34116: लिङाशिषि

Padacheda: लिङ् | S | 1 | 1 |

आशिषि | S | 7 | 1 |

Sutrartha

आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।

तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य ‘आशिषि’ अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति । एतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं आशिषि लिङ्लोटौ (3.3.173) इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते - 1. अस्तेर्भूः (2.4.52) इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । अयमादेशः आशीर्लिङ्लकारस्य रूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि ‘भूयात्, भूयास्ताम्, भूयासुः’ इति भवन्ति । 2. कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - ‘गम्’ धातोः आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनम् ‘गम्यात्’ इत्यत्र गम्-धातोः ‘गच्छ्’ आदेशः न भवति, यतः अयमादेशः इषुगमियमां छः (7.3.77) इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।

Sutrartha (English)

The प्रत्ययs of आशीर्लिङ्-लकार are termed आर्धधातुक.

Vasu English Summary

When the sense is that of Benediction, the substitutes of लिङ् (Benedictive) are called आर्द्धधातुक i.e. the तिङ् (Personal Endings) of the लिङ् (Benedictive) are आर्द्धधातुक ।

Vasu English Translation

When the sense is that of Benediction, the substitutes of लिङ् (Benedictive) are called आर्द्धधातुक i.e. the तिङ् (Personal Endings) of the लिङ् (Benedictive) are आर्द्धधातुक । This debars these affixes from being called sarvadhatuka. Being ardhadhatuka they take the augment इट्, and before these affixes the root does not take the Vikaranas शप् &c. Thus from the root लू ‘to cut’, we have in the आशीर्लिङ्, लविसीष्ट; and from the root पू ‘to purify’, पविषीष्ट. But in the विधिलिङ् (Potential), we have the proper Vikaranas &c. as लुनीयात्, पुनीयात् ।

Kashika

आशिषि विषये यो लिङ्, स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्चैवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषीति किम्? लुनीयात्। पुनीयात्॥

Siddhanta Kaumudi

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥

Tattvabodhini

लिङाशिषि - आर्धधातुकसंज्ञ इति ।लङः शाकटायनस्यैवे॑त्येत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात् ।

Nyaas

{लविषीष्ठा इति मु।पाठः} लविषीष्ट` इति। थास् , सुट् तिथोः (3.4.107) इति सुट्, षष्वम्, ष्टत्वञ्च॥

Prakriyasarvasvam

आशिषि लिङस्तिङार्धधातुकसंज्ञ एव स्यात् । तेन न शबादि ।