34111: लङः शाकटायनस्यैव¶
Padacheda: लङः | S | 6 | 1 |
शाकटायनस्य | S | 6 | 1 |
एव | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In the opinion of शाकटायन only जुस् is the substitute of झि , in the लङ् (Imperfect Tense) of the roots which end in a long आ।
Vasu English Translation¶
In the opinion of शाकटायन only जुस् is the substitute of झि , in the लङ् (Imperfect Tense) of the roots which end in a long आ। Thus अयुः, अवुः । In the alternative, we have अयान् and अवान् ।
Why is लङ् repeated here, when the context would have supplied this word; for the sutra applies to ङित् tenses, of which लुङ् being dealt with in the last, would have लङ् only to be dealt with by this aphorism, for no other ङित् tense (like लिङ् or लृङ्) can end in आ ? The repetition shows that the rule applies to those affixes which come after लङ् as लङ्, and not to those which come after another tense which is treated like लङ् । Thus लोट् is treated like लङ्, but for the purposes of this rule, लोट् would not be so treated. Thus the झि of लोट् will not be changed into जुस् by (3.4.109). Thus बिभ्यतु, जाग्रतु, विदन्तु । The word एव has been used in the sutra, for the sake of the subsequent sutra.
Kashika¶
आत इत्येव। आकारान्तादुत्तरस्य लङादेशस्य झेर्जुसादेशो भवति शाकटायनस्याचार्यस्य मतेन। अयुः। अवुः। अन्येषां मते — अयान्। अवान्। ननु ङित इत्यनुवर्तते। अत्र लङेवाकारान्तादनन्तरो ङित् संभवति नान्यः, तत्किं लङ्ग्रहणेन? एवं तर्हि लङेव यो लङ् विहितस्तस्य यथा स्यात्, लङ्वद्भावेन यस्तस्य मा भूत् — लोटो लङ्वत्**(३.४.८५) इति। यान्तु। वान्तु। **सिजभ्यस्तविदिभ्यश्च (३.४.१०९) इत्ययमपि झेर्जुस् लोटो न भवति। बिभ्यतु। जाग्रतु। विदन्तु। जुस्भावमात्रं हि मुख्येन लङा विशेष्यते। एवकार उत्तरार्थः॥
Siddhanta Kaumudi¶
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् ।{$ {!1050 वा!} गतिगन्धनयोः$} । गन्धनं सूचनम् ।{$ {!1051 भा!} दीप्तौ$} ।{$ {!1052 ष्णा!} शौचे$} ।{$ {!1053 श्रा!} पाके $}।{$ {!1054 द्रा!} कुत्सायां गतौ$} ।{$ {!1055 प्सा!} भक्षणे $}।{$ {!1056 पा!} रक्षणे$} । पायास्ताम् । अपासीत् ।{$ {!1057 रा!} दाने$} ।{$ {!1058 ला!} आदाने$} । द्वावपि दाने इति चन्द्रः ।{$ {!1059 दाप्!} लवने$} । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् ।{$ {!1060 ख्या!} प्रकथने$} । अयं सार्वधातुकमात्रविषयः ॥