34085: लोटो लङ्वत्¶
Padacheda: लोटः | S | 6 | 1 |
लङ्वत् | S | 0 | 0 |
Sutrartha¶
लोट्-लकारस्य प्रत्ययाः लङ्लकारवत् एव सन्ति ।
एतत अतिदेशसूत्रम् । अनेन सूत्रेण लङ्-लकारस्य गुणाः लोट्-लकारे आरोप्यन्ते । इत्युक्ते, लङ्-लकारविशिष्टं प्रत्ययकार्यम् लोट्-लकारस्य विषये अपि भवति इत्यर्थः । यथा - 1. तस्थस्थमिपाम् तान्तन्तामः (3.4.101) इत्यनेन लङ्लकारस्य विषये तस्-प्रत्ययस्य ताम्-आदेशः, थस्-प्रत्ययस्य तम्-आदेशः, थ-प्रत्ययस्य त-आदेशः तथा मिप्-प्रत्ययस्य अम्-आदेशः भवति । मिप्-प्रत्ययादेशं विहाय अत्र निर्दिष्टाः अन्ये आदेशाः लोट्-लकारस्य विषये अपि भवन्ति । यथा - पठ् धातोः लोट्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् ‘पठतम्’ अत्र तम्-प्रत्ययः अनेनैव सूत्रेण लभ्यते । 2. नित्यं ङितः (3.4.99) इत्यनेन लङ्-लकारस्य विषये वस्-मस्-प्रत्यययोः सकारस्य लोपः भवति । लोट्लकारस्य विषये अपि अनेन सूत्रेण अयं लोपः जायते । यथा - पठ् धातोः लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् ‘पठाव’ अत्र व-प्रत्ययः अनेनैव सूत्रेण लभ्यते । ज्ञातव्यम् - 1. लुङ्लङ्लृक्ष्वडुदात्तः (6.4.71) इत्यनेन लङ्लकारस्य विषये अङ्गस्य अडागमः भवति । इदमपि लङ्-विशिष्टम् कार्यम्, परन्तु इदम् कार्यमङ्गकार्यमस्ति, प्रत्ययकार्यम् न । अतः वर्तमानसूत्रेण एतत् कार्यम् न गृह्यते । अस्मिन् विषये काशिकाकारः वदति - ‘विदः लटः वा (3.4.83) इत्यतः वाग्रहणमनुवर्तते’ । इत्युक्ते, पूर्वसूत्रात् ‘वा’ इत्यस्य अनुवृत्तिम् स्वीकृत्य अत्र तस्य अर्थः ‘व्यवस्थितविभाषा’ इति स्वीकरणीयः । व्यवस्थितविभाषा इत्युक्ते ‘सूत्रेण उक्तं कार्यम् केषुचन प्रयोगेषु नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति’ इत्यर्थः । अत्र लोट्-लकारस्य लङ्-लकारवत् कार्यमडागमादिषु विषयेषु न भवतीति निर्देष्टुम् एतत् आवश्यकम् । 2. यद्यपि अनेन सूत्रेण लोट्लकारः लङ्वत् कार्यं करोति इत्युच्यते, तथापि लोट्-लकारविशिष्टाः प्रत्ययादेशाः पाठिताः सन्ति चेत् ते एव भवन्ति । यथा - अ) मिप्-प्रत्ययस्य लोट्-लकारस्य विषये मेर्नि (3.4.89) इत्यनेन नि-आदेशः विधीयते, अतः मिप्-प्रत्ययार्थम् तस्थस्थमिपाम् तान्तन्तामः (3.4.101) इत्यस्य प्रयोगः न भवति । आ) इतश्च (3.4.100) इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । तस्य अपवादरूपेण लोट्लकारस्य विषये एरुः (3.4.86) इति इकारस्य उकारादेशः भवति ।
Sutrartha (English)¶
The प्रत्ययाः of the लोट्-लकार are derived in the same way as that of the लङ्लकार.
Vasu English Summary¶
The personal endings of the लोट् (Imperative Mood) are as those of the लङ् (Imperfect Tense).
Vasu English Translation¶
The personal endings of the लोट् (Imperative Mood) are as those of the लङ् (Imperfect Tense). This is an अतिदेश sutra; as in the लङ् there are the affixes ताम्, तम्, त, व and म, so also in the लोट् । Thus पचताम्, पचतम्, पचत, पचाव, पचाम ।
Q – If लोट् is like लङ्, why have we not the augment अट्, आट्, or the substitution of जुस् or झि (see (3.4.111)) in the case of लोट् also ?
– The वा of sutra (3.4.83) is understood in this sutra also, so that the analogy between लोट् and लङ् is a limited analogy and does not make all the rules which are applicable to लङ्, equally applicable to लोट् also.
