34110: आतः ========== **Padacheda:** आतः | S | 5 | 1 | Sutrartha --------- **आकारात् अङ्गात् परस्य यः सिच्, तस्य लुकि अपि तस्मात् परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।** अस्य सूत्रस्य अर्थम् स्पष्टरूपेण ज्ञातुम् सूत्रे 'लुगन्तात्' इति पदम् स्वीकरणीयम् । अस्मिन विषये भाष्ये एकं वार्तिकं दीयते - । इत्युक्ते, सिच्-प्रत्ययस्य यदि लुक्-भवति, तर्हि तस्मात् परस्य झि-प्रत्ययस्य जुस्-आदेशः तदैव भवति यदा अङ्गमाकारान्तमस्ति । यथा, भ्वादिगणस्य पा-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - पा + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → पा + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि] → पा + सिच् + ल् [**च्लेः सिच्** (3.1.44) इति सिच्] → पा + ल् [**गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति सिचः लुक्] → अट् + पा + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + पा + झि [**तिप्तस्..** (3.4.78) इति झि-प्रत्ययः] → अ + पा + जुस् [**आतः** (3.4.110) इत्यनेन आकारान्त-अङ्गात् परस्य सिच्-लुकः परस्य झि-इत्यस्य जुस्-आदेशः → अपुस् [**उस्यपदान्तात्** (6.1.96) इति आकार-उकारयोः पररूप-एकादेशः उकारः] → अपुः [विसर्गनिर्माणम्] यदि अङ्गमाकारान्तम् नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा, भू-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् यद्यपि **गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति सिचः लुक् भवति, तथापि अङ्गमाकारान्तम् नास्ति अतः अस्मात् परस्य झि-इत्यस्य जुस्-आदेशः न भवति । Sutrartha (English) ------------------- For an आकारान्त अङ्ग, even when the सिच् प्रत्यय is removed, the झि-प्रत्यय of a ङित्-लकार is converted to जुस्. Vasu English Summary -------------------- When सिच् is elided जुस् is the substitute of झि after a लुङ् (Aorist) stem which ends in long आ। Vasu English Translation ------------------------ When सिच् is elided जुस् is the substitute of झि after a लुङ् (Aorist) stem which ends in long आ। The सिच् is elided by rule (2.4.77). Thus अदुः, अधुः, अस्थुः । In other words, in those cases, where सिच् is elided by rules (2.4.77), (2.4.78) and (2.4.79), only जुस् is the substitute of झि where the verbs end in long आ । In other words, this *sutra* restricts the scope of the last *sutra*, by which after every सिच्, जुस् was to replace झि । The Present *sutra* says that after verbs in which सिच् has been elided, जुस् does not replace झि in the case of any other verb than that which ends in long आ; it is thus a *niyama* rule. Thus, by rule (2.4.77), सिच् is elided after the verb भू, but as भू does not end in long आ, its 3rd person plural Aorist will not be in जुस् । Thus, अनुभवन् । Here, by the last rule, and on the maxim that 'though सिच् is elided, yet its force remains (1.1.62)', जुस् would have replaced झि; but the present *sutra* prohibits that. But where the सिच् is not elided, there, of course, जुस् does come. Thus अकार्षुः, अहार्षुः । Bhashya ------- आतः (1271) (616 नियमसूत्रम् ॥ 3 । 4 । 