<!सस्थानत्वं नमः ख्यात्रे इति वार्तिकम् !> (वार्तिकम्) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः ।{$ {!1061 प्रा!} पूरणे$} ।{$ {!1062 मा!} माने$} । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-(SK2285) इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति ।{$ {!1063 वच!} परिभाषणे$} । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् ।{$ {!1064 विद!} ज्ञाने$} ॥
Laghu Siddhanta Kaumudi¶
आदन्तात्परस्य लङो झेर्जुस् वा स्यात्। अयुः, अयान्। यायात्। यायाताम्। यायुः। यायात्। यायास्ताम्। यायासुः। अयासीत्। अयास्यत्। ॥ {$ {! 5 वा !} गतिगन्धनयोः $} (धातुपाठे (02.0045)) ॥ {$ {! 6 भा !} दीप्तौ $} (धातुपाठे (02.0046)) ॥ {$ {! 7 ष्णा !} शौचे $} (धातुपाठे (02.0047)) ॥ {$ {! 8 श्रा !} पाके $} (धातुपाठे (02.0048)) ॥ {$ {! 9 द्रा !} कुत्सायां गतौ $} (धातुपाठे (02.0049)) ॥ {$ {! 10 प्सा !} भक्षणे $} (धातुपाठे (02.0050))॥ {$ {! 11 रा !} दाने $} (धातुपाठे (02.0052)) ॥ {$ {! 12 ला !} आदाने $} (धातुपाठे (02.0053)) ॥ {$ {! 13 दाप् !} लवने $} (धातुपाठे (02.0054)) ॥ {$ {! 14 पा !} रक्षणे $} (धातुपाठे (02.0051)) ॥ {$ {! 15 ख्या !} प्रकथने $} (धातुपाठे (02.0055)) ॥ अयं सार्वधातुक एव प्रयोक्तव्यः॥ {$ {! 16 विद !} ज्ञाने $} (धातुपाठे (02.0059)) ॥
Balamanorama¶
लङः शाकटायनस्यैव - लङः शाकटायनस्यैव ।झेर्जुसि॑ति ‘आत’ इति चानुवर्तते । तदाह — आदन्तादिति । जुस्वेति । शाकटायनग्रहणाद्वकल्पलाभ इति भावः । एवकारस्तु ‘लिट् च’लिङाशिषी॑त्युत्तरार्थ इति भाष्ये स्पष्टम् । नचलोटो लङ्व॑दित्यतिदेशाद्यान्तु इत्यत्रापिजुस्विकल्पः शङ्क्यः,॒नित्यं ङितः॑ इत्यतो हित इत्यनुवृत्त्यैव सिद्देर्लङ्ग्रहमस्य लङ्वद्भावमादाय प्रवृत्तिनिवारणार्थत्वात् । इदमपि भाष्ये स्पष्टम् । अयानिति । जुसभावे रूपम् । अयासीत् । ष्णाधातुः षोपदेशः । नस्य ष्टुत्वेन णत्वनिर्देशः । स्नाति । स्नायात्-स्नेयात् । पा रक्षणे ।एर्लिङी॑ति सूत्रेगातिस्थे॑त्यत्र च पिबतेरेव ग्रहणादेत्त्वसिज्लुकौ न । तदाह — पायास्ताम् । अपासीदिति । दाप् लवने । घुत्वाऽभावात्शेषे विभाषे॑ति णत्वविकल्पं मत्वा आह — प्रणिदाति प्रनिदातीति । घुत्वाऽभावादाशीर्लिङि एत्वं, लुङि लुक्, च नेति मत्वाऽऽह अदायास्तामिति । अदासीदिति च । ख्या प्रकथन.सार्वधातुकमात्रविषय इति । मात्रशब्दोऽवधारणे । सार्वधातुक एवास्य ख्याधातोः प्रयोगः,न त्वार्धधातुक इत्यर्थः । कुत इत्यत आह — सस्थानत्वमिति ।