41006: उगितश्च ============== **Padacheda:** उगितः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **उगिदन्तात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।** **स्त्रियाम्** (4.1.3) इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु **ङीप्** इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य प्रातिपदिकस्य अन्ते उक्-प्रत्याहारस्य वर्णः विद्यते, तस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति । उक् = उ, ऊ, ऋ, ॠ, ऌ उदाहरणानि एतानि — 1. "पठ्"-धातोः "क्तवतुँ"-प्रत्यये कृते "पठितवत्" इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । पठितवत् + ङीप् → पठितवती । 2. "भवत्" इति सर्वनामसंज्ञकः शब्दः सर्वादिगणे "भवतुँ" इति इत्संज्ञक-उकारेण सह निर्दिष्टः अस्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । भवत् + ङीप् → भवती । 3. "कृ"-धातोः "शतृँ"-प्रत्यये कृते "कुर्वत्" इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते । कुर्वत् + ङीप् → कुर्वती । 4. "भू"-धातोः "शतृँ"-प्रत्यये कृते "भवत्" इति प्रातिपदिकं सिद्ध्यति । अस्मात् प्रातिपदिकात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः विधीयते; ततश्च प्रक्रियायाम् **शप्श्यनोर्नित्यम्** (7.1.81) इत्यनेन नुमागमः अपि भवति, येन "भवन्ती" इति प्रातिपदिकं सिद्ध्यति । **तदन्तविधि** **येन विधिस्तदन्तस्य** (1.1.72) इत्यत्र विद्यमानेन इति वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते । तथापि तत्रैव पाठितेन इति वार्त्तिकेन उगिद्ग्रहणस्य विषये तदन्तविधेः पुनर्विधानम् कृतम् अस्ति । किञ्च, **अजाद्यतष्टाप्** (4.1.4) इत्यत्रापि **स्त्रीप्रत्ययप्रकरणे ग्रहणवता प्रातिपदिकेन तदन्तविधिः भवति** इति निर्णयः भाष्यकारेण दत्तः अस्ति । अतः **प्रकृतसूत्रस्य विषये तदन्तविधिः अवश्यमेव प्रवर्तते** । अतएव "भवन्तम् अतिक्रान्ता" इत्यस्मिन् अर्थे इति वार्त्तिकेन तत्पुरुषसमासे कृते तत्र भवत्-शब्दस्य उगित्त्वं स्वीकृत्य तस्मात् प्रकृतसूत्रेण अवश्यं ङीप् प्रत्ययः भवति — "अति + भवत् + ङीप् → अतिभवती" । **वार्त्तिकम् — ** प्रकृतसूत्रे काशिकाकारेण तथा च इति द्वे वार्त्तिके पाठिते स्तः । **अष्टाध्याय्याः सूत्रेषु "उगित्"-शब्देन कृतः निर्देशः "अञ्चुँ"-धातुं विहाय अन्येषाम् धातूनां ग्रहणं न करोति ** — इति अस्य वार्त्तिकस्य अर्थः । अतएव, "उखायां स्रंसते सा" इत्यत्र **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति सूत्रेण स्रंसुँ-धातोः क्विप्-प्रत्यये कृते, "उखास्रत्" इति प्रातिपदिके जाते, तस्मात् स्त्रीत्वे विवक्षिते, यद्यपि स्रंसुँ-धातुः उगित् अस्ति, तर्ह्यपि प्रकृतसूत्रम् नैव प्रयुज्यते; अतश्च ङीप्-प्रत्ययः नैव भवति अपितु "उखास्रत् ब्राह्मणी" इत्येव प्रयोगः दृश्यते । एवमेव, "पर्णानि ध्वंसते सा = पर्ण + ध्वंसुँ + क्वि्प → पर्णध्वत् ब्राह्मणी" इत्यत्रापि प्रकृतसूत्रस्य प्रयोगः न भवति । "अञ्चुँ"-धातोः विषये तु इदं सूत्रम् अवश्यमेव प्रयुज्यते, अतएव "प्राञ्चति सा" इत्यत्र "प्र + अञ्च् + क्विन्" इति स्थिते, क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपे जाते "प्र + अञ्च्" इत्यस्याम् अवस्थायाम् अञ्च्-धातोः उगित्त्वात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः