34087: सेर्ह्यपिच्च¶
Padacheda: सेः | S | 6 | 1 |
हि | S | | | 1
अपित् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
लोट्-लकारस्य सिप्-प्रत्ययस्य अपित् ‘हि’ आदेशः भवति ।
मध्यमपुरुषैकवचनस्य यः सिप्-प्रत्ययः, तस्य लोट्-लकारस्य विषये ‘हि’ आदेशः भवति, स च अपित् अस्ति । यथा - 1. ज्ञा-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - ज्ञा + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → ज्ञा + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → ज्ञा + श्ना + सिप् [क्र्यादिभ्यः श्ना (3.1.81) इति विकरणप्रत्ययः श्ना] → जा + ना + सिप् [ज्ञाजनोर्जा (7.3.79) इति अङ्गस्य जा-आदेशः] → जा + ना + हि [सेर्ह्यपिच्च (3.4.87) इति सिप्-प्रत्ययस्य अपित्-‘हि’ आदेशः] → जानीहि [ई हल्यघोः (6.4.113) इति हलादि-अपित्-प्रत्यये परे विकरणस्य आकारस्य ईकारादेशः] 2. पठ्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् - पठ् + लोट् [लोट् च (3.3.162) इति लोट्-लकारः] → पठ् + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः] → पठ् + शप् + सिप् [कर्तरि शप् (3.1.68) इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → पठ् + अ + हि [सेर्ह्यपिच्च (3.4.87) इति सिप्-प्रत्ययस्य अपित्-‘हि’ आदेशः] → पठ् + अ [अतो हेः (6.4.105) इति हि-प्रत्ययस्य लोपः] → पठ ज्ञातव्यम् - 1. सिप्-प्रत्ययः पित्-अस्ति, अतः अस्मिन् सूत्रे हि-इत्यस्य अपित्-गुणधर्मः निर्दिष्टः अस्ति । केवलम् ‘सेर्हिः’ वदामश्चेत् हि-प्रत्ययः अपि पित्-भवेत्, येन अङ्गस्य गुणादेशस्य प्रसक्तिः स्यात् । तत् मा भूत् अतः अत्र हि-प्रत्ययः अपित्-निर्दिष्टः अस्ति । अपित्-त्वात् सार्वधातुकमपित् (1.2.4) इत्यनेन अयम् प्रत्ययः ङित्वत् भवति, अतः क्ङिति च (1.1.5) इत्यनेन अङ्गस्य गुणादेशः निषिध्यते । 2. अतो हेः (6.4.105) इत्यनेन अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य लोपः भवति ।
Sutrartha (English)¶
The सिप्-प्रत्यय of the लोट्-लकार is converted to ‘हि’.
Vasu English Summary¶
In the लोट् (Imperative Mood) , हि is substituted for सि and this has not the indicatory प् of सिप् , i.e. it is acutely accented.
Vasu English Translation¶
In the लोट् (Imperative Mood) , हि is substituted for सि and this has not the indicatory प् of सिप् , i.e. it is acutely accented. The substitute being like the original expression (1.1. 56), हि substituted for सिप्, would have been a पित् affix, but for this sutra, which clearly states in its latter portion that this हि is not to be regarded as having an indicatory प ।
Thus लुनीहि, पुनीहि, राध्नुहि, तक्ष्णुहि; and as this affix is अपित्, rule (1.2. 4) makes it ङित् also, and thereby no guna takes place.
Bhashya¶
सेर्ह्यपिच्च (1238) (611 आदेशविधिसूत्रम्॥ 3 । 4 । 1 आदृ 23)
Kashika¶
लोट इत्येव। लोडादेशस्य सेर्हीत्ययमादेशो भवति, अपिच्च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि॥
Siddhanta Kaumudi¶
लोटः सेर्हिः स्यात्सोऽपिच्च ॥
Laghu Siddhanta Kaumudi¶
लोटः सेर्हिः सोऽपिच्च॥
Balamanorama¶
सेर्ह्यपिच्च - सेह्र्रपिच्च । ‘हि’ इति लुप्तप्रथमाकम् ।लोटो लङ्व॑दित्यतो ‘लोट’ इत्यनुवर्तते । तदाह — लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकमपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम् । एवञ्च ङिद्वत्त्वात् ‘क्क्ङिति च’ इति गुणो न । सेर्हर्हिङिच्चे॑त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि स्थिते —
Tattvabodhini¶
सेर्ह्यपिच्च - सोऽपिच्चेति । एवं च पित्त्वेनानुदात्तस्य सिपः स्थाने यो हिरादेशः स तुस्थानेऽन्तरतमः॑ इत्यनुदात्तो न भवति,जहि शत्रून्ट,स्तुहि श्रुतम्॥
Padamanjari¶
लुनीहीति । पित्वाभावान्डित्वे सति ठी हल्यघोःऽ इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङ्च्चेइति वक्तव्यम् । नन्वेवं ङ्त्वानिङित्कार्यं भवतु, स्थानिवद्भावेन पित्वमप्यस्तीत्यनुदातत्वमपि प्राप्नोति ?’ङ्च्चि पिन्न भवति’ इति वचनान्न भविष्यति, यथा - अपि स्तुयाद्राजानमिति, अत्र ठुतो वृद्धिर्लुकि हलिऽ इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्वे ङ्त्विमारभ्यमाणं तद्वाधिष्यते ॥
Nyaas¶
लुनीहि इति। पित्त्वे प्रतिषिद्धे सार्वधातुकमपित् (1.2.4) इति ङित्त्वम्, ततस्तन्निबन्धनं ई हल्यघोः (6.4.113) इतीत्वं भवति। राघ्नुहि इति। राध साध संसिद्धौ (धातुपाठः-1262), 1263) स्वादित्वात् श्नुः। अत्रापि पूर्ववन्ङित्वने सति गुणो न भवति। अथ किमर्थं गुरु सूत्रं क्रियते, न से र्हि ङिच्च इत्येवोच्येत? नैवं शक्यम्; ङित्त्वस्य विधाने स्थानिवद्भावातम् पित्त्वं स्यादेव। ततश्च ङित्त्वान्ङित्कार्यं गुणनिषेधादिकं स्यात्, पित्त्वाच्चानुदात्तत्वम्। तस्माद्यथान्यासमेवास्तु॥
Prakriyasarvasvam¶
लोटः सिपो हि स्यात्, स चापित् स्यात् । स्थानिवद्भावप्राप्तं पित्त्वं न स्यादित्यर्थः । भव हि । ‘तुह्योस्तातङि’ति वा तातङ् । भवहि भवतात् ।
Sutra Prayogas¶
स्तूह्यपिसेधाऽस्मांस्तथ्यमुक्तं (भट्टिकाव्यम्): सेर्ह्यपिच्च इति अपिति ङित्त्वाद्गुणाभावः।