34116: लिङाशिषि =============== **Padacheda:** लिङ् | S | 1 | 1 | आशिषि | S | 7 | 1 | Sutrartha --------- **आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।** **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य 'आशिषि' अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति । एतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं **आशिषि लिङ्लोटौ** (3.3.173) इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते - 1. **अस्तेर्भूः** (2.4.52) इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । अयमादेशः आशीर्लिङ्लकारस्य रूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि 'भूयात्, भूयास्ताम्, भूयासुः' इति भवन्ति । 2. **कर्तरि शप्** (3.1.68) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - 'गम्' धातोः आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनम् 'गम्यात्' इत्यत्र गम्-धातोः 'गच्छ्' आदेशः न भवति, यतः अयमादेशः **इषुगमियमां छः** (7.3.77) इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति । Sutrartha (English) ------------------- The प्रत्ययs of आशीर्लिङ्-लकार are termed आर्धधातुक. Vasu English Summary -------------------- When the sense is that of Benediction, the substitutes of लिङ् (Benedictive) are called आर्द्धधातुक i.e. the तिङ् (Personal Endings) of the लिङ् (Benedictive) are आर्द्धधातुक । Vasu English Translation ------------------------ When the sense is that of Benediction, the substitutes of लिङ् (Benedictive) are called आर्द्धधातुक i.e. the तिङ् (Personal Endings) of the लिङ् (Benedictive) are आर्द्धधातुक । This debars these affixes from being called *sarvadhatuka*. Being *ardhadhatuka* they take the augment इट्, and before these affixes the root does not take the *Vikaranas* शप् &c. Thus from the root लू 'to cut', we have in the आशीर्लिङ्, लविसीष्ट; and from the root पू 'to purify', पविषीष्ट. But in the विधिलिङ् (Potential), we have the proper *Vikaranas* &c. as लुनीयात्, पुनीयात् । Kashika ------- आशिषि विषये यो लिङ्, स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्चैवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषीति किम्? लुनीयात्। पुनीयात्॥ Siddhanta Kaumudi ----------------- आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥ Tattvabodhini ------------- **लिङाशिषि** - आर्धधातुकसंज्ञ इति ।लङः शाकटायनस्यैवे॑त्येत एवकारोऽनुवर्तनीयः । अन्यथा एकसंज्ञाधिकारबहिर्भूत्तवेन सार्वधातुकसंज्ञापि स्यात्, ततश्च पक्षे शबादिः स्यात् । Nyaas ----- `{लविषीष्ठा` इति मु।पाठः} लविषीष्ट` इति। थास् , **सुट् तिथोः** (3.4.107) इति सुट्, षष्वम्, ष्टत्वञ्च॥ Prakriyasarvasvam ----------------- आशिषि लिङस्तिङार्धधातुकसंज्ञ एव स्यात् । तेन न शबादि ।