34102: लिङस्सीयुट्¶
Padacheda: लिङः | S | 6 | 1 |
सीयुट् | S | 1 | 1 |
Sutrartha¶
लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति ।
अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् ‘सीयुट्’ आगमः विधीयते । वस्तुतः अयमागमः सर्वेषामष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन यासुट् परस्मैपदेषूदात्तो ङिच्च (3.4.103) इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलमात्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः ‘सीय्’ इत्येव अवशिष्यते । 1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लभ् + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → लभ् + त [तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। लिङ्गाशिषि (3.4.116) इत्यनेन अयमार्धधातुकसंज्ञकः भवति] → लभ् सीयुट् + त [लिङस्सीयुट् (3.4.102) इति सीयुट् आगमः] → लभ् + सीय् + सुट् + त् [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → लभ् + सी + स् + त [यकारस्य लोपो व्योर्वलि (6.1.66) इति लोपः] → लभ्सीष्ट [आदेशप्रत्यययोः (8.3.59) इति सुट्-आगमस्य सकारस्य षत्वम्] → लभ्सीष्ट [ष्टुना ष्टुः (8.4.41) इति ष्टुत्वम्] → लप्सीष्ट [खरि च (8.4.55) इति चर्त्वम्] 2. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्लकारः] → लभ् + त [तिप्तस्.. (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लभ् + शप् + त [कर्तरि शप् (3.1.68) इति शप्] → लभ् + अ + सीयुट् + त [लिङस्सीयुट् (3.4.102) इति सीयुट् आगमः] → लभ् + अ + सीय् + सुट् + त [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → लभ् + अ + ईय् + त [लिङःसलोपोऽनन्त्यस्य (7.2.79) इति सकारलोपः] → लभ् + अ + ई + त [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → लभेत [आद्गुणः (6.1.87) इति गुणः]
Vasu English Summary¶
The तिङ् (Personal Endings) of the लिङ् (Benedictive) and the Potential take the augment स्युत् ।
Vasu English Translation¶
The तिङ् (Personal Endings) of the लिङ् (Benedictive) and the Potential take the augment स्युत् । The ट् of सीयुट् is indicatory and shows that this augment is to be placed before the affixes (1.1.46). The उ is for the sake of pronunciation; this rule applies to the Atmanepada affixes. In the Potential, the स् of this augment is elided by (7.2.79), and the य् also, before a personal-ending beginning with a consonant, is dropped according to (6.1.66). In this way, we have पचेत, पचेयाताम्, and by (3.4.105), पचेरन् । In the Benedictive, the augment retains its full form, only so far as it is not governed by (6.1.66). Thus पक्षीट, पक्षीयास्ताम् पक्षीरन् ।
Bhashya¶
लिङः सीयुट् (1263) (614 आगमविधिसूत्रम्॥ 3 । 4 । 1 । आ.26) (5080 आक्षेपवार्तिकम्॥ 1 ॥) - यासुडादेः सीयुट् प्रतिषेधः- (भाष्यम्) यासुडादेः सीयुटः प्रतिषेधो वक्तव्यः। चिनुयुः। सुनुयुः। लिङः सीयुट् इति सीयुट् प्राप्नोति॥ (5081 आक्षेपपरिहारवार्तिकम्॥ 2 ॥) - न वा वाक्यापकर्षात्- (भाष्यम्) न वा वाक्तव्यः। किं कारणम्?। वाक्यापकर्षात्। वाक्यापकर्षाद् यासुट् सीयुटं बाधिष्यते। (5082 वार्तिकम्॥ 3 ॥) - सुट्तिथोस्त्वपकर्षविज्ञानम्- (भाष्यम्) सुटोपीदानीं तिथोरपकर्षो विज्ञायेत। कृषीष्ट। कृषीष्टः। हृषीष्ट। हृषीष्ठाः। (5083 आक्षेपवार्तिकम्॥ 4 ॥) - अनादेश्च सुड्वचनम्- (भाष्यम्) अनादेश्च सुड्वक्तव्यः। कृषीयास्तां कृषीयास्थाम्। तकारथकारादेर्लिङ इति सुण् न प्राप्नोति। (5084 आक्षेपपरिहारवार्तिकम्॥ 5 ॥) - न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। तिथोः प्रधानभावात्। तिथावत्र प्रधानं तयोर्विशेषणं लिङ्ग्रहणम्। नैवं विज्ञायते। तकारथकारादेर्लिङ इति। कथं तंर्हि? तकारथकारयोः सुड् भवति। तौ चेल्लिङ इति॥ लिङः सीयुट्॥ 102 ॥
Kashika¶
लिङादेशानां सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्॥
Siddhanta Kaumudi¶
सलोपः । एधेत । एधेयाताम् ॥
Laghu Siddhanta Kaumudi¶
सलोपः। एधेत। एधेयाताम्॥
Balamanorama¶
लिङस्सीयुट् - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः ।
Tattvabodhini¶
लिङस्सीयुट् - सलोप इति ।लिङः सलोपोऽनन्त्यस्ये॑त्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः ।
Padamanjari¶
लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके’लिङ्ः सलोपो’ न्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥
Nyaas¶
पचेत् इत्यादौ विधिनिमन्त्रण (3.3.161) इत्यादिना लिङ, लिङ सलोपोऽनन्तस्य (7.2.79) इति सकारलोपः, शपा सह आद्गुणः (6.1.87) वलि लोपः। पक्षीष्ट इत्यादौ आशिषि लिङ, चकारस्य चोः कुः (8.2.30) इति कुत्वम्, इण्कोः (8.3.57) इति षत्वम्॥
Prakriyasarvasvam¶
लिङस्तङां सीयुडागमः स्यात् । भव सीय् त । ‘लिङः सलोपः’ । ‘आद्गुणः’ । यलोपः । भवेत । भवेयाताम् ।