34089: मेर्निः ============== **Padacheda:** मेः | S | 6 | 1 | निः | S | 1 | 1 | Sutrartha --------- **लोट्लकारस्य मिप् -इत्यस्य नि-आदेशः भवति ।** उत्तमपुरुषैकवचनस्य यः मिप्-प्रत्ययः, तस्य लोट्लकारस्य विषये अनेन सूत्रेण 'नि' आदेशः भवति । यथा, पठ्-धातोः लोट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः एतादृशी - पठ् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः] → पठ् + मिप् [**तिप्तस्..** (3.4.78) इति उत्तमपुरुषैकवचनस्य विवक्षायाम् मिप्-प्रत्ययः] → पठ् + शप् + मिप् [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → पठ् + अ + नि [**मेर्नि** (3.4.89) इति मिप्-प्रत्ययस्य 'नि' आदेशः] → पठ् + अ + आट् + नि [**आडुत्तमस्य पिच्च** (3.4.92) इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य आट्-आगमः] → पठ् + आ + नि [**अकः सवर्णे दीर्घः** (6.1.101) इति वृद्धि-एकादेशः] → पठानि एतत् सूत्रम् **तस्थस्थमिपां तान्तन्तामः** (3.4.101) तथा **एरुः** (3.4.86) एतयोः अपवादरूपेण आगच्छति । Sutrartha (English) ------------------- In the context of लोट्लकार, the मिप् प्रत्यय is converted to नि. Vasu English Summary -------------------- In the लोट् (Imperative Mood) नि is substituted for the affix मि। Vasu English Translation ------------------------ In the लोट् (Imperative Mood) नि is substituted for the affix मि। This supersedes the rule relating to the change of इ into उ, and the rule of *lopa*; see the table; thus पचानि, पठानि । Bhashya ------- मेर्निः (1250) (612 आदेशविधिसूत्रम्॥ 3 । 4 । 1 आ.24) (5076 आक्षेपवार्तिकम्॥ 1 ॥) - हिन्योरुत्वप्रतिषेधः- (भाष्यम्) हिन्योरुत्वस्य प्रतिषेधो वक्तव्यः। लुनीहि। लुनानि। एरुः इत्युत्वं प्राप्नोति॥ (5077 आक्षेपपरिहारवार्तिकम्॥2 ॥) - न वोच्चारणसार्मथ्यात्- (भाष्यम्) न वा वक्तव्यः। किं कारणम्? उच्चारणसार्मथ्यात्। उच्चारणसार्मथ्यादत्रोत्वं न भविष्यति। अलघीयश्चैव हि इकारोच्चारणमुकारोच्चारणात्। इकारं चोच्चारयति। उकारं च नोच्चारयति। तस्यैतत्प्रयोजनम - उत्वं मा भूदिति॥ सेर्ह्यपिच्च। मेर्निः॥ 89 ॥ Kashika ------- लोट इत्येव। लोडादेशस्य मेर्निरादेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि॥ Siddhanta Kaumudi ----------------- लोटो मेर्निः स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- लोटो मेर्निः स्यात्॥ Balamanorama ------------ **मेर्निः** - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति । Padamanjari ----------- उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ'लोटो लङ्वत्' इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः -'लोटो लङ्वत्' इति प्राप्तस्यामादेशस्यापवाद इति ॥ Nyaas ----- `उत्थलोपयोरपवादः` इति। यथाक्रमं `एरुः` (3.4.86) , `लोटो लङवत्` (3.4.85) इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि `इतश्च` (3.4.100) इति विधानादतिदेशेन तस्य प्राप्तिः। `पचानि` इत्यत्र **आडुत्तमस्य पिच्च** (3.4.92) इत्याट्॥ Prakriyasarvasvam ----------------- लोटो मेर्निः स्यात्* हिन्योर्विधानसामर्थ्यादुत्वं न । भव नि ।