34103: यासुट् परस्मैपदेषूदात्तो ङिच्च¶
Padacheda: यासुट् | S | 1 | 1 |
परस्मैपदेषु | S | 7 | 3 |
उदात्तः | S | 1 | 1 |
ङित् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
लिङ्लकारस्य परस्मैपदस्य प्रत्ययानामुदात्तः ङित् यासुट् आगमः भवति ।
लिङ्लकारस्य विषये परस्मैपदस्य सर्वेषाम् नव-प्रत्ययानाम् लिङस्सीयुट् (3.4.102) इत्यनेन सीयुट्-आगमे प्राप्ते अपवादत्वेन अनेन सूत्रेण ‘यासुट्’ इति आगमः विधीयते । टित्-त्वात् अयमागमः आद्यन्तौ टकितौ (1.1.46) इत्यनेन प्रत्ययस्य आद्यवयवरूपेण आगच्छति । ‘यासुट्’ इत्यत्र टकारस्य इत्संज्ञा लोपश्च भवति, उकारः उच्चारणार्थः अस्ति । अतः ‘यास्’ इत्येव अवशिष्यते । अयम् यासुट्-आगमः वर्तमानसूत्रेण उदात्तः तथा ङित् इति विधीयते । किम् प्रयोजनमस्य ङित्वस्य ? अस्मिन् आगमे परे क्ङिति च (1.1.5) इत्यनेन अङ्गस्य गुणवृद्ध्योः निषेधः भवेत् इति स्पष्टीकर्तुमयमागमः ‘ङित्’ अस्तीति निर्दिष्टमस्ति । (परन्तु आशीर्लिङ्लकारस्य विषये किदाशिषि (3.4.104) इत्यनेन एतत् ङित्वं बाधित्वा अयमागमः कित्-भवति - इति अपि स्मर्तव्यम्) । 1. भू-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् - भू + लिङ् [आशिषि लिङ्लोटौ (3.3.173) इति लिङ्लकारः] → भू + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । लिङ्गाशिषि (3.4.116) इत्यनेन अयमार्धधातुकसंज्ञकः भवति] → भू + यासुट् + ति [किदाशिषि (3.4.104) इत्यनेन उदात्तः कित् यासुट् आगमः । अतः सार्वधातुकार्धधातुकयोः (7.3.84) इत्यनेन उकारस्य गुणे प्राप्ते आगमस्य कित्त्वात् क्ङिति च (1.1.5) इति गुणनिषेधः] → भू + यास् + सुट् + ति [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → भूयास्स्त् [इतश्च (3.4.100) इति इकारलोपः] भूयास्त् [स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यनेन ‘स्स्’ इत्यस्य प्रथमसकारस्य तकारे परे (झलि परे) लोपः] → भूयात् [स्कोः संयोगाद्योरन्ते च (8.2.29) इत्यनेन स्त्’ इत्यस्य सकारस्य पदान्ते लोपः] 2. भू-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - भू + लिङ् [विधिनिमन्त्रणा.. (3.3.161) इति लिङ्लकारः] → भू + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः । तिङ्शित् सार्वधातुकम् (3.4.113) इत्यनेन अयम् सार्वधातुकसंज्ञः भवति] → भू + शप् + ति [कर्तरि शप् (3.1.68) इति सार्वधातुकप्रत्यये परे औत्सर्गिकं गणविकरणम् शप्] → भो + अ + ति [सार्वधातुकार्धधातुकयोः (7.3.84) इति गुणः] → भो + अ + यासुट् + ति [यासुट् परस्मैपदेषूदात्तो ङिच्च (3.4.103) इति यासुट्-आगमः ] → भो + अ + यास् + सुट् + ति [सुट् तिथोः (3.4.107) इति सुट्-आगमः] → भो + अ + या + ति [लिङः सलोपोऽनन्त्यस्य (7.2.79) इति द्वयोः सकारयोः लोपः] → भो + अ + इय् + ति [अतो येयः (7.2.80) इति ‘या’ इत्यस्य इय्-आदेशः] → भो + अ + इय् + त् [इतश्च (3.4.100) इति इकारलोपः] → भो + अ + इत् [लोपो व्योर्वलि (6.1.66) इति यकारलोपः] → भव + इत् [एचोऽयवायावः (6.1.78) इति अवादेशः] → भवेत् [आद्गुणः (6.1.87) इति गुण-एकादेशः] विशेषः - अस्मिन् सूत्रे यासुट्-आगमः ‘उदात्तः’ पाठितः अस्ति । अस्मिन् आगमे ‘आ’ इति एकः एव स्वरः विद्यते, अतः अस्य स्वरस्य उदात्तत्वमनेन विधीयते । परन्तु; वस्तुतः सर्वे प्रत्ययाः आद्युदात्तश्च (3.1.3) इत्यनेन मूलरूपेणैव आद्युदात्ताः सन्ति । तर्हि ‘यासुट्’ इत्यस्य पुनः उदात्तविधानस्य किम् प्रयोजनम् - इति प्रश्नः उपतिष्ठति । अस्मिन् विषये भाष्यकारः वदति - ‘एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति - इति’ । इत्युक्ते, अत्र ‘उदात्त’ग्रहणमस्य ज्ञापकमस्ति यत् आगमाः औत्सर्गिकरूपेण अनुदात्ताः भवन्ति ।
Sutrartha (English)¶
The परस्मैपदस्य प्रत्ययाः of लिङ्लकार get a ‘यासुट्’ आगम which is both - उदात्त and ङित्.