अवश्यं भवति, येन "प्र + अञ्च् + ङीप् → प्राची" इति शब्दः सिद्ध्यति । एवमेव "प्रति + अञ्च् + ङीप् → प्रतीची" इत्यत्रापि स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः प्रयुज्यते । एते एव द्वे वार्तिके सिद्धान्तकौमुद्याम् **धातोश्चेद् उगित्कार्यं तर्हि अञ्चतेः एव** इति वाक्येन निर्दिष्टे स्तः । पाणिनिना **उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति सूत्रे "उगित्" शब्देन सह "अचाम्" इति कृतः निर्देशः एव अस्य ज्ञापकम् अस्ति इति अत्र दीक्षितः स्पष्टी करोति । अयमेव विषयः भाष्ये अपि निर्दिष्टः दृश्यते — धातोः उगितः प्रतिषेधः वक्तव्यः । उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी । अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम् । प्राची, प्रतीची ॥ उगिति अञ्ञ्चतिग्रहणाद् अधातोः सिद्धम् । अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेः एव उगितः धातोः, नान्यस्य उगितः धातोः, इति ॥ —महाभाष्यम् Sutrartha (English) ------------------- प्रातिपदिकानि which end with इत्संज्ञक उक् letter get the ङीप्-प्रत्यय to indicate the feminine property. Vasu English Summary -------------------- And after what has an indicatory उक् (उ , ऋ or ऌ) the affix ङीप् is used denoting a feminine. Vasu English Translation ------------------------ And after what has an indicatory उक् (उ , ऋ or ऌ) the affix ङीप् is used denoting a feminine. The उक् is a *pratyahara* meaning उ, ऋ and ऌ । Wherever it is possible to make these letters indicatory, in whatever way it may be, that word-form is called उगित् । That which ends with such a word is meant here. A *pratipadika* pure and simple, not formed by an affix, may be उगित्, thus the pronoun भवतु among the *sarvanamas*: an affix may be उगित् as the affixes क्तवतु and शतृ, and therefore, the words formed by these affixes will be उगित्; similarly a letter may be उगित् as तृ meaning त् in (6.4.127), ("तु is the substitute of the final of an inflective base ending in अर्वन् &c") Thus, भवत् 'honored' sir.—f. भवती 'madam'. Applying the rule of *tadantavidhi*, we have अतिभवत्-अतिभवती 'most exalted lady'. Similarly पचत् (formed by adding शतृ (3.2.124)), forms the feminine पचन्ती, the नुम् comes by (7.1.82). So also यजनी 'a female sacrificing'; अर्वत् अर्वती 'a mare'. Vart:- Prohibition must be stated in the case of verbal roots having an indicatory '*uk*'. Thus the roots स्रंसु 'to fall down', ध्वंसु 'to fall down' have indicatory उ; and we get from these roots, the *pratipadikas* like उखास्रत् and पर्णध्वत्,(3.2.76). The उखास्रत् ब्राह्मणी, पर्णध्वत् ब्राह्मणी ॥ Here, the feminine is not formed by adding ङीप् । Vart:- The *pratipadikas* ending with the verb '*anchu*', however, take the affix ङीप् । As, प्राची, प्रती़ही, उदीची ॥ Bhashya ------- उगितश्च (1280) (तदन्तविध्यभावे दोषप्रतिपादकं भाष्यम्) कथमिदं विज्ञायते - उगितः प्रातिपदिकादिति, आहो स्विदुगिदन्तात्प्रातिपदिकादिति? किं चातः? यदि विज्ञायते उगितः प्रातिपदिकादिति, सिद्धम् -भवती, महतीति। अतिभवती, अतिमहतीति न सिध्यति॥ तदन्तविधिना भविष्यति। ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते॥ (तदन्तविधौ दोषाधायकभाष्यम्) अथ विज्ञायते उगिदन्तात्प्रातिपदिकादिति, सिद्धम् -अतिभवती, अतिमहतीति॥ भवती, महतीति न सिध्यति। व्यपदेशिवद्भावेनेह भविष्यति। व्यपदेशिवद्भावोऽप्रातिपदिकेन॥ (पक्षद्वये दोषप्रतिपादकभाष्यम्) उभयथा चं निर्गोमती, निर्यवमतीति न सिध्यति॥ किं कारणम्? प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति॥ (प्रथमपक्षे दोषाभावोपपादकभाष्यम्) यथेच्छसि तथास्तु॥ अस्तु तावदुगितः प्रातिपदिकादिति॥ कथम् -अतिभवती, अतिमहतीति? तदन्तविधिना भविष्यति॥ ननु चोक्तं ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यत इति। नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्॥ (द्वितीयपक्षे दोषाभावोपपादकभाष्यम्) अथ वा पुनरस्तु -उगिदन्तात्प्रातिपदिकादिति॥ कथं -भवती, महतीति? व्यपदेशिवद्भावेन भविष्यति॥ ननु चोक्तं व्यपदेशिवद्भावोऽप्रातिपदिकेनेति। नैतत्प्रातिपदिकग्रहणम्। प्रातिपदिकाप्रातिपदिकयोरेतद् ग्रहणम्॥ (पक्षद्वये दोषाभावोपपादकभाष्यम्) यदप्युच्यते -उभयथा निर्गौमती, निर्यवमतीति न सिध्यतीति। किं कारणम्? प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति॥ नैतत्प्रत्ययग्रहणम्। प्रत्ययाप्रत्यययोरेतद् ग्रहणम्॥ कथम्? वर्णोप्युगित्, प्रत्ययोप्युगित्, प्रातिपदिकमप्युगित्॥ (5127 पूर्वपक्षवार्तिकम्॥ 1 ॥) - धातोरुगितः प्रतिषेधः - (भाष्यम्) धातोरुगितः प्रतिषेधो वक्तव्यः। उखास्रद् ब्राह्मणी, पर्णध्वद् ब्राह्मणी॥ (5128 पूर्वपक्षवार्तिकम्॥ 2 ॥) - अञ्ञ्चतेश्चोपसंख्यानम् - (भाष्यम्) अञ्ञ्चतेश्चोपसंख्यानं कर्तव्यम्। प्राची, प्रतीची॥ (5129 सिद्धान्तवार्तिकम्॥ 3 ॥) - उगित्यञ्ञ्चतिग्रहणात्सिद्धमधातोः - (भाष्यम्) उगिति अञ्ञ्चतिग्रहणादधातोः सिद्धम्॥ अञ्ञ्चतिग्रहणं नियमार्थं भविष्यति। अञ्ञ्चतेरेवोगितो धातोर्नान्यस्योगितो धातोरिति॥ Kashika ------- उग् इद् यत्र संभवति यथाकथंचित् तदुगिच्छब्दरूपम्, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती॥ धातोरुगितः प्रतिषेधो वक्त व्यः॥ उखास्रत्। पर्णध्वत् ब्राह्मणी॥ अञ्चतेश्चोपसंख्यानम्॥ प्राची। प्रतीची। उदीची॥ Siddhanta Kaumudi ----------------- उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः (SK446) इति नुम् । उगिदचाम् (SK361) इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् (SK415) इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥ Laghu Siddhanta Kaumudi ----------------------- उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्। भवती। भवन्ती। पचन्ती। दीव्यन्ती॥ Balamanorama ------------ **उगितश्च** - उगितश्च । उक् प्रत्याहारः । उक् इद्यस्य स उगित् ।॒उगित॑ इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः 'समासप्रत्ययविधौ' इति प्रतिषेधो न । पूर्वसूत्रान्ङीबित्यनुवर्तते । तदाह-उगिदन्तादिति । उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति — भवतीति । सर्वादिगणे 'भवतु' इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप् । ङपावितौ ।