34109: सिजभ्यस्तविदिभ्यश्च

Padacheda: सिच्-अभ्यस्त-विदिभ्यः | S | 5 | 3 |

च | S | 0 | 0 |

Sutrartha

सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य झि-प्रत्ययस्य जुस्-आदेशः भवति ।

सिच्-प्रत्ययात् परस्य, अभ्यस्तात् परस्य, तथा विद्-धातुभ्यः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । क्रमेण पश्यामः - 1. लुङ्लकारस्य विषये धातोः च्लि लुङि (3.1.43) इत्यनेन ‘च्लि’ विकरणप्रत्ययः भवति । अस्य औत्सर्गिकरूपेण च्लेः सिच् (3.1.44) इति सिच्-आदेशः विधीयते । अस्मात् परस्य परस्मैपदस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः भवति । यथा, कृ-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - कृ + लुङ् [लुङ् (3.2.110) इति लुङ्] कृ + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → कृ + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः । → कृ + स् + ल् [चकारस्य इत्संज्ञा, लोपः । इकारः उच्चारणार्थः ।] → अट् + कृ + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + कृ + स् + झि [तिप्तस्झि… (3.4.78) इति प्रथमपुरुष-बहुवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः झि-प्रत्ययः] → अ + कृ + स् + जुस् [सिजभ्यस्तविदिभ्यश्च (3.4.109) इति सिच्-प्रत्ययात् परस्य झि-प्रत्ययस्य जुस्-आदेशः] → अ + कार् + स् उस् [सिचि वृद्धिः परस्मैपदेषु (7.2.1) इत्यनेन सिच्-प्रत्यये परे इगन्तस्य अङ्गस्य वृद्धिः । ऋकारस्य वृद्धिः रपरः आकारः ।] → अकार्षुः [विसर्गनिर्माणम्, आदेशप्रत्यययोः (8.3.59) इति षत्वम्] 2. अभ्यस्त-संज्ञकात् परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा - दा-धातोः परस्मैपदस्य लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - दा + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + दा + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अ + दा + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → अ + दा + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → अ + दा + झि [जुहोत्यादिभ्यः श्लुः (2.4.75) इति शपः श्लुः (लोपः) ] → अ + दा + दा + झि [श्लौ (6.1.10) इति द्वित्वम्] → अ + द + दा + झि [ह्रस्वः (7.4.59) इति अभ्यासस्य ह्रस्वः] → अ + द + दा + जुस् [अदभ्यस्तात् (7.1.4) इति अभ्यस्तात् परस्य झि-इत्यस्य अत्-आदेशे प्राप्ते अपवादत्वेन सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झि-इत्यस्य जुस्-आदेशः] → अ + द + द् + उस् [श्नाभ्यस्तयोरातः**(6.4.112) इति आकारलोपः] → अददुः 3. विद्-धातोः परस्य ङित्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य अनेन सूत्रेण जुस्-आदेशः विधीयते । यथा, विद्-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् - विद् + लिङ् [**विधिनिमन्त्रणा… (3.3.161) इति लिङ्] → विद् + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → विद् + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → विद् + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शपः श्लुः (लोपः) ] → विद् + जुस् [ सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झि-इत्यस्य जुस्-आदेशः] → विदुः [**श्नाभ्यस्तयोरातः**(6.4.112) इति आकारलोपः]

Sutrartha (English)

The झि-प्रत्यय of a ङित्-लकार that follows सिच्, अभ्यस्त or the verb root विद् is converted to जुस्.

Vasu English Summary

(In those tenses which are marked with an indicatory ङ् ) जुस् is the substitute of झि when it comes after an लुङ् (Aorist) in सिच् or the लङ् (Imperfect Tense) of a reduplicated verb or the root विद् ‘to know’.

