34102: लिङस्सीयुट् ================== **Padacheda:** लिङः | S | 6 | 1 | सीयुट् | S | 1 | 1 | Sutrartha --------- **लिङ्-लकारस्य प्रत्ययानाम् सीयुट्-आगमः भवति ।** अनेन सूत्रेण लिङ्लकारस्य सर्वेषां प्रत्ययानाम् 'सीयुट्' आगमः विधीयते । वस्तुतः अयमागमः सर्वेषामष्टादश-प्रत्ययानाम् विषये उक्तः अस्ति, परन्तु परस्मैपदस्य नव-प्रत्ययानाम् विषये सीयुट्-इत्यस्य अपवादत्वेन **यासुट् परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इत्यनेन यासुट्-आगमः भवति । अतः वर्तमानसूत्रेण उक्तः सीयुट्-आगमः केवलमात्मनेपदस्य प्रत्ययानाम् विषये एव दृश्यते । सीयुट्-इत्यत्र टकारः इत्संज्ञकः अस्ति अतः तस्य लोपः भवति, उकारश्च उच्चारणार्थः अस्ति । अतः 'सीय्' इत्येव अवशिष्यते । 1. लभ्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लभ् + लिङ् [**आशिषि लिङ्लोटौ** (3.3.173) इति लिङ्लकारः] → लभ् + त [**तिप्तस्..** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः। **लिङ्गाशिषि** (3.4.116) इत्यनेन अयमार्धधातुकसंज्ञकः भवति] → लभ् सीयुट् + त [**लिङस्सीयुट्** (3.4.102) इति सीयुट् आगमः] → लभ् + सीय् + सुट् + त् [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः] → लभ् + सी + स् + त [यकारस्य **लोपो व्योर्वलि** (6.1.66) इति लोपः] → लभ्सीष्ट [**आदेशप्रत्यययोः** (8.3.59) इति सुट्-आगमस्य सकारस्य षत्वम्] → लभ्सीष्ट [**ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्] → लप्सीष्ट [**खरि च** (8.4.55) इति चर्त्वम्] 2. लभ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुषैकवचनम् - लभ् + लिङ् [**विधिनिमन्त्रणा..** (3.3.161) इति लिङ्लकारः] → लभ् + त [**तिप्तस्..** (3.4.78) इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → लभ् + शप् + त [**कर्तरि शप्** (3.1.68) इति शप्] → लभ् + अ + सीयुट् + त [**लिङस्सीयुट्** (3.4.102) इति सीयुट् आगमः] → लभ् + अ + सीय् + सुट् + त [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः] → लभ् + अ + ईय् + त [**लिङःसलोपोऽनन्त्यस्य** (7.2.79) इति सकारलोपः] → लभ् + अ + ई + त [**लोपो व्योर्वलि** (6.1.66) इति यकारलोपः] → लभेत [**आद्गुणः** (6.1.87) इति गुणः] Vasu English Summary -------------------- The तिङ् (Personal Endings) of the लिङ् (Benedictive) and the Potential take the augment स्युत् । Vasu English Translation ------------------------ The तिङ् (Personal Endings) of the लिङ् (Benedictive) and the Potential take the augment स्युत् । The ट् of सीयुट् is indicatory and shows that this augment is to be placed before the affixes (1.1.46). The उ is for the sake of pronunciation; this rule applies to the *Atmanepada* affixes. In the Potential, the स् of this augment is elided by (7.2.79), and the य् also, before a personal-ending beginning with a consonant, is dropped according to (6.1.66). In this way, we have पचेत, पचेयाताम्, and by (3.4.105), पचेरन् । In the Benedictive, the augment retains its full form, only so far as it is not governed by (6.1.66). Thus पक्षीट, पक्षीयास्ताम् पक्षीरन् । Bhashya ------- लिङः सीयुट् (1263) (614 आगमविधिसूत्रम्॥ 