आच्छीनद्योर्नुम्॒शप्श्यनोर्नित्य॑मिति नुम्न, शत्रन्तत्वाऽभावात् ।उगिदचा॑मित्यपि न सर्वनामस्थानत्वाऽभावात् । अथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेर्लटः शतरि शषि पररूपे पचच्छब्दः । तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपिशप्श्यनोर्नि॑मिति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत्भातेर्डवतुः॑इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु,शप्श्यनोर्नित्य॑मिति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः । 'उगिदचामिति सूत्र' इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः । तेनेति । अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः । उखेति । उखा=कुण्डी । उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।रुआंसु ध्वंसु अवरुआंसने॑ । सुपीत्यनुवृत्तौक्विप्चे॑ति क्विप्, उपपदसमासः, सुब्लुक्,अनिदिता॑मिति न लोपः, हल्ङ्यादिना सोर्लोपः,वसुरुआंसु॑इति दत्वमिति भावः । स्यादेवेति ।ङी॑बिति शेषः । प्राचीति । प्रपूर्वादञ्चतेः 'ऋत्विक' इत्यादिना क्विन्,अनिदिता॑मिति नलोपः । उगित्त्वान्ङीप्,अचः॑इत्यकारलोपेचौ॑इति दीर्घः । Tattvabodhini ------------- **उगितश्च** - उगिच्छब्देन प्रातिपदिकं विशेष्यते, विशेषणेन तदन्तविधिः ।न च प्रत्ययविधौ प्रतिषेधः शङ्क्यः,अनुपसर्जना॑दित्यनेन स्त्रीप्रत्ययेषु तदन्तविधिरस्तीति ज्ञापनात्,उगिद्वर्णग्रहणवर्ज॑मितियेन विधि॑रिति सूत्र एवोक्तत्वाच्चेत्याशयेनाह — उगिदन्तादिति । अत्रोगित्प्रतिपदिकं, प्रत्ययश्चेति द्विविधं संभवति । आद्ये उगिदन्ते — भवन्तं महान्तं चातिक्रान्तै अतिभवती अतिमहतीत्थदाहरणम् । सर्वादिगणेभवतु॑इति पाठाद्भवच्छब्दस्योगित्त्वव्यपदेशः । महच्छशब्दस्य तु शतृवद्भावात् । न चैवंप्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधात्केवलाभ्यां भवन्महच्छब्दाभ्यां ङीम्न स्यादिति वाच्यम् । प्रातिपदिकाऽप्रातिपदिकसाधरण्येन शब्दमात्रमुगित्पदाभिधेयमुत्युक्तनिषेधाऽप्रवृत्तेरित्याशयेनोदाहरति -भवन्तीति । द्वितीयमुगिदन्तमुदाहरति — पचन्तीति । पचेर्लटः शतरिकर्तरि शप् । यदि तु सर्वादिगणेभवतु॑इति य उगित्पठितः सःभातेर्डवतु॑रिति व्युत्पाद्यते, तदाभवती॑ति द्वितीयोगिदन्तस्याप्युदाहरणं भवत्येव । शत्रन्तात्तु भवतेर्ङीपिशप्शयनो॑रिति नित्यो नुम् । भवन्ती । उखारुआदित्यादि । उखायाः रुआंसते, पर्णेभ्यो ध्वंसते ।रुआंसु ध्वंसु अव रुआंसने॑वस#उरुआंसु॑इति दत्वम् ।वनो न हश इति वक्तव्यम् । वनोर च ।व॑न्निति प्रत्ययेन तदन्तं प्रातिपदिकं गृह्रते । वन्नन्तेन त्वधिकृत प्रातिपदिकविशेषणात्तदन्तविधिरित्याह — वन्नन्तात्तदन्ताच्चेति ।येन विधिस्तदन्तस्ये॑त्यत्रस्वं रूप॑मिति सूत्रात्स्वमित्यनुवर्त्त्य स्वस्य चेति व्याख्यानादुभयं लभ्यत इथि भावः । यदि तु वन्नन्तमेव व्यपदेशिवद्भावेन वन्नन्तान्तमित्युच्यते, तर्हियेन विधि॑रित्यत्रस्व॑मित्यनुवर्त्त्यस्वस्य चे॑ति न व्याख्येयम् । न चात्रव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधः शङ्क्यः, तस्य प्रातिपदिकत्वाऽभावाच्चेत्याहुः । सामान्यग्रहममिति । सूत्रेवन॑ इत्यनुबन्धरहितस्य ग्रहणात्तदनुबन्धपरिभाषा नोपतिष्ठत इति भावः । वन्ग्रहणे वन्नन्तं वन्नन्तान्तं च कथं लभ्यत इत्याशङ्कायामाह — प्रत्ययग्रहणे इत्यादि । तेनेति । वन्नन्तेनेत्यर्थः । तदन्तान्तमपिलभ्यत इति ।