Vasu English Translation

(In those tenses which are marked with an indicatory ङ् ) जुस् is the substitute of झि when it comes after an लुङ् (Aorist) in सिच् or the लङ् (Imperfect Tense) of a reduplicated verb or the root विद् ‘to know’. This applies to tenses having ङ् other than that of लिङ्, namely, the लङ् and लुङ् ।

सिच् is employed in forming the first Aorist. The reduplicated verbs, as well as the verb विद्, form their third person plural in जुस्, in the tenses other than लिङ्, and those that take सिच् । The word ङितः of sutra (3.4.99), is understood here also; and therefore this rule is restricted to the Imperfect (लङ्) of the reduplicated verb. Thus of सिच्, we have अकार्षुः, अहार्षः । Similarly, after the Imperfect of the reduplicated verbs, we have अविभयुः, अजिहयुः, अजागरुः । In the case of विद्, we have अविदुः ।

Kashika

अलिङर्थ आरम्भः। सिचः परस्य, अभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य झेर्जुसादेशो भवति। अभ्यस्तविदिग्रहणमसिजर्थम्। ङित इति चानुवर्तते। सिचस्तावत् — अकार्षुः। अहार्षुः। अभ्यस्तात् — अबिभयुः। अजिह्रयुः। अजागरुः। विदेः — अविदुः॥

Siddhanta Kaumudi

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥

Laghu Siddhanta Kaumudi

सिचोऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ {$ {! 3 षिध !} गत्याम् $} (धातुपाठे (01.0049))॥

Balamanorama

सिजभ्यस्तविदिभ्यश्च - सिजभ्यस्तविदि ।झेर्ज॑सिति सूत्रमनुवर्तते । ‘नित्यं ङित’ इत्यतो ङित इति च । तदाह — सिचोऽभ्यस्तादित्यादिना । इति प्राप्त इति ।लिङो झेर्जुसी॑ति शेषः ।

Padamanjari

सताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह - वेतेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह - ङ्तीति चानुवर्तत इति ॥

Nyaas

वेत्तेश्च इति निर्देशेन लुग्विकरणस्यैवेह ग्रहणमिति दर्शयति। तस्यैव हि झिरनन्तरः सम्भवति,नान्येषां विदीनाम्। विकरणैव्र्यवधानात्। सत्ताविचारणार्थयोरात्मनेपदित्वात् झेरसम्भव एव, तस्माल्लुग्विकरणस्यैव ग्रहणं युक्तम्। अभ्यस्तविदिग्रहणमसिजर्थम् इति। यद्यभ्यस्तविदिग्रहणमसिजर्थम्, एवं सति लडादिसम्बन्धिनोऽपि झेः प्राप्नोतीत्यत आह - ङित इति चानुवर्तते इति। तेन ङिल्लकारसम्बन्धिन एव झेर्जुस् भविष्यति, नान्येषामित्यभिप्राय-। अबिभयुः, अजिह्ययुः इति। ञि भीभये (धातुपाठः-1084), ह्री लज्जायाम् (धातुपाठः-1085), जुजि च (7.3.83) इति गुणः, जुहोत्यादिभ्यः शपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्। अजागरुः इति। अदादित्वाच्छपो लुक्; जागर्तेः जक्षित्यादय षट् (6.1.6) इत्यभ्यस्तसंज्ञा॥

Prakriyasarvasvam

सिजादिभ्यः परस्य झिल्लकारसम्बन्धिनो झेर्जुस् स्यात् । अजैषुः । सिपि तिब्वत् । अजैषीः अजैष्टम् अजैष्ट । अजैषम् अजैष्व अजैष्म । भावादौ चिण् । अजायि । अजन्तत्वात् ‘स्यसिच्-’ इति वा चिण्वदिट् । अजायिषाताम्, अजैषाताम् । अत्र तङत्वात् सिचि वृद्धयभावः । ध्वमि चिण्वदिटि ‘विभाषेटः’ इति वा ढः । अजायिढ्वम् अजायिध्वम् । अन्यत्र,

Sutra Prayogas

  • प्रतीषुर्विनयादुपास्थुर्जगुः (भट्टिकाव्यम्): सिजभ्यस्तविदिभ्यश्च इति झेर्जुस्।

  • गुणिनोऽध्यवात्सुः (भट्टिकाव्यम्): सिजभ्यस्त इति जुस्।

  • अविदुर्द्विषः (भट्टिकाव्यम्): सिजभ्यस्त - विदिभ्यश्च इति झेर्जुस्।

  • अबिभरुः (भट्टिकाव्यम्): सिजभ्यस्त इति झेर्जुस्।