34114: आर्धधातुकं शेषः ====================== **Padacheda:** आर्धधातुकम् | S | 1 | 1 | शेषः | S | 1 | 1 | Sutrartha --------- **तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।** धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । एतेषु **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे 'शेषः' इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् 'आर्धधातुक'संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'शेष' इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति । 2. आशीर्लिङ्-लकारस्य विषये **लिङाशिषि** (3.4.116) इत्यनेन तथा लिट्-लकारस्य विषये **लिट् च** (3.4.115) इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति । आर्धधातुकसंज्ञायाः प्रयोगः **आर्धधातुके** (2.4.35), **आर्धधातुकस्येड् वलादेः** (7.2.35) एतादृशेषु सूत्रेषु कृतः अस्ति । Sutrartha (English) ------------------- Except for तिङ् and शित् प्रत्ययs, other प्रत्ययs that are attached to verbs are called 'आर्धधातुक'. Vasu English Summary -------------------- The remainder i.e. the affixes other than तिङ् (Personal Endings) and those with an indicatory श् sub-joined to a verbal root are called आर्द्धधातुक। Vasu English Translation ------------------------ The remainder i.e. the affixes other than तिङ् (Personal Endings) and those with an indicatory श् sub-joined to a verbal root are called आर्द्धधातुक। Thus the affixes तृ, तुम्, तव्यम् &c. are आर्धधातुक affixes as in the following words- लविता, लवितुम्, लवितव्यम् । Here the augment इट् is added, because of these affixes being called *ardhadhatuka* by (7.2.35). The word धातोः whose *anuvritti* began with *sutra* (3.1.91), is understood here also. So that the affixes in relation to the verbal roots get the name of *sarvadhatuka* and *ardhadhatuka*; the affixes applied to nouns do not get these names. Thus the case-affix भ्याम् when added to the noun लू, is not called an *arthadhatuka* affix, and therefore we have लूभ्याम्, लूभिः &c. Had these affixes been *ardhadhatuka*, they would have caused the *guna* of the base (7.3.84). Similarly the affixes त्वं and ता in the words वृक्षत्वं and वृक्षता are not *ardhadhatuka* affixes. Had they been so, there would have been the insertion of the augment इट् (7.2.35). Similarly in *sutra* (3.1.5), the affix सन् is used without changing the sense, after the roots गुप्, तिज् and कित् । But as this affix is added without the enunciation of the word धातोः as it is in *sutra* (3.1.7), this सन् is not called *ardhadhatuka*, and does not take the augment इट्, as जुगुप्सते । Bhashya ------- आर्धधातुकं शेषः (1271) (5092 आक्षेपवार्तिकम्) ॥ आर्धधातुकसंज्ञायां धातुग्रहणम् ॥ (भाष्यम् ) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम् । धातोः परस्यार्धधातुकसंज्ञा यथा स्यात् इह मा भूत् - वृक्षत्वं वृक्षतेति । (5093 आक्षेपवार्तिकम् ॥ 2 ॥) ॥ क्रियमाणे चापि धातुग्रहणे, स्वादिप्रतिषेधः ॥ (भाष्यम्) स्वादीनां प्रतिषेधो वक्तव्यः । इह मा भूत् लूभ्यां लूभिः इति । (आक्षेपपरिहारभाष्यम्) अनुक्रान्तापेक्षं शेषग्रहणम् । (परिहारानुपपत्तिभाष्यम् ) एवमपि अग्निकाम्यति वायुकाम्यतीति प्राप्नोति । तस्माद्धातुग्रहणं कर्तव्यम् । (आक्षेपभाष्यम् ) तत्तर्हि धातुग्रहणं कर्तव्यम् ?। (समाधानभाष्यम् ) न कर्तव्यम् । आतृतीयपरिसमाप्तेर्धात्वधिकारः प्रकृतोऽनुवर्तते । क्व प्रकृतः ?।धातोरेकाचो हलादेः इति । (समाधानासंगतिभाष्यम्) एवमपि श्रीकाम्यति भूकाम्यतीति प्राप्नोति । (समाधानसंगतिभाष्यम् ) तद्विधानात् सिद्धम् । विहितविशेषणं धातुग्रहणं ठधातोर्यो विहितः इति । ठधातोरेष विहितः संकीर्त्य धातोरित्येवं यो विहित इति । आर्धधातुकम् ॥ 114 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायश्च चतुर्थे पादे प्रथममाह्निकम् ॥ पादश्चाध्यायश्च समाप्तस्तृतीयः ॥ 4-1 Kashika ------- तिङः शितश्च वर्जयित्वान्यः प्रत्ययः शेषो धातुसंशब्दनेन विहित आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोरित्येव — वृक्षत्वम्, वृक्षतास्ति। लूभ्याम्, लूभिः। जुगुप्सते॥ Siddhanta Kaumudi ----------------- तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥ Laghu Siddhanta Kaumudi ----------------------- तिङशिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥ Balamanorama ------------ **आर्धधातुकं शेषः** - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च 'जुगुप्सते' इत्यादौ 'गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः । Tattvabodhini ------------- **आर्धधातुकं शेषः** - ॒धातोरेकाचः॑ इत्यत्र धातोरित्यनुवर्तमाने पुनर्धातोरित्यधिकारसूत्रारम्भादिदं लभ्यते । एतच्च तत्रैव मनोरमायां स्पष्टम् । दातोरितिविहित इति किम् । लूभ्यां । जुगुप्सते॥ Padamanjari ----------- धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम् - तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥ Nyaas ----- `लविता` इति। तृच्, `आर्धधातुकस्येड्वलादेः` (7.2.35) इतीट्। `वृक्षत्वम्` इति। **तस्य भावस्त्वतलौ** (5.1.119) । `लूभ्याम्` इति। लुनातेः क्विबन्ताद्भ्याम्। `जुगुप्सते` इति। गुपादिसूत्रेण (3.1.5) सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं `वृक्षत्वम्` प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, `लूभ्याम्` इत्याद्ययुक्तम्, `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात्? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः - धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवर्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते? एवं मन्यते - यङविधानसूत्रात् (3.1.22) `शमिधातो संज्ञायाम्` (3.2.14) इत्यतो वा द्वितीयदातुग्रहणमनुवर्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते - धातोरित्येवं यो विहित इति। शेषग्रहणं किम्? तिङशितोर्मा भूत्, अन्यथा ह्रेकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्॥ Prakriyasarvasvam ----------------- तिङ्शित्भ्योऽन्ये 'धातो'रि'ति विहिताः प्रत्यया आर्धधातुकाख्याः ।