34110: आतः

Padacheda: आतः | S | 5 | 1 |

Sutrartha

आकारात् अङ्गात् परस्य यः सिच्, तस्य लुकि अपि तस्मात् परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।

अस्य सूत्रस्य अर्थम् स्पष्टरूपेण ज्ञातुम् सूत्रे ‘लुगन्तात्’ इति पदम् स्वीकरणीयम् । अस्मिन विषये भाष्ये एकं वार्तिकं दीयते - <!आतः सिज्लुगन्तादिति वक्तव्यम् !> । इत्युक्ते, सिच्-प्रत्ययस्य यदि लुक्-भवति, तर्हि तस्मात् परस्य झि-प्रत्ययस्य जुस्-आदेशः तदैव भवति यदा अङ्गमाकारान्तमस्ति । यथा, भ्वादिगणस्य पा-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - पा + लुङ् [लुङ् (3.2.110) इति लुङ्] → पा + च्लि + ल् [च्लि लुङि (3.1.43) इति च्लि] → पा + सिच् + ल् [च्लेः सिच् (3.1.44) इति सिच्] → पा + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इति सिचः लुक्] → अट् + पा + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + पा + झि [तिप्तस्.. (3.4.78) इति झि-प्रत्ययः] → अ + पा + जुस् [आतः (3.4.110) इत्यनेन आकारान्त-अङ्गात् परस्य सिच्-लुकः परस्य झि-इत्यस्य जुस्-आदेशः → अपुस् [उस्यपदान्तात् (6.1.96) इति आकार-उकारयोः पररूप-एकादेशः उकारः] → अपुः [विसर्गनिर्माणम्] यदि अङ्गमाकारान्तम् नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा, भू-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् यद्यपि गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (2.4.77) इति सिचः लुक् भवति, तथापि अङ्गमाकारान्तम् नास्ति अतः अस्मात् परस्य झि-इत्यस्य जुस्-आदेशः न भवति ।

Sutrartha (English)

For an आकारान्त अङ्ग, even when the सिच् प्रत्यय is removed, the झि-प्रत्यय of a ङित्-लकार is converted to जुस्.

Vasu English Summary

When सिच् is elided जुस् is the substitute of झि after a लुङ् (Aorist) stem which ends in long आ।

Vasu English Translation

When सिच् is elided जुस् is the substitute of झि after a लुङ् (Aorist) stem which ends in long आ। The सिच् is elided by rule (2.4.77). Thus अदुः, अधुः, अस्थुः । In other words, in those cases, where सिच् is elided by rules (2.4.77), (2.4.78) and (2.4.79), only जुस् is the substitute of झि where the verbs end in long आ । In other words, this sutra restricts the scope of the last sutra, by which after every सिच्, जुस् was to replace झि ।

The Present sutra says that after verbs in which सिच् has been elided, जुस् does not replace झि in the case of any other verb than that which ends in long आ; it is thus a niyama rule.

Thus, by rule (2.4.77), सिच् is elided after the verb भू, but as भू does not end in long आ, its 3rd person plural Aorist will not be in जुस् । Thus, अनुभवन् । Here, by the last rule, and on the maxim that ‘though सिच् is elided, yet its force remains (1.1.62)’, जुस् would have replaced झि; but the present sutra prohibits that. But where the सिच् is not elided, there, of course, जुस् does come. Thus अकार्षुः, अहार्षुः ।

