34089: मेर्निः¶
Padacheda: मेः | S | 6 | 1 |
निः | S | 1 | 1 |
Sutrartha¶
लोट्लकारस्य मिप् -इत्यस्य नि-आदेशः भवति ।
उत्तमपुरुषैकवचनस्य यः मिप्-प्रत्ययः, तस्य लोट्लकारस्य विषये अनेन सूत्रेण ‘नि’ आदेशः भवति । यथा, पठ्-धातोः लोट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः एतादृशी - पठ् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → पठ् + मिप् [तिप्तस्.. (3.4.78) इति उत्तमपुरुषैकवचनस्य विवक्षायाम् मिप्-प्रत्ययः] → पठ् + शप् + मिप् [कर्तरि शप् (3.1.68) इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → पठ् + अ + नि [मेर्नि (3.4.89) इति मिप्-प्रत्ययस्य ‘नि’ आदेशः] → पठ् + अ + आट् + नि [आडुत्तमस्य पिच्च (3.4.92) इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य आट्-आगमः] → पठ् + आ + नि [अकः सवर्णे दीर्घः (6.1.101) इति वृद्धि-एकादेशः] → पठानि एतत् सूत्रम् तस्थस्थमिपां तान्तन्तामः (3.4.101) तथा एरुः (3.4.86) एतयोः अपवादरूपेण आगच्छति ।
Sutrartha (English)¶
In the context of लोट्लकार, the मिप् प्रत्यय is converted to नि.
Vasu English Summary¶
In the लोट् (Imperative Mood) नि is substituted for the affix मि।
Vasu English Translation¶
In the लोट् (Imperative Mood) नि is substituted for the affix मि। This supersedes the rule relating to the change of इ into उ, and the rule of lopa; see the table; thus पचानि, पठानि ।
Bhashya¶
मेर्निः (1250) (612 आदेशविधिसूत्रम्॥ 3 । 4 । 1 आ.24) (5076 आक्षेपवार्तिकम्॥ 1 ॥) - हिन्योरुत्वप्रतिषेधः- (भाष्यम्) हिन्योरुत्वस्य प्रतिषेधो वक्तव्यः। लुनीहि। लुनानि। एरुः इत्युत्वं प्राप्नोति॥ (5077 आक्षेपपरिहारवार्तिकम्॥2 ॥) - न वोच्चारणसार्मथ्यात्- (भाष्यम्) न वा वक्तव्यः। किं कारणम्? उच्चारणसार्मथ्यात्। उच्चारणसार्मथ्यादत्रोत्वं न भविष्यति। अलघीयश्चैव हि इकारोच्चारणमुकारोच्चारणात्। इकारं चोच्चारयति। उकारं च नोच्चारयति। तस्यैतत्प्रयोजनम - उत्वं मा भूदिति॥ सेर्ह्यपिच्च। मेर्निः॥ 89 ॥
Kashika¶
लोट इत्येव। लोडादेशस्य मेर्निरादेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि॥
Siddhanta Kaumudi¶
लोटो मेर्निः स्यात् ॥
Laghu Siddhanta Kaumudi¶
लोटो मेर्निः स्यात्॥
Balamanorama¶
मेर्निः - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति ।
Padamanjari¶
उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ’लोटो लङ्वत्’ इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः -‘लोटो लङ्वत्’ इति प्राप्तस्यामादेशस्यापवाद इति ॥
Nyaas¶
उत्थलोपयोरपवादः इति। यथाक्रमं एरुः (3.4.86) , लोटो लङवत् (3.4.85) इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि इतश्च (3.4.100) इति विधानादतिदेशेन तस्य प्राप्तिः। पचानि इत्यत्र आडुत्तमस्य पिच्च (3.4.92) इत्याट्॥
Prakriyasarvasvam¶
लोटो मेर्निः स्यात्* हिन्योर्विधानसामर्थ्यादुत्वं न । भव नि ।