1 आ.28) (आक्षेपभाष्यम्) किमिदं जुस्याकारग्रहणं नियमार्थम्। आहो स्वित्प्रापकम् ॥ (प्रत्याक्षेपभाष्यम्) कथं च नियमार्थं स्यात्। कथं वा प्रापकम्। (प्रत्याक्षेपसमाधानभाष्यम्) यदि सिज्ग्रहणमनुवर्तते। ततो नियमार्थम् ॥ अथ निवृत्तम्। ततः प्रापकम् ॥ (विशेषजिज्ञासाभाष्यम्) कश्चात्र विशेषः। (5088 नियमपक्षदूषणवार्तिकम् ॥ 1 ॥) - जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम्- (भाष्यम्) जुसि आकारग्रहणं नियमार्थमिति चेत् सिज्लुग्ग्रहणं कर्तव्यम्। आतः सिज्लुगन्तादिति वक्तव्यम्। इह मा भूत् - अकार्षुः। अहार्षुः ॥ (5089 विध्यर्थत्वपक्षाङ्गीकारभाष्यम्) प्रापकमिति चेत्प्रत्ययलक्षणस्य प्रतिषेधो वक्तव्यः। अभूवन्निति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति। (5090 दूषणान्तरवार्तिकम्) एवकारकरणं च ॥ भाष्यम् - एवकारकरणं च कर्तव्यम्। लङः शाकटायनस्यैवेति। नियमार्थे पुनः सति नार्थ एवकारकरणेन । (आक्षेपभाष्यम्) ननु च प्रापकेऽपि सति सिद्धे विधिरारभ्यमाणोन्तरेणैवकारं नियमार्थो भविष्यति। (समाधानभाष्यम्) इष्टतोऽवधारणार्थस्तर्ह्रोवकारः कर्तव्यः - यथैवं विज्ञायते लङः शाकटायनस्यैव इति। मैवं विज्ञायि लङ एव शाकटायनस्य इति। (आक्षेपभाष्यम्) किं च स्यात्। (समाधानभाष्यम्) लुङः शाकटायनस्य न स्यात् । अदुः। अयुः। अधुः। अस्थुः ॥ (5091 गौरववार्तिकम्) भाष्यम् - लङ्ग्रहणं च कर्तव्यम् - लङः शाकटायनस्यैव इति। नियमार्थे पुनः सति नार्थो लङ्ग्रहणेन । आतो ङित इति वर्तते। न चान्य आकारादनन्तरो ङिदस्ति अन्यदतो लङः। (निमार्थत्वपक्षाङ्गीकरभाष्यम्) अस्तु तर्हि नियमार्थम्। (दूषणस्मारणभाष्यम्) ननु चोक्तं जुस्याकारग्रहणं नियमार्थमिति चेत् सिज्लुक्ग्रहणम् इति। (दूषणस्मारणभाष्यम्) नैष दोषः। तुल्यजातीयस्य नियमः। कश्च तुल्यजातीयः। यो द्वाभ्यामनन्तरः, आतश्च सिचश्च । (आक्षेपभाष्यम्) अथ तदेवकारकरणं नैव कर्तव्यम्। (सिद्धान्तसमाधानभाष्यम्) कर्तव्यं च । किं प्रयोजनम्। उत्तरार्थम्। लिट् च लिङाशिषि आर्धधातुकमेव यथा स्यात्। इतरथा हि वचनादार्धधातुकसंज्ञा स्यात्। तिङ्ग्रहणेन च ग्रहणात्सार्वधातुकसंज्ञा। (आक्षेपभाष्यम्) अथ तल्लङ्ग्रहणं नैव कर्तव्यम्। (समाधानभाष्यम्) कर्तव्यं च किं प्रयोजनम् लङेव यो लङ् तत्र यथा स्यात्। लङ्गवद्भावेन यो लङ् तत्र मा भूदिति ॥ आतः ॥110 ॥ Kashika ------- सिज्ग्रहणमनुवर्तते। सिच आकारान्ताच्च परस्य झेर्जुसादेशो भवति। कथमाभ्यामानन्तर्यम्? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति। अदुः। अधुः। अस्थुः। तकारो मुखसुखार्थः। पूर्वेणैव सिद्धे नियमार्थं वचनम् — आत एव सिज्लुगन्ताद्, नान्यस्मादिति। अभूवन्। प्रत्ययलक्षणेन जुस् प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वाद् नियमस्य। श्रूयमाणे हि सिचि भवत्येव — अकार्षुः। अहार्षुः॥ Siddhanta Kaumudi ----------------- सिज्लुक्यादन्तादेव झेर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ॥ Laghu Siddhanta Kaumudi ----------------------- सिज्लुकि आदन्तादेव झेर्जुस्॥ Balamanorama ------------ **आतः** - आतः ।झेर्जु॑सिति सूत्रमनुवर्तते ।आतः सिज्लुगन्तादिति वक्तव्य॑मिति वार्तिकं भाष्ये पठितम् । ततस्च सिज्लुकि यदाकारान्तं तस्मात्परस्य झेर्जुसिति लभ्यते । सिजभ्यस्तेति पूर्वसूत्रेणैव सिद्धे नियार्थमिदम् । तदाह — आदन्तादेवेति । अभूवन्निति । झिः । च्लिः । सिच् । लुक् । अट् । झोऽन्तः । इतश्चेति इकारलोपः । तकारस्य संयोगान्तलोपः ।