Bhashya

आतः (1271) (616 नियमसूत्रम् ॥ 3 । 4 । 1 आ.28) (आक्षेपभाष्यम्) किमिदं जुस्याकारग्रहणं नियमार्थम्। आहो स्वित्प्रापकम् ॥ (प्रत्याक्षेपभाष्यम्) कथं च नियमार्थं स्यात्। कथं वा प्रापकम्। (प्रत्याक्षेपसमाधानभाष्यम्) यदि सिज्ग्रहणमनुवर्तते। ततो नियमार्थम् ॥ अथ निवृत्तम्। ततः प्रापकम् ॥ (विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः। (5088 नियमपक्षदूषणवार्तिकम् ॥ 1 ॥) - जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम्- (भाष्यम्) जुसि आकारग्रहणं नियमार्थमिति चेत् सिज्लुग्ग्रहणं कर्तव्यम्। आतः सिज्लुगन्तादिति वक्तव्यम्। इह मा भूत् - अकार्षुः। अहार्षुः ॥ (5089 विध्यर्थत्वपक्षाङ्गीकारभाष्यम्) प्रापकमिति चेत्प्रत्ययलक्षणस्य प्रतिषेधो वक्तव्यः। अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति। (5090 दूषणान्तरवार्तिकम्) एवकारकरणं च ॥ भाष्यम् - एवकारकरणं च कर्तव्यम्। लङः शाकटायनस्यैवेति। नियमार्थे पुनः सति नार्थ एवकारकरणेन । (आक्षेपभाष्यम्) ननु च प्रापकेऽपि सति सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति। (समाधानभाष्यम्) इष्टतोऽवधारणार्थस्तर्ह्रोवकारः कर्तव्यः - यथैवं विज्ञायते लङः शाकटायनस्यैव इति। मैवं विज्ञायि लङ एव शाकटायनस्य इति। (आक्षेपभाष्यम्) किं च स्यात्। (समाधानभाष्यम्) लुङः शाकटायनस्य न स्यात् । अदुः। अयुः। अधुः। अस्थुः ॥ (5091 गौरववार्तिकम्) भाष्यम् - लङ्ग्रहणं च कर्तव्यम् - लङः शाकटायनस्यैव इति। नियमार्थे पुनः सति नार्थो लङ्ग्रहणेन । आतो ङित इति वर्तते। न चान्य आकारादनन्तरो ङिदस्ति अन्यदतो लङः। (निमार्थत्वपक्षाङ्गीकरभाष्यम्) अस्तु तर्हि नियमार्थम्। (दूषणस्मारणभाष्यम्) ननु चोक्तं जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम् इति। (दूषणस्मारणभाष्यम्) नैष दोषः। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः। यो द्वाभ्यामनन्तरः, आतश्च सिचश्च । (आक्षेपभाष्यम्) अथ तदेवकारकरणं नैव कर्तव्यम्। (सिद्धान्तसमाधानभाष्यम्) कर्तव्यं च । किं प्रयोजनम्। उत्तरार्थम्। लिट् च लिङाशिषि आर्धधातुकमेव यथा स्यात्। इतरथा हि वचनादार्धधातुकसंज्ञा स्यात्। तिङ्ग्रहणेन च ग्रहणात्सार्वधातुकसंज्ञा। (आक्षेपभाष्यम्) अथ तल्लङ्ग्रहणं नैव कर्तव्यम्। (समाधानभाष्यम्) कर्तव्यं च किं प्रयोजनम् लङेव यो लङ् तत्र यथा स्यात्। लङ्गवद्भावेन यो लङ् तत्र मा भूदिति ॥ आतः ॥110 ॥

Kashika

सिज्ग्रहणमनुवर्तते। सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति। कथमाभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेणैव सिद्धे नियमार्थं वचनम् — आत एव सिज्लुगन्ताद्, नान्यस्मादिति। अभूवन्। प्रत्ययलक्षणेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वाद् नियमस्य। श्रूयमाणे हि सिचि भवत्येव — अकार्षुः। अहार्षुः॥

Siddhanta Kaumudi

सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ॥

Laghu Siddhanta Kaumudi

सिज्लुकि आदन्तादेव झेर्जुस्॥

Balamanorama

आतः - आतः ।झेर्जु॑सिति सूत्रमनुवर्तते ।आतः सिज्लुगन्तादिति वक्तव्य॑मिति वार्तिकं भाष्ये पठितम् । ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम् । तदाह — आदन्तादेवेति । अभूवन्निति । झिः । च्लिः । सिच् । लुक् । अट् । झोऽन्तः । इतश्चेति इकारलोपः । तकारस्य संयोगान्तलोपः ।भुवो वुग्लुङ्लिटो॑रिति वुक् । सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः । अभूरिति । सिप् च्लिः सिच् लुक् अट् इकारलोपः । रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः सिच् लुक् अट् । गुणनिषेधः । एवं थस्य तादेशे अभूतेति रूपम् । अभूवमिति । मिप् अम् । च्लिः सिच् । लुक् । अट् वुक् । अभूवेति । वस् च्लिः सिच् लुक् अट् । नित्यं ङित इति सकारलोपः । गुणनिषेधः । एवं मसि अभूमेति रूपम् । अथ माङि लुङि विशेषमाह — न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे -अडादौ न स्त इति ।लुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यत,आडजादीना॑मित्यश्च तदनुवृत्तेरिति भावः । मा भवान्भूदिति ।मा स्म भवद्भूद्वेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुङ्प्रक्रिया ।

