34117: छन्दस्युभयथा¶
Padacheda: छन्दसि | S | 7 | 1 |
उभयथा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In the छन्दस् (Vedas) this distinction of सार्वधातुक and आर्द्धधातुक is not always maintained and the affixes are promiscuously used.
Vasu English Translation¶
In the छन्दस् (Vedas) this distinction of सार्वधातुक and आर्द्धधातुक is not always maintained and the affixes are promiscuously used. In the Vedas, there is no hard and fast rule about sarvadhatuka and ardhadhatuka affixes. Sometimes the तिङ् and शित् are treated as if they were ardhadhatuka. Thus वर्धन्तु त्वा सुष्टुतयः । Here the affixes of the लोट् are treated as ardhadhatuka and consequently there is the elision of the णिच् by rule (6.4.51); the proper form of this word would be वर्धयन्तु । Sometimes ardhadhatuka* affixes are treated like sarvadhatuka affixes; as विशृण्विरे; here the affixes of the लिट् are treated as sarvadhatuka and so there is the Vikarana श्नु and the उ is changed into व । Thus, वि + शृ + श्नु + इरे = वि + शृ + नु + इरे (3.1.74) = वि + शृ + न्व् + इरे (6.4.87) = विशृण्विरे । Similarly, सुन्विरे । The लिङ् is sometimes treated in the Vedas both as sarvadhatuka and ardhadhatuka at one and the same time; as उपस्थेयाम् शरणं बृहन्तम् । Here, by treating the affix as sarvadhatuka, there is elision of स in the लिङ् (7.2.79) and by treating it again as ardhadhatuka, the आ of स्था is changed into ए । So also in स्वस्ति the affix is treated as *sarvadhatuka_ and there is no substitution of भू for अस् as required by (2.4.52).
Kashika¶
छन्दसि विषय उभयथा भवति, सार्वधातुकमार्धधातुकं च। किं लिङेवानन्तरः संबध्यते? नैतदस्ति। सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्ध॑न्तु त्वा सुष्टु॒तयः॒ (ऋ० ७.९९.७)। आर्धधातुकत्वाण् णिलोपः। वर्धयन्त्विति प्राप्ते। शेषं च सार्वधातुकम् — स्व॒स्तये॒ नाव॑मि॒वारु॑हेम (ऋ०१०.१७८.२)। क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति। लिट् सार्वधातुकम् — सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। लिङ् उभयथा भवति — उप॑ स्थेयाम शर॒णा बृ॒हन्त॑ (ऋ०६.४७.८)। सार्वधातुकत्वाल् लिङः सलोपः, आर्धधातुकत्वादेत्वम्। **व्यत्ययो बहुलम्**(३.१.८५) इत्यस्यैवायं प्रपञ्चः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थःपादः॥
Siddhanta Kaumudi¶
धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - (SK2387) इति यण् । आदृगमहनजनः किकिनौ लिट् च - (SK3151) । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - (SK2383) इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - (SK3578) इत्युत्वम् । ततुरिः । जगुरिः ॥
Padamanjari¶
सर्वमेव प्रकरणमिति ।’तिङसित्सार्वधातुकम्’ इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात्’श्नसोरल्लोपः’ इत्यस्याभावः ॥
Nyaas¶
{अस्तये इति मुद्रितः पाठः} स्वस्तये इति। अस भुवि (धातुपाठः-1065), स्त्रियां क्तिन्। सार्वधातुकत्वादस्तेर्भूभावो न भवति।विशृण्विरे इति। अत्र लिटः सार्वधातुकत्वात् श्रुवः शृ च (3.1.74) इति श्नुप्रत्ययः, शृभावश्च। सुन्विरे इति। स्वादिभ्यः श्नुः (3.1.73) । उपस्थेयाम`इति। तिष्ठतेर्लिङ,यासुट्,मस्, **एतेर्लिङि** (7.4.24) इत्येत्वम्।ननु **व्यत्ययो बहुलम्** (3.1.85) इत्यनेनैव सिद्धं सर्वमेवेदम्, किमर्थोऽयमारम्भ इत्याह - `व्यत्ययो बहुलमित्यस्यैव इति। गतार्थम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्यचतुर्थः पादः।समाप्तश्च तृतीयोऽध्यायः॥
Prakriyasarvasvam¶
छन्दसि धातुविहितप्रत्ययानां सार्वधातुकत्वमार्धधातुकत्वं चोभयथा स्यात् । वर्धन्तु त्वा सुष्टुतयः । अत्र शप आर्धधातुकत्वान्णिलोपः । स्वस्तये तार्क्ष्यमित्यत्र अस्तेः क्तिनि सार्वधातुकत्वाद् भूभावो न । तस्यैवार्धधातुकत्वात् सार्वधातुकविहित श्नसोरल्लोपो न । अयमौणादिकाच्च सिद्ध्यति । (ससपांसो ? सुवांसो) वि²शृण्विरे । लिटः सार्वधातुकत्वात् श्नुः । लिटि धा³तोः’— (६-१-८) विकरणधातुसमुदायस्य द्वित्वं न । उपस्थेयाम् शरणा बृहन्ता । अत्राशीर्लिङ आर्धधातुकत्वाद् ‘एर्लिङि’ (६-४-६७) इति एत्वम् । सार्वधातुकत्वाल्लिङः सलोपः ।