34115: लिट् च¶
Padacheda: लिट् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
लिट्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।
तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिट्-लकारस्य विषये तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति । अस्य प्रयोगः यत्र दृश्यते तस्य कानिचन उदाहरणानि एतानि - 1. अस्तेर्भूः (2.4.52) इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकसंज्ञकाः सन्ति, अतः लिट्-लकारस्य विषये अस्य सूत्रस्य प्रयोगं भवितुमर्हति । अतः अस्-धातोः लिट्-लकारस्य रूपाणि ‘बभूव बभूवतुः बभूवुः’ एतादृशानि भवन्ति । 2. पठ्-धातोः लिट्लकारस्य मध्यमपुरुषैकवचनम् ‘पेठिथ’ इति भवति । लिट्-लकारस्य मध्यमपुरुषैकवचनस्य प्रत्ययः ‘थल्’ इति वलादि-आर्धधातुकः अस्ति, अतः पठ्-धातोः अस्मिन् प्रत्यये परे आर्धधातुकस्य इड्वलादेः (7.2.35) इत्यनेन इडागमः भवितुमर्हति । 3. कर्तरि शप् (3.1.68) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । लिट्-लकारस्य प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - ‘गम्’ धातोः लिट्लकारस्य प्रथमपुरुषैकवचनम् ‘जगाम’ इत्यत्र गम्-धातोः ‘गच्छ्’ आदेशः न भवति, यतः अयमादेशः इषुगमियमां छः (7.3.77) इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।
Sutrartha (English)¶
The तिङ्-प्रत्ययs of the लिट्-लकार get the term आर्धधातुक.
Vasu English Summary¶
The तिङ् (Personal Endings) of the लिट् (Perfect Tense) are also called आर्द्धधातुक ।
Vasu English Translation¶
The तिङ् (Personal Endings) of the लिट् (Perfect Tense) are also called आर्द्धधातुक । This debars them from being called sarvadhatuka and, being ardhadhatuka, some of them take the augment इट्; as पेचिथ, शेकिथ । Moreover by their being ardhadhatuka they do not admit of the Vikaranas शप् &c.
So from ग्लै (ग्ला, VI.1.45) we have जग्ले; here the आ is elided by (6.4.64), the affix being treated as ardhadhatuka; similarly मम्ले from म्लै ।
Kashika¶
लिडादेशस्तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु चैकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यमेतत्। इह त्वेवकारोऽनुवर्तते, स नियमं करिष्यति॥
Siddhanta Kaumudi¶
लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥
Laghu Siddhanta Kaumudi¶
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥
Balamanorama¶
लिट् च - लिट् च ।लि॑डिति लुप्तस्थानषष्ठन्तम् ।तिङ्शित्सार्वधातुक॑मित्यस्मात्तिङित्यनुवर्तते । ‘आर्धधातुकं शेष’ इत्यस्मार्धधातुकमिति । तदाह — लिडादेशस्तिङिति । एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह — आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्यैवे॑ति सूत्रादेवकारानुवृत्तेरिति भावः । तेनेति । सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः ।
Tattvabodhini¶
लिट् च - आर्धधातुकसंज्ञ एवेति ।लङः शाकटायनस्ये॑ति सूत्रादेवकारोऽनुवर्तत इति भावः ।
Padamanjari¶
पेचिथ, शेकिथेति । ठृतो भारद्वाजस्यऽ इति नियमादिट्,’थलि च’ सेटिऽ इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् ठातो लोप इटि चऽ इत्याकारलोपः । यदुक्तम् - सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति - ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ॥
Nyaas¶
शेकिथ इति। आर्धधातुकत्वाल्लिटः ऋतो भारद्वाजस्य (7.2.63) इतीट्। तत्र ऋत एव भारद्वाजस्य नान्येषां धातूनामित्येषोऽर्थोऽभिमतः। थलि च सेटि (6.4.121) इत्येत्वाभ्यासलोपौ। जग्ले, मम्ले इति। आर्धधातुकत्वात् आतो लोप इटि च (6.4.64) इत्याकारलोपः।ननु च ` इत्यादिना यदुक्तं `सार्वधातुकसंज्ञाया अपवादः (का।3.4.115) इति तद्विघटयति। एकसंज्ञाधिकारादन्यत्र समावेशो भवति, यथा - त्ययादिसंज्ञानाम्। न चात्रैकसंज्ञाधिकारोऽस्ति,तदयुक्तमस्याः सार्वधातुकसंज्ञाया अपवादत्वमित्यभिप्रायः।`सत्यमेतत्ित्यादिना अपवादत्वमेव समर्थयते॥
Prakriyasarvasvam¶
लिडादेशस्तिङार्धधातुकमेव स्यात् । तेन शबादिर्न ।