चक्षिङ ख्या॑ञिति सूत्रे ख्यास्थाने ‘ख्याञ्’ इति वक्तव्यम् । अस्य शकारस्यपूर्वत्रासिद्ध॑मित्यधिकारे यकारो वक्तव्य इत्युक्तवाप्रयोजननं सौप्रख्ये वुञ्विधि॑रित्युपक्रम्यसस्थानत्वं नमः ख्यात्रे॑ इत्युक्तं वार्तिके । तत्र नञमध्याह्मत्य ‘नमः ख्यात्रे’ इति सस्थानत्वं न भवतीति व्याख्यातं भाष्ये । तदिदं वार्तिकं भाष्यं च ख्याधातोरस्य सार्वधातुके एव प्रयोग इत्यत्र ज्ञापकमित्यर्थः । तत्र सस्थानपदं व्याचष्टे - सस्थानो जिह्वामूलीय इति । प्राचीनाचार्यसमयादिति भावः । स नेति । स = जिह्वामूलीयो नमः ख्यात्रे इत्यत्र न भवतीत्येतत् ख्याञादेशस्य ख्श्यादित्वविधौ, शस्य यत्वविधौ च प्रयोजनमित्यर्थः । ख्श्यादित्वे इति । यत्वविधावित्यस्याप्युपलक्षणम् । शकार्थानिकयत्वस्याऽसिद्धत्वात् ‘शर्परे विसर्जनीयः’ इति विसर्जनीय इष्टः सिध्यति, जिह्वामूलीयस्त्वनिष्टो न भवतीति भाष्यवार्तकह्मदयम् । ख्याधातोरस्यार्धधातुकेऽपि प्रयोदसत्त्वे तु तृजन्ते ख्यातृशब्दे यकारस्य शकारस्थानिकत्वाऽभावादसिद्धत्वाऽभावात् ‘शर्परे विसर्जनीयः’ इत्यस्याऽप्रवृत्तौ कुप्वोर्जिह्वामूलीयोदुर्वारः स्यात् । ततश्चाद्र्धदातुके सर्वत्र न ख्याधातोः प्रयोग इति विज्ञायते,ज्ञापकस्य सामान्यापेक्षत्वादिति भावः । संपूर्वस्येति । सार्वधातुकेऽपीति भ#आवः । अत्र व्याख्यानमेव शरणम् । एवं चसङ्ख्यती॑त्यादि नास्तीति फलितम् । सङ्ख्यादिशब्दास्तु ख्याञादेशस्येति बोध्यम् । मा माने इति । मानं परिमितिरिति भावः । तदाह — अकर्मक इति ।माति घृतं पात्रेऽस्मि॑ न्निति उदाहरणम् । परिमितं भवतीत्यर्थः । संगृहीतं भवतीति यावत् । अत्रार्थे शिष्टप्रयोगसंवादं दर्शयति — तनो ममुस्तत्रेति ।तनौ मुमस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः॑ इति माघकाव्ये तपोधनस्य नारदस्य अभ्यागमेन आगमनेन संभवाः मुदः = संतोषाः, कैटभद्विषः = श्रीकृष्णस्य तनौ = शरीरे , न ममुः= परिमिता न बभूवुः । आधिक्यान्न संगृहीता बभूवुरिति यावत् । अर्थान्तरे त्विति । परिच्छेदे त्वित्यर्थः । उदरमिति ।उदरंपरिमाति मुष्टिना कुतुकी कोऽपिदमस्वसुः किमु॑ इति नैषधकाव्ये । कोऽपिकुतुकी दमस्वसुः =दमयन्त्याः, उदरं मुष्टिना परिमाति किमु , किमुपरिगृह्णातीत्यर्थः । नास्य ग्रहणमिति ।घुप्रकृतिमा॑ङिति भाष्यादिति भावः । एवं च ‘शेषे विभाषाऽकखादौ’ इति णत्वविकल्प इति मत्वाऽऽह -प्रणिमाति प्रनिमातीति । ममौ ।