34113: तिङ्शित्सार्वधातुकम्

Padacheda: तिङ्-शित् | S | 1 | 1 |

सार्वधातुकम् | S | 1 | 1 |

Sutrartha

धातुभ्यः विहिताः तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति ।

धातोः विहिताः प्रत्ययाः ‘सार्वधातुक’ तथा ‘आर्धधातुक’ एतादृशाः विभाजिताः सन्ति । अनेन सूत्रेण सार्वधातुक-संज्ञा विधीयते । तिप्तस्झि… (3.4.78) इत्यनेन निर्दिष्टाः तिङ्-प्रत्ययाः, तथा येषु प्रत्ययेषु शकारः इत्संज्ञकः अस्ति ते प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । सार्वधातुकसंज्ञकप्रत्ययानामावली इयम् - अ) तिङ्-प्रत्ययाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, त, आताम्, झ, थास्, आथाम् ध्वम्, इट्, वहि, महिङ् आ) शित्-प्रत्ययाः - [विकरणप्रत्ययाः] शप्, श्यन्, श्नु, श, श्नम्, श्ना [कृत्-प्रत्ययः] शतृ, शानच्, शानन्, चानश्, खश्, श, एश्, शध्यै, शध्यैन् । एतादृशमाहत्य 33 प्रत्ययाः सार्वधातुकसंज्ञकाः सन्ति । ज्ञातव्यम् - आशीर्लिङ्-लकारस्य विषये लिङाशिषि (3.4.116) इत्यनेन तथा लिट्-लकारस्य विषये लिट् च (3.4.115) इत्यनेन तिङ्-प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति । सार्वधातुक-संज्ञायाः प्रयोगः सार्वधातुकार्धधातुकयोः (7.3.84), सार्वधातुकमपित् (1.2.4) एतादृशेषु सूत्रेषु कृतः अस्ति ।

Sutrartha (English)

The तिङ् प्रत्ययs and the शित् प्रत्ययs are called ‘सार्वधातुक’.

Vasu English Summary

All the personal endings – तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78), and all affixes with an indicatory श् are called सार्वधातुक ।

Vasu English Translation

All the personal endings – तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78), and all affixes with an indicatory श् are called सार्वधातुक । Of course, this applies to the affixes which have been already treated before, namely, the affixes which relate to verbal roots and not to तद्धित affixes &c. Thus, स्वपिति, रोदिति, पचमानः, पयमानः । लिट् and आशीर्लिङ् are exceptions.

Kashika

तिङः शितश्च प्रत्ययाः सार्वधातुकसंज्ञा भवन्ति। भवति। नयति। स्वपिति। रोदिति। पवमानः। यजमानः। सार्वधातुकप्रदेशाः — **सार्वधातुके यक्**(३.१.६७) इत्येवमादयः॥

Siddhanta Kaumudi

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥

Balamanorama

तिङ्शित्सार्वधातुकम् - तत्र सार्वधातुककार्यं वक्ष्यन्सार्वधातुकंसंज्ञामाह — तिङ्शित् । धातोरित्यधिकृतं । तदाह — धात्वधिकारोक्ता इति । तेनहरी॑नित्यत्र शसः सार्वधातुकत्वं न,अन्यथा तिङ्शित्सार्वधातुक॑मिति शसः सार्वधातुकत्वात्सार्वधातुकमपिदिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात् ।

Tattvabodhini

तिङ्शित्सार्वधातुकम् - धात्वदिकारोक्ता इति कम् । हरीन् । शसःसार्वधातुकमपि॑दिति ङित्त्वेघेर्ङिती॑ति गुणः स्यात्, लिहः श्रिय इत्यादिशसन्तेषुसार्वधातुके य॑गिति यक्क स्यात् । केचित्तु वारिणी इत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तन्न । क्ङितीति निषेधात्, इगन्तत्वप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च ।

Padamanjari

तरति नयतीति । तिङ्ः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि रुदादिभ्यः सार्वधातुकेऽ इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ॥

Nyaas

भवति, नयति इति। तिङः सार्वधातुकसंज्ञायां तन्निबन्धनः कर्तरि शप्, तस्यापि शितः सार्वधातुकत्वात् सार्वधातुकार्धधातुकयोः 7.3.84) इति गुणः। रोदिति इति। पूर्ववच्छपो लोपः, रुदादिभ्यः सार्वधातुके (7.2.76) इतीट्। पवमानः, यजमानः इति। पूङ्यजोः शानन् (3.2.128) ,तस्य सार्वधातुकत्वात् शप्, तस्यापि सार्वधातुकत्वाद्धातोर्गुणः॥

Prakriyasarvasvam

तिङः शितश्च प्रत्ययाः सार्वधातुकाख्याः ।