34090: आमेतः

Padacheda: आम् | S | 1 | 1 |

एतः | S | 6 | 1 |

Sutrartha

लोट्-लकारस्य विषये प्रत्यये विद्यमानस्य एकारस्य आम्-आदेशः भवति ।

लोट्लकारस्य विषये तिङ्-प्रत्ययेषु यत्र एकारः दृश्यते, तत्र तस्य आम्-आदेशः भवति । परस्मैपदस्य नव प्रत्ययेषु कुत्रापि एकारः न दृश्यते, अतः अस्य सूत्रस्य प्रसक्तिः केवलमात्मनेपदस्य प्रत्ययेषु एव भवति । तनादिगणस्य तन्-धातुं स्वीकृत्य आत्मनेपदस्य सर्वेषां प्रत्ययानाम् प्रक्रिया इयम् - 1. प्रथमपुरुषैकवचनस्य ‘त’ प्रत्ययः - तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + त [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः] → तन् + उ + त [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + ते [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन अकारस्य एकारः] → तन् + उ + ताम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → तनुताम् 2. प्रथमपुरुषद्विवचनस्य ‘आताम्’ प्रत्ययः - तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + आताम् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषद्विवचनस्य विवक्षायामाताम्-प्रत्ययः] → तन् + उ + आताम् [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + आते [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन टिसंज्ञकस्य ‘आम्’-इत्यस्य एकारः] → तन् + उ + आताम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → तन्वाताम् [इको यणचि (6.1.77) इति यणादेशः] 3. प्रथमपुरुषबहुवचनस्य ‘झ’ प्रत्ययः - तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + झ [तिप्तस्.. (3.4.78) इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झ-प्रत्ययः] → तन् + उ + झ [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + अत [आत्मनेपदेष्वनतः (7.1.5) इत्यनेन झ्-इत्यस्य अत्-आदेशः] → तन् + उ + अते [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन अत्-इत्यस्य एकारः] → तन् + उ + अताम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → तन्वताम् [इको यणचि (6.1.77) इति यणादेशः] 4. मध्यमपुरुषैकवचनस्य ‘थास्’ प्रत्ययः - अस्य प्रत्ययस्य थासस्से (3.4.80) इत्यनेन से-आदेशः भवति । अग्रे आमेतः (3.4.90) इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ (3.4.91) इत्यनेन अपवादत्वेन एकारस्य वकारादेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 5. मध्यमपुरुषद्विवचनस्य ‘आथाम्’ प्रत्ययः - तन् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → तन् + आथाम् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषद्विवचनस्य विवक्षायामाथाम्-प्रत्ययः] → तन् + उ + आथाम् [तनादिकृञ्भ्यः उः (3.1.79) इति उ-प्रत्ययः] → तन् + उ + आथे [टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन टिसंज्ञकस्य ‘आम्’-इत्यस्य एकारः] → तन् + उ + आथाम् [आमेतः (3.4.90) इति एकारस्य आम्-आदेशः] → तन्वाथाम् [इको यणचि (6.1.77) इति यणादेशः] 6. मध्यमपुरुषबहुवचनस्य ‘ध्वम्’ प्रत्ययः - अस्य प्रत्ययस्य टित आत्मनेपदानां टेरे (3.4.79) इत्यनेन एकारादेशेन ‘ध्वे’ भवति । अग्रे आमेतः (3.4.90) इत्यनेन एकारस्य आम्-आदेशे प्राप्ते सवाभ्यां वामौ (3.4.91) इत्यनेन अपवादत्वेन एकारस्य अम्-आदेशः भवति । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 7. उत्तमपुरुषस्य प्रत्ययानाम् विषये एत ऐ (3.4.93) इत्यनेन एकारस्य ऐकारादेशः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

Sutrartha (English)

An एकार present in the प्रत्ययाः of लोट्-लकार is converted to आम्.

Vasu English Summary

In the लोट् (Imperative Mood) आम् is substituted for what would have substituted otherwise ए by टित आत्मनेपदानां टेरे (3.4.79).

Vasu English Translation

In the लोट् (Imperative Mood) आम् is substituted for what would have substituted otherwise ए by टित आत्मनेपदानां टेरे (3.4.79). This relates to the Atmanepada affix ए. In the Atmanepada, आम् is substituted for ए in the Imperative; see the table; पचताम्, पचेताम्, पचन्ताम् ।

Kashika

लोट इत्येव। लोट्संबन्धिन एकारस्य आमित्ययमादेशो भवति। पचताम्,पचेताम्, पचन्ताम्॥

Siddhanta Kaumudi

लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥

Laghu Siddhanta Kaumudi

लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥

Balamanorama

आमेतः - आमेतः । आम्-एत इति च्छेदः ।लोटो लङ्व॑दित्यतो लोट इत्यनुवर्तते । तदाह — लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटस्तादेशे टेरेत्वे आमादेशे शपि रूपम् । एधेतामिति । आताम् । टेरेत्वं । शप् ।सार्वधातुकमपि॑दिति ङित्त्वादातो ङित इत्याकारस्य इय् । गुणः । यकारलोपः । ‘आमेत’ इत्येकारस्य आम् । एधन्तामिति । झस्य टेरेत्वे शपि झकारस्य अन्तादेशे एकारस्य आम् ।अथ लोटस्थासः सेभावे शपि एध — से इति स्थिते ।

Padamanjari

लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि’निर्दिश्यमानस्यादेशा भवन्ति’ इति परिहारो वाच्यः स्यादित्यर्थः ॥

Nyaas

अत्रैकारेण लोड्विशिष्यते, लोटा वैकार इति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत तदैकास्य विशएषणत्वाद्विशेषणेन च तदन्तविधिर्भवतीत्येकारान्तस्य लोट आम् विधीयमानोऽनेकाल्त्वात् सर्वादेशः स्यादित्येष दोषः प्रतिविधेयः। द्वितीये तु पक्ष एकार एव विशेष्यत्वात् प्रधानम्। न च प्रधाने तदन्तविधिरित्येकारस्यैव भविष्यीति न किञ्चित् प्रतिविधेयम्। तेन द्वितीयपक्षमाश्रित्याह - लोट्सम्बन्धिन एकारस्य इत्यादि। पचताम् इति। टेरेत्वे कृत आम्। इह पचावेदम्, यजावेदमिति यद्यप्यन्तादिवद्भावाद्गुणो लोड्ग्रहणेन गृह्रते, तथापि बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्यन्तरङ्ग आमादेशे कर्तव्ये बहिरङ्गस्याद्गुणस्यासिद्धत्वादामादेशो न भवति। बहिरङ्गत्वं तु गुणस्य द्विपदाश्रयत्वात्। आमस्त्वन्तरङ्गत्वमेकपदाश्रयत्वात्॥

Prakriyasarvasvam

लोट एत आम् स्यात् । भवताम्, भवेताम्, भवन्ताम् । भव से इति जाते ।