Bhashya¶
लोटो लङ्वत् (1246) (610 अतिदेशसूत्रम्॥ 3 । 4 । 1 आ.22) (5074 समाधानवार्तिकम्॥ 1 ॥) - लङ्वदतिदेशे जुस्भावप्रतिषेधः- (भाष्यम्) लङ्वदतिदेशे जुस्भावस्य प्रतिषेधो वक्तव्यः। यान्तु वान्तु। लङः शाकटायनस्येति जुस्भावः प्राप्नोति॥ (5075 समाधानवार्तिकम्॥ 1 ॥) - उत्ववचनात्सिद्धम्- (भाष्यम्) उत्वमत्र बाधकं भविष्यति॥ (समाधानबाधकभाष्यम्) अनवकाशा हि विधयो बाधका भवन्ति। सावकाशं चोत्वम्। कोऽवकाशः पचतु - पठतु॥ (समाधानसाधकभाष्यम्) अत्रापीकारलोपः प्राप्नोति। तद्यथैवोत्वमीकारलोपं बाधते। एवं जुस्भावमपि बाधेत। (समाधानबाधकभाष्यम्) न बाधते। किं कारणम्?। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते इकारलोपे उत्वमारभ्यते। जुस्भावे पुनः प्राप्ते चाप्राप्ते च ॥ अथ वा पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते इत्येवमिदमुत्वमिकारलोपं बाधते जुस्भावं न बाधते॥ (समाधानान्तरभाष्यम्) एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम्। लङेव यो लङ् तत्र यथा स्यात्। लङ्वद्भावेन यो लङ् तत्र मा भूदिति॥ लोटो लङ्वत्॥ 85 ॥
Kashika¶
अतिदेशोयम्। लोटो लङ्वत् कार्यं भवति। तामादयस्सलोपश्च। पचताम्। पचतम्। पचत। पचाव, पचाम। अडाटौ कस्माद् न भवतः, तथा झेर्जुसादेशः (३.४.१०८) लङः शाकटायनस्यैव (३.४.१११) इति — वान्तु, यान्तु? विदो लटो वा (३.४.८३) इत्यतो वाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा भविष्यति॥
Siddhanta Kaumudi¶
लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
Laghu Siddhanta Kaumudi¶
लोटस्तामादयस्सलोपश्च॥
Balamanorama¶
लोटो लङ्वत् - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः ।
Tattvabodhini¶
लोटो लङ्वत् - ॒लोट॑ इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठन्तादेव वतिः, तदाह — तेनेति । अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्रलङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस् । यद्वालङः शाकटायनस्ये॑ति सूत्रेनित्यं ङितःर॑ इत्यतोङित॑ इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तुझेर्जु॑सिति जुसो विहितत्वाच्च,ङित॑ इत्यस्य लडएव पर्यवसानात् । ततो लड्ग्रहणं विभज्यते । नियमश्चायंलडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये॑त्यतो नोक्तदोष॑ इति । तञ्चिन्त्यम् । अदुरित्यत्रसिजभ्यस्ते॑ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न चआतः॑ इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा.योगात्, अन्यथा अभूवन्नित्यत्रसिजभ्यस्ते॑ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विहआतः॑ इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् । तदभावपक्षे पुनःप्रसङ्गविज्ञानात्सिजभ्यस्ते॑ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक् ।
Padamanjari¶
लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह - तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवतीति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः ।’लङ्ः शाकटायनस्य’ इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु’सिजभ्यस्तविदिभ्यश्च’ इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते - लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम्’लङ्ः शाकटायनस्य’ इत्यत्र स्वयमेव वक्ष्यति ॥
Nyaas¶
तामादयः इति। येषां तस्थस्थ (3.4.101) इत्यादिना विधाननम्। सलोपश्च इति। यस्य नित्यं ङितः` ( 3.4.99) इति विधानम्।अडाटौ इत्यादि। `लुङ्लङ्लृङक्षु (6.4.71) इत्यादिनाट्, आडजादीनाम् (6.4.72) इत्याट् लङः कार्य विधास्यते। लङ शाकटायनस्यैव (3.4.111) इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा आडजादीनाम् (6.4.72) लङकार्येणापि भवितव्यमित्यभिप्रायः। इतश्च (3.4.100) इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः एरुः (3.4.86) इत्युत्त्वस्य मेर्निः इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। सा च व्यवस्थितविभाषा इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते॥
Prakriyasarvasvam¶
लोटो लङ्वत् कार्यं स्यात् । तेन तामादयः सलोपश्चैव स्युः । भवताम् । ‘एरुः’ । भवन्तु । भव सि—