34086: एरुः¶
Padacheda: एः | S | 6 | 1 |
उः | S | 1 | 1 |
Sutrartha¶
लोट्लकारस्य विषये प्रत्ययस्य ‘इ’ कारस्य उकारः भवति ।
लोट्लकारस्य विषये तिङ्प्रत्ययानाम् इकारस्य उकारः भवति । यथा - 1. परस्मैपदस्य प्रथमपुरुषैकवचनस्य ‘तिप्’ प्रत्ययस्य इकारस्य उकारं कृत्वा ‘तु’ इति लोट्लकारस्य प्रत्ययः सिद्ध्यति । 2. परस्मैपदस्य प्रथमपुरुषबहुवचचनस्य ‘झि’ प्रत्ययस्य झोऽन्तः (7.1.3) इत्यनेन ‘अन्ति’ आदेशे कृते अस्य इकारस्य उकारं कृत्वा ‘अन्तु’ इति लोट्लकारस्य प्रत्ययः सिद्ध्यति । ज्ञातव्यम् - 1. सिप्-प्रत्ययस्य सेह्यर्पिच्च (3.4.87) इत्यनेन हि-आदेशः भवति । तथा च, मिप्-प्रत्ययस्य मेर्नि (3.4.89) इत्यनेन नि-आदेशः भवति । अस्याम् स्थितौ एतत् वार्तिकम् प्रवर्तते - <!हिन्योरुत्वप्रतिषेधो वक्तव्यः !> । हि-प्रत्ययस्य नि-प्रत्ययस्य च उत्वम् न भवति इत्यर्थः । अतः अस्य सूत्रस्य अत्र प्रसक्तिः नास्ति । 2. आत्मनेपदस्य प्रत्ययानां विषये टित आत्मनेपदानां टेरे (3.4.79) अनेन सूत्रेण एकारः विधीयते । एतत् सूत्रम् यद्यपि पूर्वमस्ति, तथापि नित्यत्वात् अस्यैव प्रसक्तिः भवति । अतः वर्तमानसूत्रेण आत्मनेपदानाम् विषये उकारः न विधीयते । 3. लोटो लङ्वत् (3.4.85) इत्यनेन लोट्-लकारस्य विषये लङ्लकारस्य गुणाः आरोप्यन्ते । इतश्च (3.4.100) इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । अतः अनेन सूत्रेण लोट्लकारस्यापि प्रत्ययस्थस्य इकारस्य लोपे प्राप्ते वर्तमानसूत्रम् तस्य अपवादरूपेण आगच्छति ।
Sutrartha (English)¶
The इकार present in the प्रत्ययाs of लोट्लकार is converted to उकार.
Vasu English Summary¶
In the लोट् (Imperative Mood) उ is the substitute of इ।
Vasu English Translation¶
In the लोट् (Imperative Mood) उ is the substitute of इ। Thus ति becomes तु, अन्ति becomes अन्तु, as have already been given in the above table.
Vart:- Prohibition must be stated in the case of affixes हि and नि of लोट् । In the case of these two affixes, the इ is not changed into उ, either because they have been so taught in the sutras, or because the वा of sutra (3.4.83) is understood here also and makes this rule an optional rule of limited scope as in the last sutra (व्यवस्थित विभाषा). Thus पचतु, पचन्तु ।
In fact, this sutra is confined to ति and झि only and does not apply to सि to which the next sutra applies.
Kashika¶
लोट इत्येव। लोडादेशानामिकारस्योकारादेशो भवति। पचतु। पचन्तु॥ हिन्योरुत्वप्रतिषेधो वक्तव्यः॥ न वोच्चारणसामर्थ्यात्। अथवा वेति वर्तते, सा च व्यवस्थितविभाषा॥
Siddhanta Kaumudi¶
लोट इकारस्य उः स्यात् । भवतु ॥
Laghu Siddhanta Kaumudi¶
लोट इकारस्य उः। भवतु॥
Padamanjari¶
लोडादेशानामिकारस्येति । अथ तु - लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात,’तुह्योः विदाङ्कुर्वन्तु’ इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात्’सेर्हुः’ ‘मेर्नुः’ इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । ठानि लोट्ऽ, हुझल्भ्यो हेधिःऽ इति लिङ्गं हिनयोरुत्वाभावस्य ॥
Nyaas¶
हिन्योः इत्यादि। हिश्च निश्च हिनी, तयोरुत्वप्रतिषेधो वक्तव्यः, अन्यथा हि लुनीहि पचानीति न सिध्येत्। न वोच्चारणसामर्थ्यात् इति। यदि हीकारे कृते सत्युकारेण भवितव्यं तदोकारमेवोच्चारयेत्। अयं हि लधीयान् शब्दव्युत्पत्तावुपायः। न चेकारोच्चारणे सूत्रस्य लाघवं भवति, तदुकार एवोच्चरयितव्ये यदिकारोच्चारणं करोति, तस्यैतत् प्रयोजनम् - उत्वं मा भूदिति॥
Sutra Prayogas¶
तृणेढु (भट्टिकाव्यम्): एरुः रुधादित्वात् श्नम् ।