भुवो वुग्लुङ्लिटो॑रिति वुक् । सिज्लुकि आतः परस्यैवेति नियमात्सिजभ्यस्तेति न जुसिति भावः । अभूरिति । सिप् च्लिः सिच् लुक् अट् इकारलोपः । रुत्वविसर्गौ । अभूतमिति । थसस्तम् च्लिः सिच् लुक् अट् । गुणनिषेधः । एवं थस्य तादेशे अभूतेति रूपम् । अभूवमिति । मिप् अम् । च्लिः सिच् । लुक् । अट् वुक् । अभूवेति । वस् च्लिः सिच् लुक् अट् । नित्यं ङित इति सकारलोपः । गुणनिषेधः । एवं मसि अभूमेति रूपम् । अथ माङि लुङि विशेषमाह — न माङयोगे । शेषपूरणेन सूत्रं व्याचष्टे -अडादौ न स्त इति ।लुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यत,आडजादीना॑मित्यश्च तदनुवृत्तेरिति भावः । मा भवान्भूदिति ।मा स्म भवद्भूद्वेति । एवं बहुवचने मा स्म भवन् मा स्म भूवन्निति चोदाहरणं बोध्यम् । इति लुङ्प्रक्रिया । Tattvabodhini ------------- **आतः** - सिज्ग्रहणमंनुवर्तते,झेर्जु॑सिति च । सिच आकाराच्च परसय् झेर्जुस् । तत्र प्रत्ययलक्षणेन सिचः परत्वमाकारात्तु श्रुत्या । एवं स्थिते फलितमाह — सिज्लुकीति ।गातिस्थे॑ति सूत्रेणेत्यर्थः ।सिज्यभ्यस्ते॑ति पूर्वसूत्रेणवादन्तादपि झेर्जुस् सिद्धे स्थिते नियमार्थोऽयमित्याह — आदन्तादेवेति । Padamanjari ----------- सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति ।'भुवो वुग्लुङ्लिटोः' इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन - सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ॥ Nyaas ----- सिचः परस्याकारान्तादुत्तरस्य झेरिति ब्राउवता द्वाभ्यमप्यनन्तरसय् झेरित्युक्तं भवति। उभाभ्याञ्चानन्तर्यं न सम्भवति, आतः सिचा व्यवधानादिति मन्यमानः पृच्छति - `कथम्` इत्यादि। `सिचो लुकि` इति। `गातिस्था` (2.4.77) इत्यादिना यदा सिचो लुक् क्रियते तदा प्रत्ययलक्षणेन सिचोऽनन्तरः सम्भवति। `श्रुत्या चाकारान्तात्` इति। तदनन्तरश्रूयमाणत्वात्। श्रुत्येति श्रोत्रेन्द्रियसाध्योपलब्ध्येत्यर्थः। तदेवं द्वाभ्यामप्यानन्तर्यस्याश्रयणात् सामर्थ्यादातः सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति। न हि श्रूयमाणे सिचि द्वाभ्यामानन्तर्यं सम्भवति। `तकारो मुखसुखार्थः` इति। व्यावर्त्त्याभावात्। न हि ह्रस्वात् प्लुताद्वा वर्णात् परः सिच् सम्भवति।`पूर्वेणैव सिद्धे` इति। लुप्तेऽपि सिचि प्रत्ययलक्षणेन झेः सिजनन्तरत्वादभूविन्निति नियमस्य व्यावत्र्यं दर्शयति। `भुवो वुग् लुङलिटोः` (6.4.88) इति वुक्। ननु च नैवेह पूर्वसूत्रेण प्राप्नोति, न हीह सिजपेक्षयानन्तर्यं झेर्विद्यते, तत् किं प्रतिषिध्यत इत्याह - `प्रत्ययलक्षणेन` इत्यादि। लुप्ते हि प्रत्ययलक्षणेनानन्तर्यमस्ति, अतः पूर्वेण प्राप्नोति। जुस् नियमेन प्रतिषिध्यते। यदि तर्हि नियमार्थमिदम्, `अकार्षुः` इत्यत्रापि न स्यात्, न ह्यत्रातः सिज्लुगन्तात्परो झिर्भवतीति? इत्यत आह - `तुल्यजातीय` इत्यादि। आतः सिज्लुगन्तान्नियमार्थमयं जुस् विधीयते। स च नियमस्तुल्यजातीयापेक्षः, तेन समानजातीयमेव व्यवच्छिनत्ति। कश्च समानजातीयः? अन्यः {सिजलुगन्तः इति मु।पाठः।} सिज्लुगन्तः। न चाकार्षुरित्यत्र झेः पूर्वः सिज्लुगन्तः इति नायं नियमस्य विषयः, तेन भवत्येव जुस्॥ Prakriyasarvasvam ----------------- सिज्जुकि आदन्तादेव झेर्जुस् स्यात् । धा उस् । Sutra Prayogas -------------- * **श्रदधुः** (शिशुपालवधम्): `आतः` इति झेर्जुसादेशः।