Vasu English Summary¶
When the परस्मैपद affixes of the Potential follow, then यासुट् acutely accented, is their augment and the termination is regarded as having an indicatory ङ्।
Vasu English Translation¶
When the परस्मैपद affixes of the Potential follow, then यासुट् acutely accented, is their augment and the termination is regarded as having an indicatory ङ्। This debars सीयुट्; the उट् of यासुट् is indicatory; the real augment is यास्. All augments being anudatta, the present sutra therefore especially uses the word udatta to show that this augment is an exception to the general rule. Though लिङ् has an indicatory ङ्, and therefore by the rule (1.1.56), its substitutes would also be regarded as having an indicatory ङ्, the repetition of the word ङित् in this sutra shows the existence of the paribhasha “that the ङ् belonging to ल does not influence its substitutes;” in other words, the substitutes of लङ्, लिङ्, लुङ् and लृङ् are not to be regarded as having an indicatory ङ् (लकाराश्रयङित्वमादेशानां न भवति). In the Potential, the स् of यासुट् is elided by (7.2.79). So we get the forms कुर्यात्, कुर्याताम्, and by applying (3.4.108) and (6.1.96), कुर्युस् । For the Benedictive लिङ् the following sutra applies.
Bhashya¶
यासुट् परस्मैपदेषूदात्तो ङिच्च (1264) (615 आगमविधिसूत्रम् ॥ 3 । 4 । 1 । आदृ 27) (आक्षेपभाष्यम्) किमर्थं यासुटो ङित्त्वमुच्यते। (5085 आक्षेपपरिहारवार्तिकम् ॥ 1 ॥) - यासुटो ङिद्वचनं पिदर्थम्- (भाष्यम्) (यासुटो ङित्त्वं क्रियते। किं प्रयोजनम्?। पिदर्थम्) पिति वचनानि प्रयोजयन्ति ॥ (आक्षेपभाष्यम्) अथ किमर्थमुदात्तवचनं क्रियते। (5086 परिहारवार्तिकम् ॥ 2 ॥) - उदात्तवचनं च - (भाष्यम्) (उदात्त इति उच्यते। किं प्रयोजनम्।) किम्। पिदर्थमेव। (5087 परिहारान्तरवार्तिकम् ॥ 3 ॥) - आगमानुदात्तार्थे वा- (भाष्यम्) अथ वा एतज्ज्ञापयत्याचार्यः - आगमा अनुदात्ता भवन्तीति ॥ (ज्ञापकत्वानुपपत्तिभाष्यम्) असत्यन्यस्मिन्प्रयोजने ज्ञापकं भवति। उक्तं चैतद् - यासुटो ङिद्वचनं पिदर्थमुदात्तवचनं चेति ॥ (ज्ञापकत्वानुपपत्तिभाष्यम्) शक्यमनेन वक्तुम्। यासुट् परस्मैपदेषु भवति, अपिच्च लिङ् भवतीति। सोयऽमेवं लघीयसा न्यासेन सिद्धे सति यद्गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः आगमा अनुदात्ता भवन्तीति ॥ यासुट् परस्मैपदेषूदात्तो ङिच्च ॥ 103 ॥
Kashika¶
लिङ इत्येव। परस्मैपदविषयस्य लिङो यासुडागमो भवति, स चोदात्तो भवति, ङिच्च। सीयुटोऽपवादः। आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां संभवाद्, नागमस्य। कुर्यात्, कुर्याताम्, कुर्युः। स्थानिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्ववचनं ज्ञापनार्थम् — लकाराश्रयङित्त्वमादेशानां न भवतीति। अचिनवम्। अकरवम्॥