3 । 4 । 1 । आ.26) (5080 आक्षेपवार्तिकम्॥ 1 ॥) - यासुडादेः सीयुट् प्रतिषेधः- (भाष्यम्) यासुडादेः सीयुटः प्रतिषेधो वक्तव्यः। चिनुयुः। सुनुयुः। लिङः सीयुट् इति सीयुट् प्राप्नोति॥ (5081 आक्षेपपरिहारवार्तिकम्॥ 2 ॥) - न वा वाक्यापकर्षात्- (भाष्यम्) न वा वाक्तव्यः। किं कारणम्?। वाक्यापकर्षात्। वाक्यापकर्षाद् यासुट् सीयुटं बाधिष्यते। (5082 वार्तिकम्॥ 3 ॥) - सुट्तिथोस्त्वपकर्षविज्ञानम्- (भाष्यम्) सुटोपीदानीं तिथोरपकर्षो विज्ञायेत। कृषीष्ट। कृषीष्टः। हृषीष्ट। हृषीष्ठाः। (5083 आक्षेपवार्तिकम्॥ 4 ॥) - अनादेश्च सुड्वचनम्- (भाष्यम्) अनादेश्च सुड्वक्तव्यः। कृषीयास्तां कृषीयास्थाम्। तकारथकारादेर्लिङ इति सुण् न प्राप्नोति। (5084 आक्षेपपरिहारवार्तिकम्॥ 5 ॥) - न वा तिथोः प्रधानभावात्तद्विशेषणं लिङ्ग्रहणम्- (भाष्यम्) न वा वक्तव्यम्। किं कारणम्?। तिथोः प्रधानभावात्। तिथावत्र प्रधानं तयोर्विशेषणं लिङ्ग्रहणम्। नैवं विज्ञायते। तकारथकारादेर्लिङ इति। कथं तंर्हि? तकारथकारयोः सुड् भवति। तौ चेल्लिङ इति॥ लिङः सीयुट्॥ 102 ॥ Kashika ------- लिङादेशानां सीयुडागमो भवति। टकारो देशविध्यर्थः। उकार उच्चारणार्थः। पचेत, पचेयाताम्, पचेरन्। पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन्॥ Siddhanta Kaumudi ----------------- सलोपः । एधेत । एधेयाताम् ॥ Laghu Siddhanta Kaumudi ----------------------- सलोपः। एधेत। एधेयाताम्॥ Balamanorama ------------ **लिङस्सीयुट्** - लिङः सीयुट् । स्पष्टम् । परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति ।लिङः सलोप इत्यनेने॑ति शेषः । एधेतेति । लिङस्तादेशः । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेयातामिति । आतामि सीयुट् शप् सलोपः । आद्गुणः । झस्य रन् ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते । तदाह — लिङो झस्येति । लिङादेशस्य झस्येत्यर्थः । अनेकाल्त्वात्सर्वादेशः । एधेरन्निति । झस्य रन् । शप् । सीयुट् । सलोपः । आद्गुणः । यलोपः । एधेथा इति । थास् सीयुट् शप् । सीयुटः सस्य लोपः । आद्गुणः । यलोपः ।थासः सस्य रुत्वविसर्गौ । एधेयाथामिति । आथां । सीयुट् । सलोपः । शप् ।आद्गुणः । एधेध्वमिति । ध्वम् सीयुट् । शप् । सलोपः । आद्गुणः । यलोपः । Tattvabodhini ------------- **लिङस्सीयुट्** - सलोप इति ।लिङः सलोपोऽनन्त्यस्ये॑त्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः । Padamanjari ----------- लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके'लिङ्ः सलोपो' न्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥ Nyaas ----- `पचेत्` इत्यादौ `विधिनिमन्त्रण` (3.3.161) इत्यादिना लिङ, `लिङ सलोपोऽनन्तस्य` (7.2.79) इति सकारलोपः, शपा सह **आद्गुणः** (6.1.87) वलि लोपः। `पक्षीष्ट` इत्यादौ आशिषि लिङ, चकारस्य **चोः कुः** (8.2.30) इति कुत्वम्, `इण्कोः` (8.3.57) इति षत्वम्॥ Prakriyasarvasvam ----------------- लिङस्तङां सीयुडागमः स्यात् । भव सीय् त । 'लिङः सलोपः' । 'आद्गुणः' । यलोपः । भवेत । भवेयाताम् ।