्तर्थे योऽण्श्रीयमाणः, स उपसर्जनम् । यस्तु प्रधानोऽध्येत्रण्प्रोक्ताल्लुक्इति स लुप्तः । वर्णप्राधान्यान्न प्रत्ययलक्षणमतष्टाबेव भवतीति स्थितम् । नन्वेवमापिशलेति रूपसिद्द्यर्थमनुपसर्जनग्रहणस्यावश्यकत्वेन सामर्थ्योपक्षयात्कथमेतस्य तदन्तविधिज्ञापकेति चेत्; अत्राहुः — स्वरितत्वप्रतिज्ञयी अधिकारोऽयमित्यधिकारत्वाश्रयणादनुपसर्जनग्रहणं व्यर्थम् । अञन्तस्याद्युदात्तत्वेन ङीम्ङीनो स्वरे विशेषाऽभावात् । मैवम् । उत्सस्यापत्यं स्त्री ओत्सीत्यत्राऽञन्तलक्षणं ङीपं बाधित्वा परत्वाज्जातिलक्षणे ङीषि प्राप्ते तद्बाधनार्थं तस्यावश्यकत्वात् । न चैवंशाङ्र्गरवाद्यञः॑इति ङीनास सिद्धमिदं रूपमित्यञ्ग्रहमिह न कर्तव्यमिति वाच्यं, तत्रजाते॑रित्यनुवृत्तेः । अन्यथा शाङ्र्गरवस्य स्त्री शाङ्र्गरवी, औत्सस्य स्त्री औत्सीत्यादौ पुंयोगेऽपि परत्वान्ङीन्स्यान्न तु ङीष् । इष्यते तु पुंयोगे ङीषेव । तस्माद्भवाद्यर्थस्य जातित्वेनाऽपरिभाषणाद्भावाद्यर्थे ङीबर्थमिहाप्यञ्ग्रहणमावश्यकमेवेति दिक् । ऊरुद्वयसीत्यादि । ऊरू प्रमाणमस्याः सा ।प्रमाणे द्वयसज्दन्घञ्मात्रचः॑ । यद्यत्रन लोके॑ति सूत्रे तृन्नितिवद्द्वयसजिति मात्रचश्चकारेण प्रत्याहारो गृह्रते, तदा दन्घञ्माक्पज्ग्रहणमिहाऽकर्तुं शक्यम् । पञ्चतयीति । पञ्चावयवा अस्याः ।सङ्ख्याया अवयवे तयप् । आक्षिकीति ।तेन दीव्यती॑ति ठक् । लावणिकीति । लवणं पण्यमस्याः ।लवणाट्ठञ् । ठक्ठञोर्मेदेनोपादानं ठन्निवृत्त्यर्थम्, तेनेह न, — दण्डोऽस्त्यस्याः सा दण्डिका ।अत इनी॑ति ठन् । अतएव ञिठन्तेऽपि न ङीप् । काशिषु भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ । यादृशीति ।त्यदादिषु दृश॑इति कञ् ।आ सर्वनाम्नः॑इत्याकारः । इत्वारीति । एति तच्छीला ।इण्नशजिसर्तिभ्यः क्वरप् ।ह्रस्वस्य पिति कृति तुक् । क्वरपोऽन्यतरानुबन्धोपादानं स्पष्टार्थम् । एकेनैव वरचो व्यावृत्तिसिद्धेः ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑इति भारविः । तत्रस्थेशमासे॑ति वरच् ।ईआरी॑ति तु त्रेधा । पुंयोगलक्षणे ङीष्यन्तोदात्त मेकम्,ईच्चोपधायाः॑इत्यनुवृत्तौअश्नोतेराशुकर्मणि वर॑ङित्यौणादिके वरटि टित्त्वान्ङीपि मध्योदात्तमपरम्, ईशेः क्वनपि वनिपि वा ङीब्राआयोराद्युदात्तदमन्यत् । ताच्छीलिकेति । अयं भावः -॒शीलं॒॑छात्रादिभ्यो णः॑इति विहितो यो णस्तस्मिन्नण्कार्यं भवति,कार्मस्ताच्छील्ये॑इति ज्ञापकात् । तत्र हिअ॑न्नित्यणि विहितं प्रकृतिभावं बाधितुं टिलोपो निपात्यते, यदि तु णप्रत्यये अण्कार्यं न स्यात्तर्हि किं तेन । ताच्छीलिके एवाऽण्कार्यज्ञापनान्नेह, -दण्डः प्रहरणमस्यां क्रीडायां दाण्डा ।तदस्यां प्रहरण॑मिति णः ।छत्रादिभ्योऽ॑णित्येव सूत्रमस्तु किमनया कुसृष्टएति तु बहवः । चौरीति । चुरा शीलमस्याः ।नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसख्यानम् । नञ्स्नञ् । वृत्तिकृता त्वत्रात्यख्युन्ग्रहणं सूत्रे प्रक्षिप्यक्वरप्ख्युना॑मिति पठितम्, तच्च भाष्यविरुद्धमित्युत्तरत्र स्फुटीभविष्यति । स्त्रैणी पौंस्नीति ।स्त्रीपुंसाभ्या॑मिति नञ्स्नञौ । शाक्तीकीति । शक्तिः प्रहरणमस्याः ।शक्तियष्टओरिकक् । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेत्यर्थेआढसुभगे॑त्यादिना कृञः ख्युन् ।युवो॑रित्यनादेशः ।अरुर्द्विष॑दिति मुम् । तरुणी । तलुनीति । तरुणतलिनयोरुनन्प्रत्ययान्तत्वेन नित्त्वादाद्युदात्तता । सैव ङीपि । ङीषि त्वन्तोदात्ततेति । Padamanjari ----------- प्रसज्यप्रतिषेधोऽयमित्याह - उतरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात् पूर्वपदस्योपसर्जनत्वात्, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृतत्वात् । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति - टिड्ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः - वक्ष्यति टिड्ढाणञित्येतावान् ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह - ङीबिति । एवं जातेरिति ङीष् इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन्'वक्ष्यति' इत्यनुषङ्गः । कुरुचरीति ।'चरेष्टः' बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः । कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः - बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्वादजातित्वाच्चाप्रसङ्गः । तथा हि - टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा - नदट्, चोरडिति; किञ्चित्ववयवटित्वद्वारेण । यत्र ह्यवयवटित्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः - स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचितद्धितष्ट।लुट।लुलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्वमिति कुरुचरशब्द एव टित्, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति - तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत् -यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा ठुगितश्चऽ इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह - ज्ञापितं चैतदिति ।'शूद्रा चामहत्पूर्वा' इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज् ज्ञापितमुतरत्रापि परिपालनीयमित्याह - तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप् प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्, न त्वणन्तात्कुम्भकारशब्दात् । ज्ञापकातु ततोऽपि भवतीत्यर्थः । ननु च कृद्ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह - न चाणिति । कृद्ग्रहणमिति । किं कारणमित्यत्राह - तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पतौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा - ष्यङ्न्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्; तथा कारशब्दादप्युत्पतौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात् । अथ ब्रूयाः - कारीशब्देन कुम्भशब्दः समसिष्यते,'स्त्रीभ्यो ढक्' इत्यत्र च'ङ्याप्प्रातिपदिकात्' इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्यब्ग्रहणामुवृत्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृतेः सौपर्णेय इतिवत् कारीशब्दादपि स्यात् ।'गतिकारकोपदानाम्' इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युतरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पतौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ?'स्त्रीप्रत्यये चानुपसर्जने न' इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युतरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा - औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पतौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगातदादिनियमाभावाच्च समुदायादेव ढगभविष्यति । यद्वा - कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुतरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उतरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति,'न षट्स्वस्रादिभ्यः' - प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत् - पूर्वत्रोपातं तदन्तं वा'स्त्रियाम्' इत्यनेन विशेष्यते,'टिड्ढाणञ्' इत्यादिषूपातेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृतेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते । नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृतेः ठजाद्यतष्टाप्ऽ इति टाप्प्रसङ्गात् । अतो विशेषणविशे,यभावं प्रति कामचारात् ठजाद्यतष्टप्ऽ इत्यत्र'टिड्ढाणञ्' इत्यादौ चोपातं स्त्रीत्वेन विशेष्यते,'वनो र च' इत्यादावुपातं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येततु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्तते । अपर आह - लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, ठिञश्चऽ इत्यण्, ततोऽध्येत्र्याम्'तदधीते' इत्यण्, तस्य'प्रोक्ताल्लुक्' इति लुक् आपिशिला ब्राह्मणी, अत्र ठिञश्चऽ इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वातदन्तान्ङीब् न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृतेः स्यादेव ङीप् प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः - अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति - यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब् भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब् न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात् । प्रत्ययलक्षणेनापि न भवति, अणाअकारस्य विशेषणात् ।'टिड्ठाणञ्' इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात् प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमितए ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात् ! ननु स्त्रियामित्यनुवृतेनाणं विशेषयिष्यामः - योऽण् स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि'प्रोक्ताल्लुक्' इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद् ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ॥ Praudhamanorama --------------- **अभिव्याप्येति।** अत एव बहुयुवा शालेत्यत्र 'यूनस्तिः' उपसर्जनत्वान्नेति प्राञ्च आहुः। Prakriyasarvasvam ----------------- इतः परमनुपसर्जनभूतेभ्य एव प्रत्यय उच्यते । Sutra Prayogas -------------- * **यथावृद्धपुरस्सरा** (कुमारसम्भवम्): `अनुपसर्जनात्` इत्यधिकारान्न ङीप्। * **दुःशासनपुरःसराम्** (किरातार्जुनीयम्): `अनुपसर्जनात्` इति न ङीप्।