स्त्रिया॑मित्यधिकारेग्रहण वता प्रातिपदिकेने॑ति निषेधो न पर्वर्तते,अमहत्पूर्वे॑त्यादिज्ञापकागिति भावः । अन्ये त्वाहुः — वन्नन्तस्य वस्तुतः प्रातिपदकत्वेऽपि सूत्रे गृहीतस्य वन इत्यस्य प्रातिपदिकत्वं नास्तीत्युक्तत्वाद्ग्रहणवतेति निषेधशङ्कैव नास्तीति । सुत्वानमिति ।सुजयोर्ङ्वनिप् ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । अतिधीवरीति । दधातेःअन्येभ्योऽपि दृश्यते॑इति क्वनिप् ।घुमास्थे॑तीत्त्वम् । भाष्ये तु ध्यायतेः क्वनपि संप्रसारणमिति स्थितम् । नस्य रेफादेशे कृतेऽप्येकदेशविकृतस्यानन्यत्वात्अल्लोपरोऽनः॑इति प्राप्नोति, अनो नकारान्तत्वविशेषणात्तु न भवतीतिआयुवमघोना॑मित्यत्रैव व्युत्पादितम् । शर्वरिति । शृधातोःअन्येभ्योऽपी॑त्यनेनैव वनिप् । गुणे कृते रपरत्वे च हशन्तात्परत्वेऽपि हशन्ताद्विहितत्वाभावान्ङीब्रायोरत्र निषेधो न । बहुव्रीहौ वा॥ बहुव्रीहौ वेति ।अन्यतरस्या॑मिति योगविभागदिदं लभ्यते, नत्वपूर्वं वचनमिति वक्ष्यते । बहुधीवरीति ।बहवो धीवानो यस्या नगर्या॑मिति विग्रहः । पक्षे डाविति ।डाबुभाभ्या॑मिति सूत्रेण । तथाच द्विवचनेबहुधीवर्यौ॒॑बहुधीवानौ॒॑बहुधीवेइति रूपत्रयं भवतीति भावः । Padamanjari ----------- यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम् - सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति - तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह - तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम् - अतिभवती अतिमहतीत्यत्रापि भवति ।'ग्रहणवता प्रातिपदिकेन' इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति ।'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम् - इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह - ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च'सुपां सुलुक्' इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम् - 'अकारनकारलोपयोश्चातन्त्रत्वात्'नाञ्चेः पूजायाम्' इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी' इति । उखास्रत्, पर्णध्वदिति ।'क्विप् च' इत्यत्रानयोर्व्युत्पत्तिः कृता ॥ Nyaas ----- `यथाकथञ्चित्` इति। येन केनचित् प्रकारेण। यदि वर्ण उगित् सम्भवति, यदि प्रत्ययः, अथापि प्रातिपदिकम्, सर्वर्था यत्रैषामन्यतमः सम्भवति तत् `उगिच्छब्दरुपम्` इति। अनेनोगिच्छब्दरूपस्य विशेषणं न प्रातिपदिकस्येति दर्शयति। यदि प्रातिपदिकस्यैव विशेषमं स्यादिहैव स्यात् - भवती, महतीति; अर्वतीत्यत्र तु न स्यात्, **अर्वणस्त्रसावनञः** (6.4.127) इति नकारस्य त्रादेशः कृत इति वर्ण एव तकार उगित्, न प्रातिपदिकम्; गोमतीत्यत्र च न स्यात्, अत्रापि हि मतुप्प्रत्यय एवोगित्, न प्रातिपदिकम्; तस्मादुगिच्छब्दस्यैव विशेषणं युक्तमित्यभिप्रायः। तच्चोगिच्छब्दरूपं प्रातिपदिकस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह - `तदन्तात्` इत्यादि। यदि तर्ह्रुगिच्छब्दरूपान्तात् प्रातिपदिकान्ङीब्भवत्येवं सति भवतीति न सिध्यति, न ह्यत्रोगिच्छब्दरूपान्तं प्रातिपदिकं भवति, भवच्छब्दान्तादुगितः प्रातिपदिकादन्यस्य तदन्तस्याभावात्? नैष दोषः; व्यपदेशिवद्भावात् तदन्ताद्भविष्यति। ननु च `व्यपदेशिवद्भावोऽप्रातिपदिकेन` (शाक।प।