34101: तस्थस्थमिपां तांतंतामः¶
Padacheda: तस्-थस्-थ-मिपाम् | S | 6 | 3 |
ताम्-तम्-त-अमः | S | 1 | 3 |
Sutrartha¶
ङित्-लकाराणाम् विषये तस्, थस्, थ, मिप् - एतेषां चतुर्णाम् प्रत्ययानाम् क्रमेण ताम्, तम्, त, अमः - एते आदेशाः भवन्ति ।
तस्, थस्, थ, तथा मिप् एते चत्वारः परस्मैपदस्य प्रत्ययाः सन्ति । ङित्-लकाराणाम् विषये एतेषां क्रमेण ताम्, तम्, त, तथा अम् - एते आदेशाः भवन्ति । अनेकाल्शित्सर्वस्य (1.1.55) इत्यनेन एते सर्वे सर्वादेशरूपेण आगच्छन्ति । क्रमेण पश्यामः - 1. प्रथमपुरुष-द्विवचनस्य तस्-प्रत्ययस्य ताम्-आदेशः भवति । यथा, पठ् धातोः विधिलिङ्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रिया इयम् - पठ् + लिङ् [विधिनिमन्त्रणा… (3.3.161) इति लिङ्] → पठ् + तस् [तिप्तस्.. (3.4.78) इति तस्] → पठ् + शप् + तस् [कर्तरि शप् (3.1.68) इति शप्] → पठ् + अ + ताम् [तस्थस्थमिपां तांतंतामः (3.4.101) इति तस्-प्रत्ययस्य ताम्-आदेशः] → पठ् + अ + यासुट् + ताम् [यासुट् परस्मैपदेषूदात्तो ङिच्च (3.4.103) इति यासुट्-आगमः] → पठ् + अ + यास् + सुट् + ताम् [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → पठ् + अ + या + ताम् [लिङः सलोपोऽनन्त्यस्य (7.2.79) इति सकारयोः लोपः] → पठ् + अ + इय् + ताम् [अतो येयः (7.2.80) इति या-इत्यस्य इय्-आदेशः] → पठ् + अ + इ + ताम् [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → पठेताम् [आद्गगुणः (6.1.87) इति गुण-एकादेशः] 2. मध्यमपुरुष-द्विवचनस्य थस्-प्रत्ययस्य तम्-आदेशः भवति । यथा, पठ्-धातोः लोट्लकारस्य मध्यमपुरुषद्विवचस्य प्रक्रिया इयम् - पठ् + लोट् [लोट् च (3.3.162) इति लोट्] → पठ् + थस् [तिप्तस्… (3.4.78) इति थस्]
→ पठ् + शप् + तस् [कर्तरि शप् (3.1.68) इति शप्]
→ पठ् + अ + तम् [ लोटो लङ्वत् (3.4.85) इति लोट्लकारः लङ्वत् भवति । अतः ङित्-लकारविशिष्टं कार्यमप्यत्र भवितुमर्हति । अतएव तस्थस्थमिपां तांतंतामः (3.4.101) इति थस्-प्रत्ययस्य तम्-आदेशः भवति] → पठतम् । 3. मध्यमपुरुष-बहुवचनस्य थ-प्रत्ययस्य त-आदेशः भवति । यथा, पठ्-धातोः लङ्-लकारस्य मध्यमपुरुष-बहुवचनस्य प्रक्रिया इयम् - पठ् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + पठ् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अट् + पठ् + थ [तिप्तस्… (3.4.78) इति थ] → अट् + पठ् + शप् + थ [कर्तरि शप् (3.1.68) इति शप्] → अ + पठ् + अ + त [तस्थस्थमिपां तांतंतामः (3.4.101) इति थ-प्रत्ययस्य त-आदेशः] → अपठत 4. उत्तमपुरुष-एकवचनस्य मिप्-प्रत्ययस्य अम्-आदेशः भवति । यथा, पठ्-धातोः लृङ्-लकारस्य उत्तमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति लृङ्] → पठ् + स्य + ल् [स्यतासी लृलुटोः (3.1.33) इति स्य-विकरणप्रत्ययः] → अट् + पठ् + स्य + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अडागमः] → अट् + पठ् + इट् + स्य + ल् [आर्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → अट् + पठ् + इट् + स्य + मिप् [तिप्तस्… (3.4.78) इति मिप्] → अ + पठ् + इट् + स्य + अम् [तस्थस्थमिपां तांतंतामः (3.4.101) इति मिप्-प्रत्ययस्य अम्-आदेशः] → अपठिष्यम् [आदेशप्रत्यययोः (8.3.59) इति षत्वम्] ज्ञातव्यम् - अस्मिन् सूत्रे चत्वारः स्थानिनः, चत्वारश्च आदेशाः दीयन्ते । अतः यथासंख्यमनुदेशः समानाम् (1.3.10) इत्यनेन एते आदेशाः यथासंख्यम् भवन्ति ।
Sutrartha (English)¶
In case of ङित्-लकारs, तस्, थस्, थ and मिप् are converted respectively to ताम्, तम्, त and अम्.
Vasu English Summary¶
The affixes 1. ताम् 2. तम् 3. त 4. आम् are the substitutes of the four affixes तस् , थस् , थ and मिप् respectively of any ल which has an indicatory ङ् ।
Vasu English Translation¶
The affixes 1. ताम् 2. तम् 3. त 4. आम् are the substitutes of the four affixes तस् , थस् , थ and मिप् respectively of any ल which has an indicatory ङ् । This we have shown in the above table. Thus अपचताम्, अपचतम्, अपचत, अपचम्, अपाक्ताम्, अपाक्तम् अपाक्त, अपाक्षम् ।
Kashika¶
ङित इत्येव। ङिल्लकारसंबन्धिनां चतुर्णां यथासंख्यं तामादय आदेशा भवन्ति। अपचताम्। अपचतम्। अपचत। अपचम्। अपाक्ताम्। अपाक्तम्। अपाक्त। अपाक्षम्॥
Siddhanta Kaumudi¶
ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥
Laghu Siddhanta Kaumudi¶
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥
Balamanorama¶
तस्थस्थमिपां तांतंतामः - तस्थस्थमिपां । तस्,थस्, थ, मिप्, — एषां द्वन्द्वात्षष्ठीबहुवचनम् । ताम तम् त आम् एषां द्वन्द्वात्प्रथमाबहुवचनम् । ‘नित्यं ङित’ इत्यस्मान्ङित इत्यनुव्रतते । तदाह — ङितश्चतुर्णामिति । ङितो लकारस्य आदेशभूतानामित्यर्थः । क्रमादिति । यथासङ्ख्यसूत्रलभ्यमिदम् ।
Nyaas¶
अपाक्ताम् इति। पूर्ववद्वृद्धिः, झलो झलि (8.2.26) इति सिचो लोपः॥
Prakriyasarvasvam¶
ङिल्लकारस्य तसादीनां क्रमात् तामादयः स्युः । भवेताम् ।