ममिथ — ममाथ । ममिव । मात । मास्यति । मातु । अमात् । अमासीत् । अमास्यत् । वचपरिभाषणे । अनिट् । अयमन्तीति । लटि प्रथमपुरुषबहुवचनं नास्तीत्यर्थः । बहुवचनपर इति । ‘न प्रयुज्यते’ इति शेषः । अस्मिन् पक्षे पुरुषत्रये बहुवचनं नास्ति । झिपर इति । ‘न प्रयुज्यते’ इति शेषः । अस्मिन् पक्षे लिडादिष्वपि [प्रथमपुरुष] बहुवचनं नास्तीति भावः । तत्र लिटि अकितिलिटभ्यासस्ये॑ति संप्रसारणम् । उवाच । किति तुवचिस्वपी॑ति संप्रसारणम् । ऊचतुः । उवचिथ — उवक्थ । ऊचिव । वक्ता वक्ष्यति । वक्तु । अवक् । वच्यादिति । विधिलिङि रूपम् । आशीर्लिङिवचिस्वपी॑ति संप्रसारणं मत्वाऽऽह — उच्यादिति । अवोचदिति । लुङिअस्यतिवक्ती॑ति च्लेरङिवच उ॑मिति भावः । विद ज्ञाने इति । अनिट्सु लुग्विकरणस्याऽग्रहणादयं सेट् ।
Tattvabodhini¶
लङः शाकटायनस्यैव - प्रणिदातीति ।शेषे विभाषे॑ति णत्वविकल्पः । अदासीदिति । अघुत्वान्न सिज्लुक् । नमः ख्यात्रे इति । यद्ययमाद्र्धधातुकेऽपि प्रयुज्येत तर्हि तृजन्तेऽस्मिन्परेशर्परे विसर्जनीयः॑ इत्यस्याऽप्रवृत्त्याकुप्वो॑रिति जिह्वामूलीयो दुर्वारः स्यादेवेतितदभावः ख्शादित्वे प्रयोजन॑मिति वार्तिककाराद्युक्तिव्र्याकुप्येतेति भावः । संपूर्वस्येत्यादि । सङ्ख्यातीत्यादि प्रयोगो नास्त्येव ।सङ्ख्ये॑ति प्रयोगस्तु ख्याञादेशस्येति न्यासकाराशयः । मा माने । नास्येति ।घुप्रकृतिमा॑ङिति पाठान्ङितामेव तत्र ग्रहणं, ततश्चशेषे विभाषे॑ति विकल्प एव प्रवर्तत इत्याशयेनाह — प्रणिमातीत्यादि । वच परिभाषणे । उवाच । वक्ता । वक्ष्यति । वक्तु । वक्तात् । अवक् । अवक्ताम् । अयमन्तिपर इति । तथा च — वचन्ति, वक्ष्यन्ति, वचन्तु, अवचन्, अवोचन्, अवक्ष्यन्नित्येतेऽसाधवः । बहुवचनपर इति । अस्मिन् पक्षे लटि मध्यमे — वक्थ । उत्तमे तु — वच्मः । लिटि — ऊचुः । मध्यमे- उच । उत्तमे तु — ऊचिम । लुटि - वक्तारः । लिङि — उच्यासुः । वच्यासुरित्यादयोऽप्यसाधवः । झिपर इति । अस्मस्तु पक्षे — वक्थ वच्मः ऊच ऊचिमेत्यादयः साधव इति दिक् ।
Padamanjari¶
अयुः, अवुरिति । शपो लुक्, ठुस्यपदान्तात्ऽ इति पररूपत्वम् ॥ लणेóवेति । लुड्लिङेस्तावद्भवितव्यम्, लृङ्स्तु स्यप्रत्ययेन झेर्व्यवधानमिति भावः । यान्तु, वान्त्विति ।’लोटो लङ्वत्’ इत्यत्र तु वाग्रहणानुवृत्याप्ययमर्थः साधितः । ननु च लङ्ग्रहणाद्यत्नज्जुस्भावोऽयं लोटो मा भूत्,’सिजभ्यस्त’ इत्ययं तु स्यादेव ? तत्राह - सिजभ्यस्तेत्यादि । कथमित्यत्राह - जुस्भावमात्रं हीति । कथं पुनः ठातःऽ इत्यनुवर्तमाने जुस्भावमात्रं मुख्येन लङ शक्यं विशेषयितुम् ?’लङ्ः’ इति योगविभागः कर्तव्य इति मन्यते । ननु च ठात इत्येतत्सिज्ग्रहणानुवृत्या नियमार्थम्ऽ इत्युक्तम् , ततश्चायुरित्यत्र केनचिदप्राप्तत्वाद्विध्यर्थमेतत्किमेवकारेण ? इत्यत्राह - एवकार उतरार्थ इति ।’लिट् च’ ,’लिङशिषि’ इत्यत्रास्य प्रयोजनं दर्शयिष्यति ॥
Nyaas¶