Tattvabodhini

आतः - सिज्ग्रहणमंनुवर्तते,झेर्जु॑सिति च । सिच आकाराच्च परसय् झेर्जुस् । तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह — सिज्लुकीति ।गातिस्थे॑ति सूत्रेणेत्यर्थः ।सिज्यभ्यस्ते॑ति पूर्वसूत्रेणवादन्तादपि झेर्जुस् सिद्धे स्थिते नियमार्थोऽयमित्याह — आदन्तादेवेति ।

Padamanjari

सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति ।’भुवो वुग्लुङ्लिटोः’ इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन - सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ॥

Nyaas

सिचः परस्याकारान्तादुत्तरस्य झेरिति ब्राउवता द्वाभ्यमप्यनन्तरसय् झेरित्युक्तं भवति। उभाभ्याञ्चानन्तर्यं न सम्भवति, आतः सिचा व्यवधानादिति मन्यमानः पृच्छति - कथम् इत्यादि। सिचो लुकि इति। गातिस्था (2.4.77) इत्यादिना यदा सिचो लुक् क्रियते तदा प्रत्ययलक्षणेन सिचोऽनन्तरः सम्भवति। श्रुत्या चाकारान्तात् इति। तदनन्तरश्रूयमाणत्वात्। श्रुत्येति श्रोत्रेन्द्रियसाध्योपलब्ध्येत्यर्थः। तदेवं द्वाभ्यामप्यानन्तर्यस्याश्रयणात् सामर्थ्यादातः सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति। न हि श्रूयमाणे सिचि द्वाभ्यामानन्तर्यं सम्भवति। तकारो मुखसुखार्थः इति। व्यावर्त्त्याभावात्। न हि ह्रस्वात् प्लुताद्वा वर्णात् परः सिच् सम्भवति।पूर्वेणैव सिद्धे इति। लुप्तेऽपि सिचि प्रत्ययलक्षणेन झेः सिजनन्तरत्वादभूविन्निति नियमस्य व्यावत्र्यं दर्शयति। भुवो वुग् लुङलिटोः (6.4.88) इति वुक्। ननु च नैवेह पूर्वसूत्रेण प्राप्नोति, न हीह सिजपेक्षयानन्तर्यं झेर्विद्यते, तत् किं प्रतिषिध्यत इत्याह - प्रत्ययलक्षणेन इत्यादि। लुप्ते हि प्रत्ययलक्षणेनानन्तर्यमस्ति, अतः पूर्वेण प्राप्नोति। जुस् नियमेन प्रतिषिध्यते। यदि तर्हि नियमार्थमिदम्, अकार्षुः इत्यत्रापि न स्यात्, न ह्यत्रातः सिज्लुगन्तात्परो झिर्भवतीति? इत्यत आह - तुल्यजातीय इत्यादि। आतः सिज्लुगन्तान्नियमार्थमयं जुस् विधीयते। स च नियमस्तुल्यजातीयापेक्षः, तेन समानजातीयमेव व्यवच्छिनत्ति। कश्च समानजातीयः? अन्यः {सिजलुगन्तः इति मु।पाठः।} सिज्लुगन्तः। न चाकार्षुरित्यत्र झेः पूर्वः सिज्लुगन्तः इति नायं नियमस्य विषयः, तेन भवत्येव जुस्॥

Prakriyasarvasvam

सिज्जुकि आदन्तादेव झेर्जुस् स्यात् । धा उस् ।

Sutra Prayogas

  • श्रदधुः (शिशुपालवधम्): आतः इति झेर्जुसादेशः।