Siddhanta Kaumudi¶
लिङः परस्मैपदानां यासुडागमः स्यात्स चोदात्तो ङिच्च । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥
Laghu Siddhanta Kaumudi¶
लिङः परस्मैपदानां यासुडागमो ङिच्च॥
Balamanorama¶
यासुट् परस्मैपदेषूदात्तो ङिच्च - अथ लिङस्तिपि इतश्चेतीकारलोपे शपि गुणेऽवादेशे भव त् इति स्थिते — यासुट् पर ।लिङ सीयु॑डित्यतो लिङ इत्यनुवर्तते । षष्ठर्थे सप्तमी । तदाह — लिङः परस्मैपदानामिति । सीयुटोऽपवादः । यासुटि टकार इत्, उकार उच्चारणार्थः । टित्त्वात्तिबादीनामाद्यवयवः । अवयवे ङित्त्वं चआनर्थक्यात्तदङ्गेषु॑ इति न्यायेन समुदाये आगमविशिष्टतिबादौ विश्राम्यति । ‘आगमा अनुदात्ता’ इति यासुटोऽनुदात्तत्वे प्राप्ते उदात्तवचनम् । इदमेव वचनम् ‘आगमा अनुदात्ता’ इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थं यासुटो ङित्त्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः, ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटो ङित्तवविधिर्व्यर्थः । न च स्थानिभूतलिङो ङकारस्याऽल इत्त्वेन गुणनिषेधविधावाश्रयणादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्वस्यन ल्यपी॑ति निषेधेन लिङ्गेनाऽनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनादित्यत आह — ङित्त्वोक्तेरिति । क्वचदनुबन्धकार्येऽपि अनल्विधाविति निषेध इति । यासुटो ङित्त्वेन ज्ञायत इत्यन्वयः । तथा च एतज्ज्ञापनार्थमेव यासुटो ङित्त्वमिति भावः । ज्ञापनफलं तु वक्ष्यमाणेत्यत्र ङीबभावः । अन्यथा लृडादेशस्य शानचः स्थानिवत्त्वेन टित्त्वान्ङीप् स्यात् । ननुक्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेध॑ इत्यत्र यासुटो ङित्त्ववचनं न ज्ञापकम् । अनुबन्धकार्ये सर्वत्र अनल्विधाविति निषेधाऽभावे सत्यपि यासुटो ङित्त्वस्य तिप्सिप्मिबागमयासुटो ङित्त्वार्थमावश्यकत्वात्, नह लिङादेशत्वेऽपि तिपसिप्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् ।हलश्श्नश्शानज्झा॑विति सूत्रभाष्येङिच्च पिन्न पिच्च ङिन्ने॑ति प्रपञ्चितत्वादित्यस्वरसादाह — श्नः शानचः शित्तवमपीह लिङ्गमिति । इह — अनुबन्धकार्येऽपि क्वचदनल्विधाविति निषेधोऽस्तीत्यस्मिन्नर्थे, श्नः — श्नाप्रत्ययस्य, यः शानजादेशो हलः श्नश्शानज्झाविति विहितः, तस्य शित्त्वमपि लिङ्गं — ज्ञापकमित्यर्थः । अन्यथा स्थानिवत्त्वेनैव तस्य शित्त्वसिद्धेस्तद्वचनं व्यर्थं स्यादिति भावः । अत्र च यद्वक्तव्यं तत्स्त्रीप्रत्ययप्रकरणे वक्ष्यमाणेत्यत्र प्रपञ्चितम् ।
Tattvabodhini¶
यासुट् परस्मैपदेषूदात्तो ङिच्च - क्वचिदिति । ज्ञापनफलं तु वक्ष्यमाणेत्यादौ टिदुगिल्लक्षणङीबभाव इतिटिड्ढे॑ति सूत्र एवोक्तम् ।रुया॑दित्यादौउतो वृद्धिर्लुकि हली॑ति न प्रवर्तते, भाष्येपिच्च ङिन्न, ङिच्च पिन्ने॑ति व्याख्यानाद्विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधादित्यदादौ वक्ष्यमाणतया यासुतटो ङित्त्वं न ज्ञापकमित्यपरितोषादाह — श्नः शानचः शित्त्वमिति॥