अयुः, अवुः इति। पूर्ववच्छपो लुक्, पूर्ववच्च पररूपत्वम्।लङेव इत्यादि। यत्सम्बन्धिनो झेर्जुस्भावो विधेयः। तिङत्वमधिकृत्येमुक्तम्। कुतः एतत्? लङलिङोरप्याकारान्तादनन्तरयोः सम्भवात्। तत्सम्बन्धिनोस्तु झेर्जुस् (3.4.108) इत्येवमादिनैव शास्त्रेण जुस्भावो विहित इति न तावदधिकृत्येदमुच्यते। एवकारस्तु लृङव्यवच्छेदार्थः, स्यप्रत्ययेन झेव्र्यवधानात्। स चातिदेशद्वारेण यस्य लङवद्भावो न भवति स वेदितव्यः। यस्य ह्रतिदेशद्वारेण लङवद्भावो विहितः स उपचारेण लङित्युच्यते। परमार्थतस्तु लोडेवासौ, न लङेव। लङवद्भावेन यः इति। लङिति सम्बध्यते।लङा तुल्यं मा भूदिति मुख्यस्यैव लङो ग्रहणं यथा स्यादित्येवमर्थं लङ्ग्रहणं क्रियते। केन पुनर्लङवद्भावो भवतीत्याह - लोटो लङ्वत् इति। अनेन हि सूत्रेण (3.4.85) लोटो लङ्वत् कार्यष्वतिदिष्टेषु लङ्कार्ययोगात् तस्य लङ्वद्भावो भवति। तेन लङसदृशभूत उपचारेण लङिति व्यपदिश्यते। अत्रायमर्थः - यदि मुख्यस्य लङः परिग्रहार्थं लङ्ग्रहणं न क्रियते, ततः लोटो लङ्वत् (3.4.85) इत्यतिदेशाद्यथा तामादिकार्यं लोटो भवति, तथेदमपि स्यात्। अतोऽस्य दोषस्य निवृत्यर्थं लङग्रहणं क्रियत इति मा भून्नामायं जुस्; लोटो लङग्रहणाद्यत्नात्॥ यस्तु सिजभ्यस्तविद#इभ्यश्च (3.4.109) इत्यनेन विधीयते स विभ्यतु, जाग्रतु, विदन्त्वित्यादौ कस्मान्न भवति, न हि किञ्चित् तत्र यत्नान्तरमस्ति? इत्याह - सिजभ्यस्त इत्यादि। कथं पुनर्विना यत्नेन पूर्वको जुस् लोटो न भवतीत्याह - जुस्भावमात्रं हि इत्यादि। न ह्रयमेव जुस् मुख्येन लङा विशिष्यते,किं तर्हि? जुस्भावमात्रम्। योऽस्मिन् प्रकरणे जुस् विहितः स मुख्यस्यैव लङो भवति, नेतरस्येति। तेन पूर्वकोऽपि जुस् न भवति। एककार उत्तरार्थः इति। अथ तदर्थं एवकारः कस्मान् भवति? विध्यर्थत्वात् तस्य। न हि विध्यर्थवाक्य एवकारस्यार्थवत्वमुपपद्यते। स हि नियमार्थेषूपयुज्यते, न हि विध्यर्थेषु। न चेदं नियमार्थम्; सिद्धे हि विधिरारभ्यमाणो नियमार्थो भवति (का।दु।प।59), न च सिद्धेऽयमारभ्यते। तस्मादुत्तरार्थं एवकारः। ननु शाकटायनस्यैव मतेन यथा स्यादन्येषां मते मा भूदित्येवमर्थमिहैवकारः स्यात्? न; तेन विनाऽप्यस्य नियमस्य सिद्धत्वात्। यद्यन्येषां मते न स्यात्, शाकटायनग्रहणमनर्थकं स्यात्॥
Prakriyasarvasvam¶
तन्मत आदन्तात् परस्य लङो झेर्जुस् स्यात् । अयुः । अन्यमते अयान् । अयाः । अयातम् । अयाम् । अयाव । लुङादौ अयासीत् । अयासीष्टाम् । ययौ । ययतुः । ययिथ, ययाथ । ययिव । यायात् । यायास्ताम् । याता । यास्यति । कर्मणि अयायि । अयायिषाताम्, अयासाताम् । अयास्थाः । अयासि । लिट् यये । ययिषे । यायिषीष्ट । यासीष्ट । इत्यादि । दरिद्रा दुर्गतौ । दरिद्राति ।