34088: वा छन्दसि

Padacheda: वा | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha

वेदानाम् विषये लोट्-लकारस्य सिप्-प्रत्ययस्य ‘हि’ आदेशः विकल्पेन अपित् भवति ।

सेह्यर्पिच्च (3.4.87) इत्यनेन लोट्-लकारस्य विषये सिप्-प्रत्ययस्य यः हि-आदेशः विधीयते, सः वेदानाम् विषये विकल्पेन पित् अपि भवति । यथा, अग्निपुराणे ‘पितॄन् लोकान् प्रीणाहि’ इति उल्लेखः अस्ति । अत्र ‘प्रीणाहि’ इत्यस्य सिद्धौ सिप्-प्रत्ययस्य आदेशरूपेण प्रोक्तः ‘हि’-प्रत्ययः ‘पित्’ मन्यते, येन ई हल्यघोः (6.4.113) इत्यनेन हलादि-ङित्-प्रत्यये परे विहितः ईकारादेशः न भवति, अतः ‘प्रीणाहि’ इत्येव रूपं सिद्ध्यति । वेदेषु ‘हि’-प्रत्ययं अपित्-स्वीकृत्य अपि उदाहरणानि दृश्यन्ते । यथा - ‘प्रीणीहि हंसशरणम्’ इति भागवते उल्लेखः अस्ति । अत्र हि-प्रत्ययस्य अपित्-त्वात् ङित्वद्भावेन ई हल्यघोः (6.4.113) इत्यनेन आकारस्य ईकारादेशः भवति ।

Sutrartha (English)

In the context of वेदाः, the ‘हि’ आदेश given to the सिप्-प्रत्यय of लोट्-लकार could be seen considered as पित्.

Vasu English Summary

In the छन्दस् (Vedas) the substitute of हि is optionally treated as not having an indicatory प्।

Vasu English Translation

In the छन्दस् (Vedas) the substitute of हि is optionally treated as not having an indicatory प्। The result is that in the Chhandas the second person singular of लोट् has two forms as प्रीणाहि or प्रीणीहि; युयुधि or युयोधि, धि being substituted for हि in the Vedas, by rule (6.4.103) as in the following verse:

अग्ने॒ नय॑ सु॒पथा॑रा॒येऽअ॒स्मान्विश्वा॑निदेव व॒यूना॑निविद्वा॒न् । यु योध्य॒स्मज्जु॑हुरा॒णमेनो॒भूयि॑ष्ठान्ते॒ नमाऽउक्तिम्विधेम ॥

Rig 1.189. 1: Yajur Veda. 40.16.

Kashika

अपित्त्वं विकल्प्यते। लादेशश्छन्दसि विषये हिशब्दो वापिद् भवति। यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनः॒ (ऋ० १.१८९.१)। प्रीणाहि। प्रीणीहि (काठ०सं० ४०.१२)॥

Siddhanta Kaumudi

हिरपिद्वा ॥

Padamanjari

अपित्वं विकल्प्यत इति । अनन्तरत्वात् । नादेश इति, व्यवहितत्वात् । युयोधीति ।’बहुलं च्छन्दसि’ इति शपः श्लौ द्विर्वचनम् । अत्र पित्वान् ङ्त्वाभावे ठिङ्तिश्चऽ इति धिभावः ॥

Nyaas

अपित्त्वं विकल्प्यते`( इति)। `लादेशः इति। तस्यानन्तरत्वात्। आदेशस्तु तेन व्यवहितत्वादनन्तरो न भवति विकल्प्यते। युयोधि इति। यु{मिश्रणेऽमिश्रणे च धा।पा} मिश्रणे` (धातुपाठः-1033), बहुलं छन्दसि 2.4.76) इति शपः श्लुः, श्लौ (6।1।त10) इति द्विर्वचनम्। अत्रापि पित्त्वेन ङित्त्वं नास्ति, तेन गुणो न भवति। अङितश्च (6.4.103) इति घिभावः। प्रीणीहि इति। प्रीञ् {तर्पणे कान्तौ च -धातुपाठः-}(धातुपाठः-1474) क्र्यादित्वात् श्ना। अत्राप्यपित्त्वे सति पूर्ववदीत्वम्॥

Prakriyasarvasvam

लोटो हेरपित्त्वं वा स्यात् । युयोध्यस्मज्जुहुराणम् । हेः पित्त्वेनाङित्त्वाद् गुणः । ‘अङितश्च’ (६-४-१०३) इति हेर्धिभ्र ।