65) इति व्यपदेशिद्भावेन नात्र भवितव्यम्? नैतदस्ति; न ह्रुगिदिति प्रातिपदिकग्रहणम्, किं तर्हि? प्रातिपदिकाप्रातिपद#इकग्रहणम्; वर्णप्रत्ययोरप्युगितोग्र्रहणात्। `पचन्ती, यजन्ती` इति। शत्रन्तान्ङीप्।`धातोरुगितः प्रतिषेधः` इति। प्रतिपाद्यत इति शेषः।`अञ्चतेश्चोपसंख्यानम्` इति। अञ्चतेर्ङीप्प्रत्ययस्य प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदमुभयत्र प्रतिपादनम् - **पादोऽन्यतरस्याम्** (4.1.8) इति सूत्रे `अन्यतरस्याम्` इति योगविभागः करिष्यते, स च **उगितश्च** (6.3.45) **वनो र च** (4.1.7) **पादोऽन्यतरस्याम्** (4.1.8) इत्येषां त्रयाणामपि योगानां शेषः। व्यवस्थितविभाषा च सा। तेन प्रातिपदिकादुगितच्छब्दरूपान्ताद्धातूगिच्चब्दान्तादञ्चतेरेव नित्यं ङीब्भवति, ततोऽन्येभ्यस्तु न भवत्येवेति।अन्ये त्वन्यथा प्रतिपादनं कुर्वन्ति - उखारुआत्, पर्णध्वदिति। क्रियाकारकसम्बन्धमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न भवति। स्त्रीशब्दसामानाधिकरण्यात्तु स्त्रीत्वप्रतीतिरापद्यते। न च `स्त्रीयाम्` (4.1.3) इत्यत्र स्त्रीसामानाधिकरण्यपक्षः स्थितः। प्राचीत्यादिषु तु स्त्रीत्वं विवक्षितम्, तेनेह भवतीकार इति। `उखारुआत्, पर्णध्वत्` इति। उखेन रुआंसते, पर्णानि ध्वंसत इति **अन्येभ्योऽपि दृश्यन्ते** (3.2.75) इति क्विप्, **अन्येषामपि दृश्यते** (6.3.137) इत्युखस्य दीर्घत्वम्। प्राचीति प्रपूर्वादञ्चतेः क्विन्, `अचः` (6.4.138) इत्यकारलोप), `चौ` (6.3.137) इत्युपसर्गस्य दीर्घत्वम्॥ Praudhamanorama --------------- **भवन्तीति।** सर्वादिषु भवतु इत्युदित्पठितो 'भातेर्डवतुः' इति व्युत्पादितश्च। शत्रन्तात्तु ङीपि 'शप्श्यनोः' इति नित्यो नुम्। Prakriyasarvasvam ----------------- यथाकथंचिदुगितः शब्दात् स्त्रियां ङीप् स्यात् । सर्वादिषु भवतु इत्युदित् पठ्यते । भवती 'मघवा बहुलम्' (६-४-१२८) इति तृत्वे उगित्त्वान्मघवती । श्वयुवेति प्रसारणन् त्वन्नन्तत्व एवेष्टम् । मतुप उगित्त्वात् श्रीमती । ईयसुनः श्रेयसी । एवं प्राप्तः श्रीमाननयेति प्राप्तश्रीमती । प्राप्तप्रेयसी । पुंसो डुंसुन्नन्तत्वेनोगित्त्वात् वीरपुंसी सभा । क्वसुः सेदिवस् ई । 'वसोः सम्प्रसारणम्' (६-४-१३१) इति वस्योत्त्वे वलादिनाशादिणनिवृत्तिः । सेदुस् ई । आदेशसत्वात् षः । सेदुषी । एवं विद्वस् ई । प्रसारणे विदुषी । शतृ—तन्वती । Vartika ------- धातोरुगितः प्रतिषेधः । Sutra Prayogas -------------- * **निषेदुषीम्** (रघुवंशम्): `उगितश्च` इति ङीप्। * **सुदतीं** (रघुवंशम्): `उगितश्च` इति ङीप्। * **पेतुषी** (रघुवंशम्): `उगितश्च` इति ङीप्। * **निपेतुषी** (रघुवंशम्): `उगितश्च` इति ङीप्। * **वृषस्यन्तीं** (रघुवंशम्): `उगितश्च` इति ङीप्। * **सुदती** (कुमारसम्भवम्): `उगितश्च` इति ङीप्। * **निषेदुषी** (कुमारसम्भवम्): `उगितश्च` इति ङीप्। * **जरतीम्** (किरातार्जुनीयम्): `उगितश्च` इति ङीप् प्रत्ययः। * **गरीयसीर्** (शिशुपालवधम्): `उगितश्च` इति ङीप्। * **पटीयसीर्** (शिशुपालवधम्): `उगितश्च` इति ङीप् । * **तदवयती** (शिशुपालवधम्): `उगितच` इति ङीप्। * **रसितवत्यपि** (शिशुपालवधम्): `उगितश्च` इति ङीप्। * **यती** (शिशुपालवधम्): `उगितश्च` इति ङीप् । * **विष्वद्रीचीर्** (शिशुपालवधम्): `उगितश्च` इति ङीप्। * **यती** (शिशुपालवधम्): `उगितश्च` इति ङीप्।