Padamanjari¶
परस्मैपदविषयस्येति । लिङ्ः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वातदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदातत्वै प्राप्त इति । अत एव यासुडुदातवचनाद्विज्ञायते - आगमा अनुदाता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदातत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदातवचनं ज्ञापकमेव - आगमा अनुदाता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, ठत उत्सार्वधातुकेऽ इत्युत्वम्,’ये च’ इत्युकारलोपः । कुर्युरिति । झेर्जुस्,’लिङ्ः सलोपो’ नन्त्यस्यऽ ठुस्यपदान्तात्ऽ । स्थानिविद्भावादेवेति ।’सार्वधातुकमपित्’ इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् चनम्य । यासुटो चनमिति । यासुडादेर्लिङे चनमित्यर्थः । इदानीमेव ह्युक्तम् - ङ्त्विं तु लिङ् एव विधीयते इति ? एतच्च ज्ञापनम् -‘पिच्च ङ्न्नि भवति’ इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङ्त्विमौपदेशिकेन पित्वेन बाध्यते इति प्राप्त्यर्थमेव चनं स्यात् ॥
Nyaas¶
परस्मैपदविषयस्य इति। एतेन परस्मैपदेषु इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयति, न परसप्तमीत्वम्। परसप्तमीत्वं तु न सम्भवति; लिङः परस्मैपदानामसम्भवात्। आगमानुदात्तत्वे प्राप्ते इति। कुतः पुनरागमानुदात्तत्वं भवतीति निश्चितम्? अत एव यासुट उदात्तवचनात्। यदि ह्रागमा अनुदात्ता न स्युस्तदोदात्तवचनमनर्थकं स्यात्; प्रत्ययभक्तत्वेनैव यासुटः प्रत्ययस्वरेणैवाद्युदात्तस्य सिद्धत्वात्। ननु यानि पिद्वचनानि तदर्थमुदात्तवचनं स्यात्, तेषां ह्रनुदात्तत्वात् तद्भक्तो यासुडनुदात्त एव स्यात्, यद्युदात्त इति नोच्येत? नैतदस्ति;यद्येतत् प्योजनमभिमतं स्यात्, अपिदित्येवं ब्राऊयात्। तदैतदुदात्तवचनमागमानुदात्तस्य ज्ञापकमेव। तत्र ङित्कार्याणामसम्भवात् इति। न सर्वेषामित्यभिप्रायः। कुत एतत्? यावता उष्यात् इत्यत्र ग्रहिज्यादिसूत्रेण (6.1.16) यत्सम्प्रसारणं तत् यासुटयि ङिति सम्भवति। ङिन्मात्निबन्धनं हि सम्प्रसारणम्; विशेषानुपादानात्। तत्र यदि यासुटो ङित्त्वं विधीयेत तदा ग्रहेः सम्प्रसारणस्यैवेकस्यानुग्रहः स्यात्। लिङस्तु ङित्वे विधाने सर्वस्य ङित्कार्यस्य गुणवृद्धिप्रतिषेधादेवानुग्रहो भवतीति लिङ एव ङित्त्वं विधीयते। ङित्कार्याणाम् इति। ङिति कार्याणामित्यर्थः। कुर्यात् इति। विकरणाश्रयो धातोर्गुणः, अत उत् सार्वधातुके (6.4.110) इत्युत्वम्, ये च (6.4.109) इत्युकारलोपः। कुर्युः इति। उस्यपदान्तात् (6.1.96) इति पररूपत्वम्। अचिनवम् इति। मिपोऽम्। अत्र ङित्त्वाभावाद्गुणः। एतच्च ज्ञापकस्य प्रयोजनम्॥
Prakriyasarvasvam¶
लिङः परस्मैपदानामुदात्तो यासुडागमो ङित्त्वं च स्यात् । भव यास् ति ।