34114: आर्धधातुकं शेषः

Padacheda: आर्धधातुकम् | S | 1 | 1 |

शेषः | S | 1 | 1 |

Sutrartha

तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।

धातोः विहिताः प्रत्ययाः ‘सार्वधातुक’ तथा ‘आर्धधातुक’ एतादृशाः विभाजिताः सन्ति । एतेषु तिङ्शित्सार्वधातुकम् (3.4.113) इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे ‘शेषः’ इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् ‘आर्धधातुक’संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘शेष’ इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति । 2. आशीर्लिङ्-लकारस्य विषये लिङाशिषि (3.4.116) इत्यनेन तथा लिट्-लकारस्य विषये लिट् च (3.4.115) इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति । आर्धधातुकसंज्ञायाः प्रयोगः आर्धधातुके (2.4.35), आर्धधातुकस्येड् वलादेः (7.2.35) एतादृशेषु सूत्रेषु कृतः अस्ति ।

Sutrartha (English)

Except for तिङ् and शित् प्रत्ययs, other प्रत्ययs that are attached to verbs are called ‘आर्धधातुक’.

Vasu English Summary

The remainder i.e. the affixes other than तिङ् (Personal Endings) and those with an indicatory श् sub-joined to a verbal root are called आर्द्धधातुक।

Vasu English Translation

The remainder i.e. the affixes other than तिङ् (Personal Endings) and those with an indicatory श् sub-joined to a verbal root are called आर्द्धधातुक। Thus the affixes तृ, तुम्, तव्यम् &c. are आर्धधातुक affixes as in the following words- लविता, लवितुम्, लवितव्यम् । Here the augment इट् is added, because of these affixes being called ardhadhatuka by (7.2.35).

The word धातोः whose anuvritti began with sutra (3.1.91), is understood here also. So that the affixes in relation to the verbal roots get the name of sarvadhatuka and ardhadhatuka; the affixes applied to nouns do not get these names. Thus the case-affix भ्याम् when added to the noun लू, is not called an arthadhatuka affix, and therefore we have लूभ्याम्, लूभिः &c. Had these affixes been ardhadhatuka, they would have caused the guna of the base (7.3.84). Similarly the affixes त्वं and ता in the words वृक्षत्वं and वृक्षता are not ardhadhatuka affixes. Had they been so, there would have been the insertion of the augment इट् (7.2.35).

Similarly in sutra (3.1.5), the affix सन् is used without changing the sense, after the roots गुप्, तिज् and कित् । But as this affix is added without the enunciation of the word धातोः as it is in sutra (3.1.7), this सन् is not called ardhadhatuka, and does not take the augment इट्, as जुगुप्सते ।

Bhashya

आर्धधातुकं शेषः (1271) (5092 आक्षेपवार्तिकम्) ॥ आर्धधातुकसंज्ञायां धातुग्रहणम् ॥ (भाष्यम् ) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम् । धातोः परस्यार्धधातुकसंज्ञा यथा स्यात् इह मा भूत् - वृक्षत्वं वृक्षतेति । (5093 आक्षेपवार्तिकम् ॥ 2 ॥) ॥ क्रियमाणे चापि धातुग्रहणे, स्वादिप्रतिषेधः ॥ (भाष्यम्) स्वादीनां प्रतिषेधो वक्तव्यः । इह मा भूत् लूभ्यां लूभिः इति । (आक्षेपपरिहारभाष्यम्) अनुक्रान्तापेक्षं शेषग्रहणम् । (परिहारानुपपत्तिभाष्यम् ) एवमपि अग्निकाम्यति वायुकाम्यतीति प्राप्नोति । तस्माद्धातुग्रहणं कर्तव्यम् । (आक्षेपभाष्यम् ) तत्तर्हि धातुग्रहणं कर्तव्यम् ?। (समाधानभाष्यम् ) न कर्तव्यम् । आतृतीयपरिसमाप्तेर्धात्वधिकारः प्रकृतोऽनुवर्तते । क्व प्रकृतः ?।धातोरेकाचो हलादेः इति । (समाधानासंगतिभाष्यम्) एवमपि श्रीकाम्यति भूकाम्यतीति प्राप्नोति । (समाधानसंगतिभाष्यम् ) तद्विधानात् सिद्धम् । विहितविशेषणं धातुग्रहणं ठधातोर्यो विहितः इति । ठधातोरेष विहितः संकीर्त्य धातोरित्येवं यो विहित इति । आर्धधातुकम् ॥ 114 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायश्च चतुर्थे पादे प्रथममाह्निकम् ॥ पादश्चाध्यायश्च समाप्तस्तृतीयः ॥ 4-1

Kashika

तिङः शितश्च वर्जयित्वान्यः प्रत्ययः शेषो धातुसंशब्दनेन विहित आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोरित्येव — वृक्षत्वम्, वृक्षतास्ति। लूभ्याम्, लूभिः। जुगुप्सते॥

Siddhanta Kaumudi

तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

Laghu Siddhanta Kaumudi

तिङशिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

Balamanorama

आर्धधातुकं शेषः - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च ‘जुगुप्सते’ इत्यादौ ‘गुप्तिज्किद्भ्य’ इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।

Tattvabodhini

आर्धधातुकं शेषः - ॒धातोरेकाचः॑ इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । दातोरितिविहित इति किम् । लूभ्यां । जुगुप्सते॥

Padamanjari

धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम् - तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥

Nyaas

लविता इति। तृच्, आर्धधातुकस्येड्वलादेः (7.2.35) इतीट्। वृक्षत्वम् इति। तस्य भावस्त्वतलौ (5.1.119) । लूभ्याम् इति। लुनातेः क्विबन्ताद्भ्याम्। जुगुप्सते इति। गुपादिसूत्रेण (3.1.5) सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं वृक्षत्वम् प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, लूभ्याम् इत्याद्ययुक्तम्, क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात्? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः - धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवर्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते? एवं मन्यते - यङविधानसूत्रात् (3.1.22) शमिधातो संज्ञायाम् (3.2.14) इत्यतो वा द्वितीयदातुग्रहणमनुवर्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते - धातोरित्येवं यो विहित इति। शेषग्रहणं किम्? तिङशितोर्मा भूत्, अन्यथा ह्रेकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्॥

Prakriyasarvasvam

तिङ्शित्भ्योऽन्ये ‘धातो’रि’ति विहिताः प्रत्यया आर्धधातुकाख्याः ।